________________
६२२
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
एतत् ? य एव हि पारम्पर्येण तद्विकल्पवासनाप्रबोधकाः तत्रैव तद्विकल्पस्य दर्शनात्, कथमेवमानवन्ता ( कथमेवम् अनुमानवत् ना) र्थप्रतिबद्धजन्मानो विकल्पाः, यतस्तद्योनयः शब्दाः तथा न स्युः ? भवन्तु तत्परिवद्वा ( तत्प्रतिबद्धाः ) ननु ( नतु ) तद्विषया' इति चेत्; प्रत्यक्षस्य द्विषयता न भवेत् । सारूप्यादिति चेत्; कुतः तस्य तैत् ? तस्मादुत्पत्त रिति चेत्; अविकल्पादु५ त्पत्ति (त) र्विकल्पस्यापि स्यादित्युक्तम् ।
किंत्व (किं च, ) पारम्पर्येण स्वलक्षणादुत्पत्तेः तदव्य ( तदध्य) वसायी चेद् विकल्पः ; चक्षुराद्यव्य (द्यध्य)वसायी स्यात् । अयोग्यत्वान्नेति चेत्; स्वलक्षणे योग्यत्वं कुतः ? [४८६क ] तदनुभवादुत्पत्तेः ; तस्यानुभव इति कुतः ? [तर्त ] उत्पत्तेश्चेत्; चक्षुरादेः स्यात् । 'अतद्रपत्वान्न' इत्यपि नोत्तरम् ; स्वलक्षणेऽप्यस्य समानत्वात् । तत [:] स्थितम् - ' शब्दाद्विवक्षाप्रतीत १० अर्थे प्रवृत्तिर्न स्यात्' इति ।
1
कारिकार्थमाह-शब्दार्थ इत्यादिना । शब्दस्य अर्थः स विद्यमानोऽसत्त्वा [द]विद्यमानो वा' इति तद्विवक्षाम् अर्थवाञ्छाम् अनावृत्य (दृत्य) सर्वः । कः ? अर्थक्रियार्थी जलाद्याहरणार्थी तत्समर्थ [मेव अर्थ ] क्रियायोग्यमेव शब्दार्थं परीक्षेत । कुतः ? इत्याह- तत्रैव इत्यादि । यत एवं ‘ततं एवं ' ततः [ व्यवहारं ] शास्त्र' च कुर्वाणः सुगतोऽन्यो वा तदनायैव १५ (तदर्थप्रतिपादनायैव) अर्थक्रियासमर्थप्रतिपादनायैव कर्त्तुमर्हति नान्यथा नान्येन विवक्षाप्रतिपादनप्रकारेण तत्प्रतिपादनेऽपि प्रयोजनाभावादिति । कथं पुनः अर्थाऽप्रतिबद्धजन्मनः शब्दाद् अर्थप्रतिपत्तिः इति ? अत्रैव पुनरपि दूषणमाह - नवैत्यादि ( न च इत्यादि) न च नैवायमेकान्तः । कोऽसौ ? इत्याह - सर्वत्र मेय ( प्रमेये ) बुद्धीनां प्रामाण्यम् अर्थप्रतिबन्धादेव इति । कुतः ? इत्याह-‘इन्द्रिय' इत्यादि । युक्तयन्तरमत्रैव दर्शयन्नाह - क्वचित् इत्यादि । क्वचित् चक्षुर्विज्ञाने रूपमात्रप्रतिभासनात् मात्रशब्देन रूपविशेषस्य क्षणनाशादेरप्रतिभासनात्, वर्णरसादिप्रतिबन्धाविशेषेप्या [४८६ख ] . • [ ४८७ ] सत्त्वविशेषात् ( ? ) " नापि व्यतिरिकानुविधानेन; संशयादिज्ञानस्य अर्थाभावेऽपि भावात्, अपि चक्षुरादिषु समर्थेषु सत्स्वपि अर्थाभावे ज्ञानाभावः । तदनुविधानं तच्च ( नं च ) न तेनैव ज्ञानेन प्रतीयते ; तदा तदभावात्, अन्यथा तद्विरोधः । अन्येन प्रतीयत इति चेत्; उभयदशावलम्बिना तेन भवितव्यम्, इतरथा तेन तद्ग्रहणायोगात् । तस्यापि स्वद ( स्वार्थ ) कार्यता, अन्येन तदनुविधानग्रहण इत्यनवस्था | ततः स्थितम्-तज्जनो (तज्जन्मसारूप्ययोर) वस्तुत्वात् सर्वथा [ तद] नुपपत्तेः स एव प्रतिबन्धोऽस्तु । तथा (सर्वथा तस्य ) सारूप्यस्य सर्वेण सर्वात्मना [न] कथञ्चित् प्रकारेण अनुपपत्तेः ज्ञानजडत्वानेकान्तप्रसङ्गात् स एव अस्तु इति । यदि वा, सर्वेण प्रत्यक्षानुमानप्रकारेण
,
0
(१) विकल्पाज्जायमानाः । (२) अर्थ प्रतिबद्धाः । (३) अर्थविषयाः । ( ४ ) अर्थविषयता । (५) सारूप्यम् । (६) चक्षुरादेरपि परम्परया तदुत्पत्तिदर्शनात् । ( ७ ) इति चेत् ; । (८) स्वलक्षणात् । ( ९ ) 'तत एवम्' इति निरर्थकमत्र । (१०) अत्र आदर्शप्रतौ '४८६ ख' तमे पृष्ठे पङक्तिद्वयं रिक्तम लिखितम्, '४८७ क' तमः पृष्ठश्च संपूर्णो रिक्त; ४८७ ख पृष्ठे च पङक्तिरेका रिक्ता वर्तते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org