________________
९१४ ]
न विवक्षामात्र बाचकत्वं शब्दानाम्
६२१
स्यान्मतम् - मदीया विवक्षा परम्परया अर्थप्रतिबद्धा नेतरा, ततः तद्व्यवस्था इति ; तदपि मदीयमतानुकूलम् ; बहिरर्थेऽपि तथा प्रतिबन्धसद्भावात् । अत्रैव दूषणान्तरं दर्शयन्नाह - सदसद्वस्तु इत्यादि ।
[ सदसद्वस्तुभेदेन विवक्षायामनादरात् । तद्वस्तु चिन्त्यते यत्र प्रतिबद्धः फलोदयः ॥ १४ ॥
शब्दार्थविवक्षामनादृत्य सर्वोऽर्थक्रियार्थी तत्समर्थमेव शब्दार्थं परीक्षेत तत्रैव ततः व्यवहारं शास्त्र ं च कुर्वाणः तदर्थप्रतिपादनायैव कर्तुमर्हति नान्यथा । न चायमेकान्तः सर्वत्र अर्थप्रतिबन्धादेव बुद्धीनां प्रामाण्यम् । क्वचित् रूपमात्रप्रतिभासनात् वर्णरसादिप्रतिबन्धाविशेषेऽपि तज्जन्मसारूप्ययोरव स्तुत्वात् सर्वथा तदनुपपत्तेः स एव प्रतिबन्धोऽस्तु अन्यत्र विकल्पघटनात् । यद्ययं निर्बन्धः “नाकारणं विषयः " प्रत्ययस्येति ; १० कथमनुमानज्ञानं क्वचित् प्रमाणम् ? कथं च न १ संविदितप्रतिबन्धविशेषस्य प्रत्यक्षसिद्धत्वात् । तदन्यत्र प्रतिबन्धासिद्धेः कथं प्रमाणम् ? सामान्येन ; किं पुनरन्यापोह : ? तदनुमानकल्पनायामनवस्थानात् । न प्रमाणमन्तरेण तत्प्रतिपत्तिः ; अन्यत्रापि प्रमाणकल्पनानर्थक्यात् । सादृश्यलक्षणजातिमन्तरेण कथं पावकादिकमन्यव्यावृत्तमेकत्वेन प्रतीयात् ? विवक्षितज्ञानपदार्थस्य अन्यव्यावृत्तेः सर्वत्राविशेषात् ।]
तद् वस्तु चिन्त्यते परीक्ष्यते यत्र वस्तुनि प्रतिवइ (तिबद्ध :) आयत्तः फलोदयः फलात्मलाभः शब्दाविषयत्वेन (शब्दविषयत्वेन इ) त्यध्याहारः । कथं चिन्त्यते ? इत्याहसच्चा[ऽसच्च] सदसत् भावाऽभावावित्यर्थः, सच्च (सदसच्च) तद्वस्तुभेदश्च सः तेन । 'कस्य शब्दस्य बहिरर्थोऽस्ति, कस्य नास्ति' इत्यनेन रूपेण विवक्षा कस्मान्न चिन्त्यते ? इत्याह-विवक्षायामनादरा [त् ] । नहि तेस्यां जलाहरणादिफलं प्रतिबद्धम्, अन्यथा न बहिः २० कश्चित् प्रवर्त्तेत । सर्वस्य वा फलं (ल) सम्बन्धः सर्वत्र विवक्षाभावा [त ] । [४८४ख ] विवक्षा चेच्छब्दार्थः ; तत्रैव प्रवृत्तिः स्यात् न बहिरर्थे । न हि शब्दादन्यप्रतिपत्तौ अन्यत्र प्रवृत्तिः, इतरथा गोशब्दाद् अश्वे प्रवृत्तिः । अथ विवक्षा अर्थ प्रतिबद्धा, ततः तत्प्रतिपत्त्या तंत्र प्रवृत्तिः ; नन्वेवं मीमांसकस्य प्रति ( प्रतीत ) परसामान्यस्य विशेषे वृत्तिरविरुद्धा स्यात् ।
स्यादेतत्, विवक्षितस्यार्थस्य स्वलक्षणे समारोपाद् भ्रान्त्या तत्र वृत्तिरिति ; तन्न सारम् ; २५ यतः सर्वस्य सर्वत्रारोपात् प्रवृत्तिप्रसङ्गात् ।
अथ मतम्-गोविवक्षारूढस्य स्वदा ( खण्डादा ) वेवारोपः सादृश्यात्, नान्यत्र विपर्ययात् ; सिद्धं तर्हि विवक्षाविकल्पस्य बहिरर्थगोचरत्वम् । नहि प्रत्यक्षस्यापि सादृश्यादपरं तत् । सर्वथा सादृश्यं सर्वत्र दुर्लभम् ।
ननु नियतवृत्तयो भ्रान्तयः ततः काचित् क्वचिदिति न सर्वत्र प्रवृत्तिरिति चेत् ; कुत ३० (१) “नाकारणं विषयः " - प्र० वा० मनोरथ० २ | २५७ । (२) विवक्षायाम् । (३) स्यादिति । (४) अर्थप्रतिपत्त्या । (५) अर्थे । (६) अश्वादौ । (७) बहिरर्थं गोचरत्वम् |
Jain Education International
५
For Personal & Private Use Only
१५
www.jainelibrary.org