________________
६२८
सिद्धिविनिश्चयटीकायाम् [९ शब्दसिद्धिः स्वीकुर्वन्ति गुणान् रूपादिज्ञानादीन् अर्थाः [४९१ख] घटादयः यया शक्तया अगुणा गुणरहिताः न किंतया शक्तथा तत्संविदो गुणसंविदः कुर्युः भिन्नः (भिन्नाः) परस्परविलक्षणाः अर्थाश्चेत् यदै (यदि ए)कसंविदः एका संविद् येषामिति ।। . कारिकां व्याख्यातुमाह-तत्सामान्यम् इत्यादि । तत्सामान्यं सादृश्यसामान्यम् एकं ५ सकलबाहुलेयादिव्यक्तिसाधारणमुपकुर्वन्ति आत्मनि धारयन्ति व्यञ्जयन्ति वा । काः ? व्यक्तयः खण्डादिविशेषाः । न पुनरेषां(रेक) बुद्धिं गौौः इति प्रत्ययं कुर्वन्ति व्यक्तय इत्येवं यथा येन तद्बुद्धिकरणप्रकारेण न युज्येत किन्तु तदेकबुद्धिमेव कुर्वन्ती[ति] युज्येत [त] त्रैव सामर्थ्यदर्शनात् , तथा एकमखण्डं घटादितत्त्वम् आत्मनि स्वस्वरूपे स्पर्शादीन् गुणान बिभर्ति न
पुनः स्पर्शाद्याकारप्रत्ययानेव करोति इत्येवैन घटां प्राञ्चति अपितु अतद्गुणमपि तत्प्रत्ययान् १० करोतीति घटां प्राञ्चति । ततोऽनन्तरन्यायात् निराकारोऽर्थः स्यात् ।
___एवं हि (एवं बहिः) निराकारमर्थं प्रतिपाद्यावु तान्तः (द्य अधुना अन्तः) प्रतिपादयन्नाहजीव इत्यादि ।
[जीवः सुखादिपर्यायानेति शक्त्या यया तया ।
शक्तिमानिव लक्ष्येत चित्रबुद्धिः यथा स्वयम् ॥१८॥ १५ यया 'ततो भेदैकान्ते क्व दर्शनप्रत्यभिज्ञानादयः कथञ्चिद् व्यवहारपदवीमवतरेयुः ?]
जीवः आत्मा सुखादिपर्यायान् एति गच्छति शक्त्या योग्यतया यया तया शक्तया शक्तम वा (शक्तिमा)निव लक्ष्यत अनुभवोत्तरविकल्पबुद्ध्या व्यवसीयेत नानुभवेन गृह्यत (ह्येत) । परप्रसिद्धनिदर्शनमाह-चित्राहे(ने)त्यादि । चित्रमेव (मेच) कादौ २० ग्राह्यादौ वा बुद्धिः स्वयमचित्रापि यथा 'चित्रापि यथा' चित्रानेव (चित्रेव) लक्ष्यते ।
कारिकाविवरणमाह-यया इत्यादि । [४९२क] ततः किं जातम् ? इत्याह-ततः तस्मात् न्यायात् व बहिरन्तर्वा न कचिद् दर्शनप्रत्यभिज्ञानादयः कथञ्चिद् व्यवहारपदवमेव (दवीमव)तरेयुः क्कभेयुः (भवेयुः) । क ? भेदैकान्ते इति ।
भेदैकान्ते एकप्रत्यवमर्शमभ्युपगम्य दूषणमुक्तम् , इदानीं य (सं) एव नास्तीति दर्शय२५ नाह-अर्था इत्यादि ।
[अर्थाः प्रत्यवमर्शस्याहेतवोऽविषयीकृताः। .. ततस्तत्प्रतिबन्धस्य अविनाभावो न लैङ्गिकम् ॥१९॥
नहि प्रत्यभिज्ञानं स्वयमविषयीकृतान् प्रत्यवमृशति, प्रमेयाधिक्याच प्रमाणान्तरखप्रसङ्गात् । ततस्तत्र प्रतिबन्धाऽसिद्धौ साकल्येन व्याप्त्यसिद्धेश्च कुतोऽनु३० मानम् ?]
(१) 'चित्रापि यथा' दिलिखितम । (२) एकप्रत्यवमर्श एव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org