________________
९।१३]
न प्रत्यक्षमेव असाधारणविषयम् [यथार्थविभ्रमैकान्तो न सिध्येद् विभ्रमात्स्वयम् ।
तथार्थाप्रतिबन्धत्वात् सर्वमुक्तं मृषेत्यपि ॥१३॥ बहिरर्थप्रतिक्षेपे सर्वज्ञानानां विभ्रमैकान्तः । विभ्रमैकान्तात् यथा विभ्रमोन सिध्यति तथैव साकल्येन शब्दानामर्थानभिधानम् अर्थाप्रतिबन्धात् । सत्यपि बहिरर्थे विकल्पानां विभ्रमैकान्ते तद्विभ्रमैकान्तासिद्धेः निर्विकल्पस्य[अनिर्णयात्मकत्वात् ]तद्विवक्षाविषयैकान्ते ५ कुतः सत्यमिथ्याव्यवस्था यतो जयपराजयव्यवस्था कल्प्यते ?] ____ अयमभिप्रायः-यदि अर्थाप्रतिबन्धान्निविषया एव शब्दाः तन्निविषयताप्रतिपादनाय न शब्दप्रयोगः श्रेयानिति । तथाहि-यथा येन प्रकारेण अर्थविभ्रमैकान्तः 'स्तम्भादिज्ञानमशेषं भ्रान्तम्' इत्येकान्तः। यदि वा, अर्थे विभ्रमैकान्तो विकल्पानामभिप्रेतो न सिध्येत्। कुतः ? इत्याह-विभ्रमात् । नहि विभ्रमाद् विभ्रमसिद्धिः । अथ सिचत् (अथ असिधत् ) १० स्वयं बौद्धस्य तथा तेन प्रकारेण सर्व निरवशेषमुक्तं वचनम्, 'उच्यते स्म उक्तम्' इति व्युत्पत्तः, मृषा मिथ्या इत्यपि सिध्येत् । कुतः ? इह (इत्यत्राह-)अर्थाप्रतिबन्धत्वादिति। अत्रोऽर्थ (अत्र अर्थः ) सर्वशब्दमिथ्यात्वं पराभ्युपगतं गृह्यते तत्राऽप्रतिबन्धत्वात् तन्मिथ्यात्वप्रतिपादकं शब्दानां तथा च सर्वे मृषा शब्दाः' इत्यपि न भाषणीयम् तदर्थानभिधानात्। तथापि भाषणे असाधनाङ्गवचनं वक्तुः निग्रहस्थानम् ।
स्यान्मतम्-व्यवहारी न मन्यते सर्वशब्दमृषात्वम् ,[४८४क] अतः तैमिरिकवदपरतैमिरिकेण स मिथ्याशब्देन प्रतिबोध्यत इति ; तदसारम् ; यतः 'घटमानय' इत्यादौ भवतु काचिद् गतिः · वस्तु वाचामगोचर (रम्') इत्यभिधाने तु साकल्येन यद्यसौ तथा प्रतिपद्यते, न तत्त्वं प्रतिपादितः स्यात् । नहि शब्दात् सर्वशब्दमिथ्यात्वं प्रतिपद्यमानः तत्प्रतिपद्यते, न तत्त्वं प्रतिपादितः यात् । नहि शब्दात् सर्वशब्दमिथ्यात्वं प्रतिपद्यमानः तत्प्रतिपद्यते नाम विरोधात् । २० तथाहि-यदि ततः तत्प्रतिपद्यते ; न सर्वशब्दमृषात्वम् । [न]प्रतिपद्यते चेत् ; न ; ततः तत्प्रतिपत्तुमर्हति । नहि शब्दस्य अन्यस्य वा मृषात्वं जानन्नेव कश्चित् तदस्त (ततः त) दवैति । यतोऽवैति तत्तस्य तन्नावैति इति चेत् ; कुत एतत् ? ततस्तत्परिज्ञानात् ; पटादिशब्दात् पटादिकमवैतीति तस्यापि तन्न प्रत्येतीति समाना (नम्) । नहि व्यवहारी सर्वप्रत्ययानां मिथ्यकान्तं (कान्तत्व) मिथ्याप्रत्ययात् तथाऽवगतादवगच्छति । एवमर्थं च 'अर्थविभ्रमैकान्तो न सिध्येत् २५ विभ्रमात' इत्युच्यते, अगत्या तत एतत्प्रतीयताम् । प्रत्यक्षादिति चेत् ; आस्तां तावदेतत् । अथ अर्थविषया न शब्दाः तत्राऽप्रतिबन्धात् हेत्वाभासवत (त् ; कुत) इदमवगम्यते ? तदप्रतिबन्धोऽपि कुतः ? प्रत्यक्षादिति चेत् ; न न्न क्त (त् ; तन्नोक्त)म् , आस्तां तावदेतदिति । तँदभावेऽपि प्रवृत्तेरिति चेत् ; उक्तमत्रोत्तरं पूर्वम्-अक्षज्ञानस्यापि तदभावे प्रवृत्तेः । अन्यत्वम् ; उभयत्रापि । मिथ्याविकल्पयोनित्वाच्चे[त् ]; तदुक्तम्
(१) शब्दमिथ्यात्व । (२) 'वाचामगोचरम्' इति सर्वशब्दमृषात्वं वा । (३) इति चेत् । (४) अर्थाभावेऽपि । (५) अर्थाभावे प्रवृत्तिमज्ज्ञानमन्यत्, अन्यच्च तत्सद्भावे प्रवृत्तिकारि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org