________________
.९।१७] सदृशपरिणामात्मकं सामान्यम्
६२७ सं तथा ; तत एव ज्ञानेऽपि न स्यात् । अथ ज्ञानपक्षे तत्केशानामभावात् न तैर्व्यभिचारचोदना; परपक्षे तैरसद्भिः सा कथं क्रियते ? पराभ्युपगमादिति चेत् ; भवदभ्युपगमाद् विज्ञानवद् अर्थेऽपि स आकारः परेण किन्न साध्यते ? सन्देहः स्यादिति चेत् ; तथहि-किं ज्ञानवदर्थेऽपि स सन् उत तत्केशवदसन् इति ? तदेतदसत् ; यतः ज्ञानेऽपि सन्देहानिवृत्तेः । तद्यथा स्तम्भाद्यर्थवत् ज्ञाने सन् अयमाकारः अहोस्विन्नख केशादिव द]सन्निति । भवेदयम् अर्थवादिनः ५ सन्देहो व्यभिचारविषय (ये)तेनाङ्गीकरणे धूममवि (मषिवि)पर्ययादिति चेत् ; न ; सारमेतत् ; यतः यथैव पराभ्युपगतव्यभिचारविषयमादाय परस्य सन्देह उत्पद्यते, तथा आत्मन्यपि उत्पादनीयः, एवं हि मध्यस्था (स्थ) ता स्यात् । [४९१क] परो वा यदा एवं वदति-बहिरिव ज्ञानेऽपि तत एव व्यभिचारात नायमाकारः सत्यः ; तदा किं त्वया वक्तव्यः-'तदभ्युपगमादेव स व्यभिचारः स चाभ्युपगमो न प्रमाणम्' इति चेत् ; न ; अप्रमाणात् संसित्प्रत्या (संवित्प्रतिपाद) दनायोगात्। १० अर्थ(अथ) परो यथाकथंचिद्वक्तव्य इति, तत एव संशयगर्तपाती क्रियते; तर्हि बौद्धोऽपि परेण यथा कथंचिद्वक्तव्य इति व्यभिचारविषयमनादृत्य विज्ञानवदर्थेऽपि तदाकारसत्यता साध्यते । अभ्युपगतपरित्यागो दोष इति चेत् ; न ; यत्परित्यागेऽपि बहुतरं सिद्ध्यति स्वपक्षे परपक्षक्षयकारी तत्परित्यागेऽप्यदोषात् । तदुक्तम्
*"त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥" तदिति । अथ ज्ञानेऽपि न स परमार्थतः ; तर्हि तेन व्यभिचारात् वर्णादिरपि तत्र तथास्तु । तन्न द्वितीयोऽपि पक्षः श्रेयान् । इदानीं तृतीयो विचार्यते-येन विभ्रमोवि (मोऽधि)गम्यते तत्प्रतिभासस्य विभ्रमेण (सस्याविभ्रमे तेनैव) व्यभिचारान्न सत्यता । मा भूत् इति चेत् ; उक्तंमत्रविभ्रमासिद्धेरिति ।
चतुर्थः पश्चतां नीतः पक्षः पूर्व यथाविधि ।
प्रमाणबाधनात् सत्तत (सत्यं तस्माद्भावा यथोदिताः ।। ननु यया प्रत्यासत्त्या किंचित् सादृश्यं केचन भावाः स्वीकुर्वन्ति तया स्वयमतदात्मकाः तथावभासिष्यन्त इति चेत् ; अत्राह-स्वीकुर्वन्ति इत्यादि ।
[स्वीकुर्वन्ति गुणानर्था यया शक्त्याऽगुणा न किम् ।
तया तत्संविदः कुर्युभिन्नाश्चेदेकसंविदः ॥१७॥ यथा तत्सामान्यमेकं व्यक्तय उपकुर्वन्ति न पुनरेकबुद्धिमिति न युज्येत तथैकं घटादितत्त्वमात्मनि स्पर्शादीन् बिभर्ति न पुनः स्पर्शाद्याकारप्रत्ययानेव करोतीति न घटां प्राश्चति, ततो निराकारोऽर्थः स्यात् ।] .
(१) तदाकारः । (२) पारमार्थिकः । (३) व्यभिचारचोदना । (४) बौद्धन (५) शून्यतामात्रमिति पक्षः । (६) पञ्चतां नाशतां प्राप्तः । (७) उद्धृतोऽयम्-न्यायवि० वि० प्र० पृ० ४०८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org