________________
६२० ।
सिद्धिविनिश्चयटीकायाम् [९ शब्दसिद्धिः *"विकल्पयोनयः शब्दाः विकल्पाः शब्दयोनयः । [४८४ख]
'तेषामन्योन्यसम्बन्धा (न्धो) नार्थान् शब्दाः स्पृशन्त्यमी ॥” इति ; ननु सर्वविकल्पानां मिथ्यात्वैकान्ते इदमपि दुरवसेयम् । अत एव उच्यते-'अर्थे विभ्रमैकान्तो विकल्पानान्न सिध्येद् विभ्रमात्' इति ।
किंच, सर्वशब्दमृषात्वप्रतिबद्धः, अन्यथा वा तत्प्रतिपादकः शब्दो भवेत् ? आद्य विकल्पे सिद्धं नः समीहितम् , तद्वदन्यस्यापि स्वार्थप्रतिबन्धसंभवात् । द्वितीये तदप्रयोगः । नहि जानन्नेव सौगतः साध्याप्रतिबद्धं वस्तु, तेन व्यवहारमुपरचयति ; प्रेक्षाकारिताहानेः । अगत्या तेनापि रचयति इति चेत् ; किम् इदानीमध्यक्षस्य अन्यस्य वा तदुत्पादि (त्पाद) कल्पनया ? स्वयमप्रतिबद्धा व्यवहारं कुर्वन्नन्यस्मै तँत एव तं कुर्वाणाय कुप्यतीति कथं स्वस्थः ? "तद्वि• वक्षायां तत्प्रतिबन्ध इति चेत् ; अत्रोत्तरम्-'सदसद्वस्तुभेदेन' इत्यादि भविष्यति । तत एवाह-अर्थाप्रतिबद्धत्वात् इत्यादि ।
कारिकां व्याख्यातुमाह-बहिरर्थप्रतिक्षेप इत्यादि । बहिरर्थस्य प्रतिक्षेपे क्रियमाणे निराचारेण योगाचारेण । किम् ? इत्याह-सर्वज्ञानानां विभ्रमैकान्ते बहिरर्थवत् स्वरूपस्यापि प्रतिक्षेपप्रसङ्गात् , "स्वरूपवत् अर्थस्यापि प्रतिभासनात् । चिन्तितमेतत् । ततः किम् ? ५ इत्याह-विभ्रमैकान्ताद्यथा विभ्रमो न सिध्यति तथैव साकल्येन शब्दानाम् अर्थानभि
धानं न सिध्यति । कुतः ? इत्याह-अर्थाप्रतिबन्धात् साकल्येन शब्दानामिति । [४८५क] यथा वा सौत्रान्तिकस्य सत्यपि बहिरर्थे विकल्पानां विभ्रमैकान्ते तद्विभ्रमैकान्तासिद्धिः तच्छब्देन विकल्पानां परामर्शः, तवैवे(तथैव इ)त्याद्यत्रापि पूर्ववत् । अविकल्पात्तत्सिद्धिरिति
चेत् ; अत्राह-निर्विकल्पस्य इत्यादि। • ननु 'सर्वे शब्दा निर्विषयाः' इत्यस्यां विवक्षायां प्रतिबन्धोऽस्ति मदीयस्य शब्दस्य, ततोऽयमदोष इति चेत् ; अत्राह-तद्विवक्त (क्षे)त्यादि । निर्विषयाः सर्विषयाः' सर्वे शब्दा इति वाञ्छा तद्विवक्षा विषयो यस्य तस्य भावः तत्ता तदेकान्ते कुतः सत्यमिथ्या सर्वे शब्दा वहि (बहिरथ) रहिता इति वचनं सत्यम् , तत्सहिता इति च मिथ्या तयोः व्यवस्था कुतः यतो जयपराजयव्यवस्था कल्पते (कल्प्यते) ? विवक्षाव्यभिचारः ; उभयत्रापि । अर्था२ प्रतिपादनं च।
(१) 'तेषामन्योन्यसम्बन्धे' न्यायमं० पृ० १५० । 'तेषामत्यन्तसम्बन्धो' नयचक्रवृ० पृ० २४३ । 'कार्यकारणता तेषां नार्थान् शब्दाः स्पृशन्त्यपि'-न्यायावता० टी० पृ० ४४ । रत्नाकराव० पृ. ९ । स्या० मं० पृ० १७५ । 'तेषामन्योन्यसम्बन्धः'-न्यायकुमु० पृ. ५३७ । स्या० र० पृ० ७०१ । (२) 'सर्व मृषा' इत्याकारकः। (३) शब्दप्रयोगो न कर्त्तव्य इति । (४) वस्त्वप्रतिबद्धेनापि शब्देन । (५) अर्थादुत्पाद । (६) शब्दात् । (७) चार्वाकाय । (८) अप्रतिबद्धात् शब्दात् हेतोर्वा । (९) व्यवहारम् । (१०) शब्दविवक्षायाम् । (११) अन्यथा । (१२) तत्सत्त्वं स्यादिति भावः। (१३) 'सर्विषयाः' इति व्यर्थमत्र पुनर्लिखितमिव । (१४) उभयत्रापि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org