________________
९।१६]
सदृशपरिणामात्मकं सामान्यम्
६२५ तदेकप्रत्यवमर्शस्य..]
सादृश्येन सदृशपरिणामेन विना तदन्तरेण । केषाम् ? अर्थानां पावकादीनाम् प्रत्यभिज्ञाबलात् प्रतिपत्ता सौगतोऽन्यो वा अर्थान् विभजते विभागेन व्यवस्थापयति। किंभूतान् ? तदतद्धेतून [तद्धेतून् ] उदकाद्याहरणहेतून घटान् अतद्धेतून् पटादीन् स्वयम् आत्मना किल इति अरुची, सादृश्याभावे प्रत्यभिज्ञानस्यापि दुर्लभत्वात् । नहि लूनपुनर्जात- ५ केशादावपि तदस्ति, अन्यथा तृणदर्शनादपि त एव केशा इति स्यात् इति मन्यते ।
कारिको व्याख्यातुमाह-तदेकप्रत्यवमर्शस्य इत्यादि । तेषां खण्डादीनाम् एकप्रत्यवमर्शस्य । शेषं गतार्थम् । अत्र दूषणमाह-विषय इत्यादि ।
[विषयविषयिव्यवस्थैवं सर्वत्रोत्सन्नैव किल । वर्णादिप्रत्यभिज्ञानकृतेर्वर्णादिसंविदः ॥१६॥
'किंचन व्यवस्थापयेत् यावता तत्संविधतुत्वात् वर्णादिमत्त्वं सादृश्यवत् । ततः किं कस्य कारणं कार्य वा यतोऽयं व्यवहारः प्रवतते । न वर्णादेः प्रत्यक्षाद् व्यवस्था ; सदृशात्मनः प्रत्यक्षत्वात् । न प्रतीतेः प्रमेयव्यवस्था; एवं हि वर्णादिव्यवस्थापि मा भूत् । तदेको हि स्थवीयानाकारः समक्षसन्निवेशी परिस्फुटमवभासते । तदप्रत्यक्षत्वे न कोऽपि १५ प्रत्यक्षार्थः ।]
विषयो रूपादिः विषयि तद्विज्ञानम् तयोर्व्यवस्थैव(व)सर्वत्र बहिरन्तश्च उत्सन्नैव स्यात् किलशब्दः अनेन व्याख्यातः । कुतः ? इत्याह-वर्णादि इत्यादि । वर्णः शुक्लादिः रूपमादिर्यस्य रसादेः तस्य प्रत्यभिज्ञानं मानसो विकल्पविशेषः तस्य कृतेः कारणात् वर्णादिसंविदः रूपादिसंवित्तयः वर्णादिसंविदां हेतुः वर्णादिः (देः) स्यात् नततोवर्णादिः २० स्यात् । अथ मतम्-वर्णाद्यभावे खरविषाणवत् न तत्संविदः, तदभावे न तत्प्रत्यभिज्ञानमिति; समानमेतदन्यत्रापि ।
___कारिकां विवृण्वन्नाह-किंच ते(चन इत्यादि । कुतो न व्यवस्थापयेत् ? इत्याह-यावता इत्यादि । वर्णादि]प्रत्यभिज्ञाताद् (नाद्) वर्णादिसंविदो व्यवस्थाप्यन्ते [४८९ख] तत्संविदा वर्णादिधियां हेतुत्वा[]मानानां वर्णादिमत्त्वं न स्वभावतः सादृश्यवत् इति निदर्शनम् । ततः २५ तस्मात् भ[भा]वानां तत्त्वा (त्त्व)व्यवस्थाभावात् किं चेतनमचेतनं वा कस्य तथाविधस्य कारणं कार्य वा न किञ्चित् कस्यचित् इत्यर्थः। यतोऽयं कस्यचित् कार्यकारणभावात् व्यवहारः प्रवतते । परमतमाशङ्कते दूषयितुं वर्णादिः(देः) इत्यादि । तात्पर्यम्-वर्णादेःप्रत्यक्षाद् व्यवस्था, न प्रत्यभिज्ञानात् । अत्र दूषणम्-'न' इत्यादि । न इति परपक्षनिषेधे । कुतः ? इत्याहसदृशात्मनो वर्णादेः प्रत्यक्षत्वात् । तथाहि-संमयरहितस्य अन्यत्र गतचित्तस्य वा कचित् ३० खण्डमुण्डादिदर्शिनः ‘एते समानाः' इति प्रतीतिः, अस्या अपलापे सकला (ल)प्रतीतिविलोपरः
(१) सादृश्यं विना प्रत्यभिज्ञानमस्ति । (२) सङ्केतरहितस्य । (३) सदृशप्रतीतेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org