________________
९।१४ ] न प्रत्यक्षमेव असाधारणविषयम्
६२३ . तदनुपपत्तेः इति ग्राह्यम् । तथाहि-ज्ञानार्थयोः द्वयोरपि दर्शने इदमनेन समानमिति भवति निश्चयो यमलकवत् । नच परस्यार्थदर्शनमस्ति ओन्यत्रोपचारात् । सोऽपि न युक्तः, यतः पूर्व (व) द्वयो[:]दर्शने, पुनरन्यतरदर्शना[त्] तत्सदृशान्यदर्शनाध्यारोपस्य (पः स्यात् ) तत्त्वात् ] चैत्रमैत्रदर्शनाध्यारोपवत् । द्वयोर्दर्शने वा तदाकारेण चेतसा ; तदवस्थो दोषोऽनवस्था। भ्रान्त्यिा ] तदाकारेण वेदने सिद्धं नः समीहितम् ।।
प्रत्यक्षं च सदात्मान(न) नीलाद्याकारवर्जितम् । घेत्ति तस्मान्न सारूप्यं सिद्धं ज्ञानार्थयोः कचित् । घटादिकमहं वेद्मि [४८७ख] देशभिन्नं परिस्फुटम् । इति लोके यतो दृष्टो व्यवहारो ह्यविगानतः ।। अहंप्रत्ययतो नान्या संवित्तिर्वीक्ष्यते मतम् । सारूप्यं सौगतैर्यस्या मानवाणसमन्वितम् ॥ प्रत्यक्षबाधनात् सिध्येत् सारूप्यं नानुमानतः । प्रत्यक्षबाधितः पक्षो नान्यतः सिद्धिमृच्छति ॥ द्वयोरेकेन दृष्टिश्च दृष्टत्वान्न विरुध्यते ।। सममन्यच्च तेन स्यादेकस्मात् कार्यमन्यथा ॥ वासना कारणं वित्तः चिन्तनीया मनीषिभिः । बहिरर्थग्रहे दोषैः सापि योज्या समस्तवैः (?) ॥ यस्याप्यहेतुकं ज्ञानं चित्तमेकमनाविलम् । तस्यापि चार्थसंवित्तिरविरुद्धेति साधितम् ॥ निरंशानेकविज्ञानवादः पूर्वं कृतोत्तरः ।
एकानेकविकल्पादिशून्यं हि सर्वथा ततः ॥ सारूप्यस्य सर्वथानुपपत्तेः स एव प्रतिबन्धोऽस्तु किं सर्वथा तज्जन्मसारूप्ययोरवस्तुत्वम् ? न ; इत्याह-अन्यत्र विकल्पघटनात् विकल्पे[घट]नात् अन्यस्मिन् परमार्थपक्षो (क्षे) वस्तुत्वं तद्घटनात्तु वस्तुत्वमेव इत्यर्थः ।
ननु *"प्रामाण्यं व्यवहारेण" [प्र०वा० १।५] इत्यभिधानात् सौगतेन[न] संवृत्या २५ तया त एव दोषाय इति चेत् ; न ; अन्यथाभिप्रायात् । तथाहि-तज्जन्मसारूप्यवत् विकल्पघटना[त् ] निराकारमेव ज्ञान बस्तु(मस्तु) तथैव लोके व्यवहारादिति ।
पुनरपि तत्रैव दूषणान्तरमाह-यद्ययं निबन्धः (निर्बन्धः) इत्यादि । [न] प्रत्ययस्य ज्ञाना(नस्य अ)कारणम् अपितु कारणमेव विषयः इति ; कथम् न अनुमानज्ञानं [४८८क] क्वचित् पावकादौ साध्ये प्रमाणम् ? परः पृच्छति-'कथं च न' इति ? तस्योत्तरमाह-संविदित ३० इत्यादि । संविदितः प्रत्यक्षेण प्रतिपन्नः प्रतिबन्धविशेषः तदुत्पा(त्पत्त्या) दिलक्षणो यस्य
(१) योगाचारस्य । (२) अविवादतः । (३) कल्पनया ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org