________________
.६२४
सिद्धिविनिश्चयटीकायाम्
[९ शब्दसिद्धिः महानससम्बधिनोऽग्न्यादेः तस्य प्रत्यक्षसिद्धवात् , न तत्र तत् प्रमाणमिति। अन्यत्र प्रमाणमिति चेत् ; अत्राह-तदन्यत्र इत्यादि । तस्मादन्यत्र प्रत्यक्षादन्यत्र परोक्षे प्रमाणं कथम् ? कुतः ? इत्याह-प्रतिबन्धासिद्धेः अन्यत्र इति ।
स्यान्मतम्-धूमसामान्यम् अग्निसामान्येन व्याप्तमेकदा प्रतिपन्नं सर्वदा प्रतिपन्नमेव इति ५ चेत् ; तदाह-सामान्येन इत्यादि । परं पृच्छति 'किं पुनः' इत्यादिना । पर आह-अन्यापोहः सामान्य[म् इत्यादि । अन्य]स्माद् विजातीयादपोहः व्यावृत्तिः, अन्यस्य वा अपोहः, अन्यो वा अपोह्यतेऽस्मिन् विकल्पाकारे इति । विकल्पान्तरवदपोहविषयत्वेन प्रत्यक्षस्य विकल्पकत्वप्राप्तः इति मन्यते । अथ अनुमानात् तत्प्रतीतिरिष्यते ; सत्राह-तदनुमान इत्यादि । तस्य व्याप्य
व्यापकापोहसामान्यस्य अनुमानकल्पनायां सत्याम् अनवस्थानात् कथमनुमानज्ञानं क्वचित् १० प्रमाणमिति ? तथाहि-सामान्यम् अनुमानात् प्रतीयते। तदपि लिङ्गादुदयवत् , तत्रापि सामान्येन प्रतिबन्धवेदनम् , तत्रापि तदेव वक्तव्यं यावन्न कचिदवस्थानमिति ।
स्यान्मतम्-प्रमाणमन्तरेण तत्प्रतीयते इति ; तत्राह-प्रमाणमन्तरेण न तस्य अपोहस्य प्रतिपत्तिः तत्प्रतिपत्तिः । कुतः ? इत्याह-अन्यत्रापि इत्यादि । [४८८ख] अन्यत्रापि प्रत्य
क्षानुमेयाभिमतेऽपि प्रमाणकल्पनाऽनर्थक्यात प्रकृतसामान्यवद् अन्यस्यापि तदन्तरेण प्रतीतेः । १५ व्यवहारेण तस्य सार्थकत्वे प्रतिबन्धज्ञानं तथास्तु । योगिप्रत्यक्षं तदस्तीति चेत् ; उक्तमत्र
'सर्वस्मात् स्वविषयात् तदनुत्पत्तेः' इत्यत्तेः' इतरथा तत एव साध्यसिद्धः किमनुमानेन ? तत्रापि सामान्येन प्रतिबन्धग्रहणे सविकल्पं तत् इति। दूषणान्तरमाह-सादृश्य इत्यादि । सदृशपरिणामलक्षणं(णां)जाति सामान्यमन्तरेण कथम् अन्यव्यावृत्तम् अन्यस्मात् विजातीयादपसृतं पावकादिकम् एकत्वेन अभेदेन प्रतीयात् ? न कथञ्चित् । स्वयं हि सादृश्याद् व्यावर्त्तते नान्ये सदृश२० परिणामलक्षणजातिसद्भावे च किमन्यापोहसामान्येन इति भावः। कुतः न कथञ्चित् प्रतीयात् ?
इत्याह-विवक्षित इत्यादि । विवक्षितंज्ञानम् अशेषं स एव पदार्थः पदाभिधेयः तस्य अन्यस्मादज्ञानात् पटात् व्यावृत्तिः तस्याः सर्वत्र घटादावविशेषात् । तथा च अज्ञानात् पटाद् व्यावतमानं यथा ज्ञानं ज्ञानपदाभिधेयं तथा घटादिकमपि स्यात् । अथ स्वयं ज्ञानमेव ततो व्यावर्त्तमानं
तद्व्यपदेशभागुच्यते ; तर्हि साध्वेतत्-सदृश इत्यादि । २५ ननु न परमार्थतः सादृश्यमप्येवं सामान्यमस्ति, केवलमेकप्रत्यवमर्शज्ञानहेतुत्वात् धियामभेदः, सदभेदाद् व्यक्तीनामभेद इति । तदुक्तम्-[४८९क]
*"एकप्रत्यवमर्शस्य हेतुखाद्धीरभेदिनी ।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥" [प्र० वा० ४।१०८] इति ; तत्राह-सादृश्येन इत्यादि ।
[सादृश्येन विनार्थानां प्रत्यभिज्ञावलात् किल ।
प्रतिपत्ता तदतद्धेतूनर्थान् विभजते स्वयम् ॥१५॥ (१) अनुमानम् । (२) अनुमानमपि । (३) अविनाभावसम्बन्ध । (४) प्रमाणमन्तरेण । (५) 'इत्यत्तेः' इति निरर्थकमत्र । (६) योगिप्रत्यक्षादेव । (७) घटपदाभिधेयं स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org