________________
६१६
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
स्यार्थस्य विशददर्शने प्रतिभासनात् नाविशदकल्प इत्यर्थः । ततो यद्यदर्शनात् स्वापचैतन्याभावः; तत एव अर्थस्य क्षणिकानन्ताणुवर्ण परिमण्डलाभाव इति सौत्रान्तिकः, सर्वदा स्वापाक्रान्तः अन्यथा हेतोरनेक (नेन ) व्यभिचार इति भावः । अथ तत्परिमण्डलस्यैव प्रत्यक्षता; स्वापचैतन्यस्यस्वास्तु (स्याप्यस्तु) '। स्वापाभावः स्यादिति चेत्; कोऽयं स्वापो नाम ? चैतन्यरहिता मिद्धदशा इति चेत्; ५ कथमदृश्यस्य चैतन्यस्य तदा [S]भावः ? अदृश्यानुपलब्धेर्गमकत्वापपत्तेः । व्यवहार (रि)जनात् ; स हि स्वप्रदर्शन विरहिणीं तां दशां मन्यते इति चेत्; स एत (एव) तर्हि तत्परिमण्डलदर्शनविकलां सकलां सकलकालकलापकलितां तां मन्यते इति समानम् । कथमन्यथा विवादः यतः तदर्थं शास्त्रप्रणयनम् ?
1
स्यान्मतम्-न व्यवहारिणोऽनभ्युपगमात् परमाणुदर्शनाभाव इति स्वापे चैतन्याभावोऽपि १० मा भूत् *लक्षणयुक्त बाधासंभवे तल्लक्षणमेव दूषितं स्यात् " [प्र० वार्तिकाल० पृ०२२६] इति । व्यवहारी (रो) मया दूषितः स्यादिति चेत्; क्रियापीति समः समाधिः । यथा च तव तद्रूप - ने (तदूषणे ) पि न दोषः परमाणुसिद्धि (द्धे) रनिवारणात् तथा ममाप्यात्मसिद्धिः अबाधनात् । अथ तदूषणे ममापि तंत्, अहमपि यतो व्यवहारी ; तवापि [४८१ख ] तदिति समानम्, बहिः परमाणुषु त्वमपि व्यवहारी " प्रामाण्यं व्यवहारेण " [प्र०वा० २।५] इति वचनात् । अथ १५ प्रथमं व्यवहारी परमाणून्यस्य (णून पश्यति) दर्शनोत्तरकालभाविन्या त् (तु) विकल्पबुद्ध्या स्थिरैकात्मस्थूलाव्य (लाध्य) वसायों मिथ्या इति चेत्; न ; उक्तमत्र-स्फुटदर्शनादिति ।
;
किं च, स्वापेऽपि स चैतन्यं पश्यति स्ववेदनदर्शनात्, तत्र तन्निश्चयविरहात् पुनः जायमाना मिध्याविकल्पबुद्धिः तदभावं व्यवस्यति । संहृतविकल्पदशायां ज्ञानहेतुत्वात्ते" दृश्याः प्रबोधहेतुत्वात् स्वापचित्तं दृश्यम् । कथमन्यस्य दृश्यत्वमन्यस्य इति चेत् ? परमाणुषु कथम् ? २० तदाकारता च नेष्यते परेणाप्यनेकाकारप्रतिभासोपगमात् । यदि सद्भावेऽपि सर्वत्र नीलज्ञानाभावात् परमाणवोऽनुमीयेते (यन्ते ) ; मृतशरीरे अन्त्यचित्तसद्भावेऽपि प्रबोधादर्शनात् सुप्तस्य 'प्रबोधाऽदर्शनात् ' स्वापे चैतन्यमनुमीयताम् । जाग्रचित्तात्तत्प्रबोध इति चेत्; स्थूलात्तत्प्रतिभास इति न परमाणुसिद्धिः ।
अथ केशेषु तदाकारहितेष्वपि तत्प्रत्ययदर्शनान्न तत्सिद्धिः ; परमाण्वभावेऽपि कामलिक२५ केशादिप्रत्ययदर्शनात् तदवस्थो दोषः । ज्ञानवदर्थेऽपि स्थूलाकाराऽविरोधात् । तथापि परमाणव एव तत्कारणं कल्प (प्य) न्ते त्वया मया स्वापचित्तप्रबोधकारणं कल्प्यते ।
ननु चित्तं चेत् ; कथमदृश्यम् ? अदृश्यं चेत्; कथं चित्तमिति चेत् ? उच्यते - [ ४८२क] परमाणवश्चेदालम्बनकार्यं ( कारणम्) कथम् अतदाकारज्ञानहेतवः ? तथा चेत्; कथमालम्ब[न]कारणम् ? अन्यथा नीलज्ञानस्य पीतं स्यात् । अथ न तेन (ते) " तदालम्बनकारणम् ; अन्यदेव
(१) तथा सति । (२) दूषणम् । (३) इति चेत् । (४) बौद्धः । (५) परमाणवः । ( ६ ) इति चेत् | (७) अस्तु । (८) 'प्रबोधादर्शनात्' इति व्यर्थमत्र पुनर्लिखितम् । (९) 'आलम्बनं स्यात्' इति योजनीयम् । (१०) परमाणवः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org