________________
६२६
सिद्धिविनिश्चयटीकायाम् [९शब्दसिद्धिः (लोपः) । परः प्राह-न प्रतीतेः प्रमेयव्यवस्था इतरथा मरीचिकायां जलव्यवस्था तत्प्रतीतेः स्यादिति ; सोऽनेन निरस्तः ; एवं हि वर्णादिव्यवस्थापि मा भूत । शक्यं हि वक्तुं न तत्प्रतीते[:] तद्व्यवस्था मरीचिकाजलवदिते (दिति) । बाधकामावं नैवं(भावान्नैवं) चेत् ; सादृश्यप्रतीतेः किं बाधक (कम् ?) प्रत्यक्षमिति चेत् ; किं पुनः तद् आत्मानं बाधते ? सादृश्यमात्र ५ इति चेत् ; भेदमात्र इति समानम् । प्रतीते; इतरत्रापि सास्ति ।
किंच, तदात्मनि बाधितेतररूपद्वयं प्रतिपद्यमानमेव (न एव) अन्यत्र सदृशेतरस्वभावद्वयं न सहत इति महती प्रेक्षाकारिता ! किंच तेन तत्र बाधनम् ? अग्रहणमिति चेत् ; तदसिद्धं वर्णादिमात्रेऽपि प्रसङ्गात् । तदग्रहणे प्रत्यक्षाभावः; अन्यत्रापि । अतस्मिस्तंग्रहज्ञापनमनेन
[४९०क] चिन्तिर्व(चिन्तितम्) वर्णादिवद् अन्यत्रापि न तथाप्रतीतिः । तन्न प्रत्यक्षं बाधकम् । १. अत एव नाऽनुमानमपि ; तँदभावे [s] भावात् । व्यक्तिव्यतिरेकेण तददर्शनं वाधकमिति चेत् ;
किं पुनः वर्णादेः तव्यतिरेकेण दर्शनमस्ति ? स एव व्यक्तिरिति चेत् ; सादृश्यमप्यस्तु । नहि नैयायिकेनेव जैनेन तद (तंद्-) भिन्न सामान्यमिष्यते । व्यक्तय एव स्युः इति चेत् ; भवन्तु का नो हानिः ? केवलं परस्परं सदृशात्मान इति । निरंशपरमाणुदर्शनात् न तासां सदृशेत[र]रूपतां (ता) युक्ता इति चेत् ; अत्राह-तदेको हि इत्यादि । तस्य वर्णादेः एकः १५ साधारणः हिर्भावनायाम् । कः ? इत्याह-आकारः । किंभूतः ? स्थवीयान् । पुनरपि
किंभूतः ? समक्षसनिवेशी । कथं किम् ? इत्याह- परिस्फुटं यथा भवति तथा अवभासते इति । अस्यानभ्युपगमे दूषणमाह-तदप्रत्यक्षत्वे तस्य आकारस्याऽप्रत्यक्षत्वे तको (न कोऽपि) न कश्चित् प्रत्यक्षार्थः । विचारितमेतत् अनेकधा, न पुनरुच्यते । एवं मन्यते-यदि अयमा
कारः बहुषु परमार्थसन् खण्डादिषु सदृशपरिणामोऽपि स्यादिति ।। २० प्रज्ञा क र गु तस्त्वाह-*"न तदाकारदर्शनाद् बहिः तथा वस्तुसिद्धिः दूरविरल
केशादौ तदाकारप्रतिभासेन व्यभिचारात्" इति ; स प्रष्टव्यो भवति-किं बहिरर्थमाश्रित्य एवमुच्यते, उत ज्ञानमात्रम् , विभ्रममात्रम् , शून्यतामात्रं वा ? प्रथमपक्षे बहिर्वर्णादिव्यवस्थापि मा भूत् शुक्ले शङ्ख पीतप्रतिभासनेन व्यभिचारात् । न सुबर्णादौ पीतभासावs (पीतावभासः)
तत्प्रतिभासात् ; मधुरे क्षीरे [४९०ख] पित्तज्वरिणः कटुकप्रतिभासेन अनेकान्तात् । निम्बादौ २५ कटुकता तत्प्रतिभासात् । एवं सर्वत्र योज्यमिति साध्वी सारूप्यव्यवस्था ! बाधकाभावोऽन्यत्रापि । द्वितीयविकल्पे बहिरिव ज्ञानेऽपि स कथम् आकार इति चिन्त्यम् ? नास्तीति चेत् ; किं पुनः नीलादेरन्यद्विज्ञानम् ? तथा चेत् ; नीलादिः किम् ? न किञ्चिदिति चेत् ; विज्ञानमपि तथास्तु। प्रतीत्यपलापे परं (वरं) सर्वालापः । एवं हि सुतरां क्लेशविच्छेदः । भ्रान्त इति चेत् ; तेन तर्हि
व्यभिचारात् न प्रतिभासात् कस्यचित् स्वसंवेदनसिद्धिः। नीलादिरेव ज्ञानमिति चेत् ; कथं ३० तत्र तदाकारः पारमार्थिकः ? अन्यथा अर्थेऽपि स्यात्। अथ दूरविरलकेशेषु व्यभिचारात् न तत्र
(१) वर्णादिव्यवस्था । (२) प्रत्यक्षम् । (३) इति चेत् । (४) प्रत्यक्षाभावे । (५) अनुमानस्याप्यनुत्पत्तेः । (६) व्यक्तिभिन्नम् । (७) व्यक्तीनाम् । (८) 'न' इत्यत्रापि योज्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org