________________
९।१२-१३ ]
न प्रत्यक्षमेव असाधारणविषयम् तद्वक्तव्यम् , तस्याप्यणुरूपत्वे अन्यद्वाच्यमित्यनवस्था । नीलतामात्रेण स्वाकारज्ञानहेतव इत्यदोष[श्चेत् ; कथञ्चित् प्रत्यक्षतेति आत्मनोऽपि स्वापेऽप्रत्यक्षस्यापि प्रबोधे प्रत्यक्षतेति सर्व सुस्थम् ।
__ अपरः प्राह-स्वापेऽपि प्रत्यक्षं चित्तमिति चेत् ; सोऽप्यनेन निरस्तः ; तत्परिमण्डलप्रत्यक्षत्वप्रसङ्गात् । विज्ञानवादिनो न यं(नाय) दोष इति चेत् ; न ; तस्यापि स्थिरैकात्मस्थूल- ५ ज्ञानसम्भवे यथाप्रतिभासं तत्त्वसिद्धिः । किंनु (किं च,) दृश्येतरता एकस्याविरोधिनीति प्रतिपादितम् । तदसंभवो (वे) सौत्रान्तिका[द] विशेषः ।।
कारिकायाः विवरणमाह-नहि इत्यादिना । [कथं] तर्हि तत्र प्रतिभासते ? इत्याहपरिस्फुटमित्यादि । क्रियाविशेषणमेतत् , प्रतिभासत इति वचनपरिणामेन सम्बन्धः । (?) तदतिक्रम इत्यादि । तस्य यथोक्ताकारप्रतिभासस्य अतिक्रमे दृश्ये(श्यो) घटादिः, अदृश्य ईश्वरादिः १० तयोः व्यवस्थायाः अनुपपत्तेः।
ननु दृश्यव्यवस्थानुपपत्तिरिति वक्तव्यम् ततोऽन्यस्य अदृश्यस्याऽभावात् , न पुनः अदृश्यव्यवस्थानुपपत्तिः इति ततोऽन्यस्य सर्वस्या[स्य] दृश्यव्यवस्थानुपपत्तिः अन्यस्य तत्परिमण्डलस्य प्रतिभासोपगमे [४८२ख] तद्वदाकाशकुशेशयादेरपि तदुपगमापत्तेः अदृश्यव्यवस्थानुपपत्तिरिति । माभू तु दृश्याऽ] दृश्यव्यवस्था, सकलशून्यतोपगमादिति चेत् ; अत्राह-सुदूर- १५ मपि इत्यादि । सुदूरं सकलशून्यत्वम् अशेषसौगतमतान्ते व्यवस्थानात् , तदपि गंधाम (गत्वा न) केवलमदूरं सौत्रान्तिकादिमति (मतं) किम शून्यतादिकं केन प्रत्यक्षादिना प्रमीयेत ? न केनचित् । कुतः ? इत्याह-अभाव इत्यादि । कस्मिन् सति ? इत्याह-प्रतिक्षेपे । कस्य ? चित्ते (त्तस्ये)तरस्य वा वचनस्य । यदि वा, इतरस्य वा बाह्यस्य च । किंभूतस्य ? दृश्यादृश्यात्मकरूपस्य ।
ननु चित्तस्य यथास्थिताशेषार्थग्रहणस्वभावत्वात् कथमदृश्यात्मना अन्यसम्बन्ध (न्धः ?) तदेकत्वे अन्यतरदेव । तथापि स्वरूपनानात्वे अन्यत्य (अन्यत्वम् अन्य)त्राऽकिश्चित्करमिति तदवस्थ(स्थं)चित्तस्य स्वपरयोः सर्वात्मना ग्रहणमिति चेत् ; अत्राह
[तदेतचित्तमन्यद्वा बन्धं प्रति परस्परम् । एकत्वेऽपि लक्षणतो हेमादिश्यामिकादिवत् ॥१२॥
२५ नानात्वमजहन्जाति तथापरिणामलक्षणाम् । अनुरुणद्ध्येव तद्बुद्धौ वस्तुनोऽप्रतिभासनात् ॥१३॥
वर्णाकृतिपरिमाणादिधमैं विकलात्मनः ॥३॥ व्यपोहस्य भेदात्मकत्वे 'समारोप निर्विकल्प "विकल्पोत्पादात् । तन्नाक्षविज्ञानस्य सदेकान्तविषयत्वम् , प्रत्यक्षस्य अतीतविषयखाभ्युपगमात् । शब्दोत्थापित- ३० विकल्पस्यापि स्वसंवेदनप्रत्यक्षत्वात् । कथम् "]
(१) स्थिरैकात्मस्थूलज्ञानासंभवे । (२) अन्न किञ्चित् त्रुटितमिति भाति ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org