________________
६१८ सिद्धिविनिश्चयटीकायाम्
[९ शब्दसिद्धिः तदेतचित्तमन्यथा (मन्यद्वा अ)चेतनं कर्म वस्तु परस्परमन्योऽन्यं बन्धं संयोगविशेष प्रति एकत्वेऽपि लक्षणतो लक्षणेन नात्व(नानात्वम् ) हेमादिश्यामिकादिवत् अजह[द]परित्यजत् तथा तेन दृश्यादृश्यात्मैकरूपपरेण परिणामलक्षणामेव नान्यथा जातिम् आत्मलाभम् अनुरुणद्धि स्वीकरोति । कुतः ? इत्याह-वर्ण इत्यादि । तद्बुद्धौ ५ चित्तेतरग्राहिकायां बुद्धौ अप्रतिभासनात चित्तेतरवस्तु[नः] किं स तस्य (किम्भूतस्य ?) इत्याह-वर्णः नीलादिः आकृतिः वर्तुलत्वादिः परिमाणम् इयत् तोन्या(इयत्ता तानि
आ)दिभूतानि [४८३क] येषां अनुगतेचेत (गतचेतनाचेतन)धर्माणां ते तथोक्ताः तैः विकलात्मनः।
___ ननु नार्थः शब्दगोचरः अपि त व्यापोहत्वा(तु व्यपोहगोचरत्वाच्छ)ब्दविज्ञानस्य असदे१० कान्तविषयत्वमिति चेत् ; अत्राह-व्यपोहस्य इत्यादि । व्यपोहनं व्यपोहः अनभिमतव्यावृत्तिः
तस्या तदा (तस्य भेदा)त्मकत्वे स्वलक्षणात्मकत्वे अङ्गीक्रियमाणे 'किं केन प्रमीयेत' इति सम्बन्धः ।
___ ननु शब्देन लिङ्गेन वा समारोपे व्यवच्छिन्ने तेन स्वलक्षणं प्रमीयत इति चेत् ; अत्राहसमारोप इत्यादि । तदपि कुतः ? इत्याह-निर्विकल्प इत्यादि । कुतः ? इत्याह- विकल्पोत्पा१५ दादिति । तन्न इत्याधुपसंहरन्नाह-अक्षविज्ञानस्य सदेकान्तविषयत्वं न । कुतः ? इत्याह
प्रत्यक्षस्य इत्यादि । प्रत्यक्षस्य अक्षविज्ञानस्य अतीतविषयत्वाभ्युपगमात् , उपलक्षणमेतत् तेनाअगत (तेन अनागत) विषयत्वाभ्युपगमादिति च गृह्यते, ततो व्यवहारे शब्दविज्ञानस्यापि असदेकान्तविषयत्वमिति भावः । शब्दोत्थापितविकल्पस्यापि न केवलम् अध्यक्षस्य स्वसंवेद
नप्रत्यक्षत्वात् । अतिप्रायो (अयमभिप्रायो) यथा अर्थव्यापारः तथा आत्मव्यापारोऽपि, तद्विक२० कल्पस्य शब्देनान्यथा तदतजन्यरूपतया स एको भवेत् । अथ स्वसंवेदनरूपता पूर्वज्ञानात् ; कुत एतत् ? यस्मिन् सति भावाच्चेत् ; शब्देऽपि सति समानम् । तेंदभावेऽभावादिति चेत् ; इदमपि समानम् । नहि शब्दविकल्पाः तेंदभावे स्वरूपं लभन्ते,[अंतत्कार्यताप्रसङ्गात् *"विकल्पाः शब्दयोनयः" इति प्लवते । अथ स्वसंवेदनरूपता [४८३ख] शब्दाभावेऽपि प्रत्यक्षेडस्तीति न तज्जन्या ; तर्हि विकल्परूपतापि सङ्केतभाविनि शब्दे तदभाव इति (वेऽस्तीति) सापि २५ तजन्या न भवेत् । अन्या सा इति चेत् ; अन्यत्रापि समः समाधिः । उभयं तत इति चेत् ; उभयमसत्यं न वा किञ्चित् । न चैवमिति मन्यते ।
स्यान्मतम्-अध्यक्षस्य अतीतात् भाविनो वा उत्पत्तेः स्वरूपेण तादात्म्यात् तद्विषयता, न शब्दस्य अर्थविषयता विपर्ययादिति चेत् ; एतदेवाह-कथमित्यादि ।
परिहारमाह-यथार्थेत्यादि ।
(१) पुद्गलात्मकं ज्ञानावरणादि कर्म । (२) चेतनत्वाऽचेतनत्वरूपेण । (३) पूर्वज्ञानाभावे । (४) शब्दे समानम् । (५) शब्दाभावे । (६) शब्दाकार्यत्वप्रसङ्गात् । (७) द्रष्टव्यम्-पृ० ३१९ टि० ८ । (८) शब्दजन्या।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org