________________
६१५
९।११]
न प्रत्यक्षमेव असाधारणविषयम् कान्तः तस्य अनुपलब्धिः (ब्धेः) सुविवेचितमेतदसकृत् । नहि इत्यादिना एतदेव दर्शयति । हि यस्मात् दृश्यात्मकमेव एकं स्तम्भाद्यवयविरूपं व्यवस्थितमुत्प्रेक्षामहे युगपत् क्रमेण च कथञ्चिददृश्यताविरोधात् । एतदपि कुतः १ इत्याह-संवित्तीत्यादि । संवित्तिरेव तन्मानं तस्यापि न केवलं बहिरर्थस्यैवाभावप्रसङ्गात् । तदपि कुतः ? इत्यत्राह-तदेकान्त इत्यादि । तदेकान्ते संविदोऽन्यस्य वा दृश्यात्मकैकस्वभावैकान्ते अर्थक्रियानुपपत्तिः यतोऽर्थस्य उत्तरकार्यस्य क्रिया ५ तदनुपपत्तिरिति विचारितमेतत् ।।
ननु संवित्तिमात्रदर्शने तदनुपपत्तिरिष्यते । *"अशक्तं सर्वम" [प्र० वा० २।४] इति वचनात् , न च [तं]दनुपपत्तेः संवेदनमात्रस्य प्रतीयमानस्याप्यभाव इति चेत् ; अत्राह[४८०ख] विरुद्ध इत्यादि । तदेकान्तविरुद्धोऽनेकान्तः तस्य काय पूर्वस्य उत्तरपरिणामलक्षणं तस्य उपलब्धिरेव नानुपलब्धिः । संवित्तिमात्रमभ्युपगच्छतापि चित्रमेकमभ्युपगन्तव्यम् , तच्च १० तदविरुद्धमिति मन्यते ।
__ निगमनमाह-तदित्यादि । यत एवं तत्तस्मादेतत् प्रतीयमानं जीवादि द्रव्यं लक्षयेत् चिह्नयेत् । कया ? इत्याह-स्वव्यापकतया स्वेन रूपेण न समवायेन या व्यापकता तया इति । कान् ? इत्याह-स्वान् स्वभावान् स्वयं नेश्वरेण । किभूतान् ? इत्याह-सह इत्यादि । पुनरपि किंभूतान् ? इत्याह-दृश्येत्यादि । केन ? इत्याह-असङ्कर इत्यादि। कुतः ? इत्याह-स्वलक्षणं १५ न द्रव्यमाश्रित्य मिथ्यासन्तानव्यवस्थापनात् सौगतेनेति । तदनभ्युपगमे दोषमाह-कुत इत्यादि । कुतः कारणात् प्रमाणाद्वा सन्तानकत्वं प्रतिपद्यत(घेत) सौगतः ? न कुतश्चित् । केन ? इत्याह- नदिति (तदति)प्रसङ्गोपालम्भेन-तस्य द्रव्यस्य अतिप्रसङ्गोपालम्भो *"सर्वस्योभयरूपत्वे" इत्यादिकः [प्र०वा० ३।१८१] तेन इति । क ? इत्याह स्वापप्रबोधादिष्विति ।
२० तु (ननु) स्वापे यत एव चैतन्यं नोपलभ्यते तत एव नास्ति, तत्कथं तन्निदर्शनेन एकस्य दृश्येतरतासाधनमिति चेत् ? अत्राह-परोक्ष इत्यादि ।
[परोक्षक्षणिकानन्ताणुवर्णपरिमण्डलः।
स्यात्प्रत्यक्षस्थिरैकात्मस्थूलोऽर्थः स्फुटदर्शनात् ॥११॥ न हि...परिस्फुटम् , तदतिक्रमे दृश्यादृश्यव्यवस्थानुपपत्तेः । सुदूरमपि गला २५ दृश्यादृश्यात्मैकरूपस्य चित्तस्य इतरस्य वा प्रतिक्षेपे अभावात् किं केन प्रमीयेत ।]
अर्थः स्यात् भवेत् । किंभूतः स्यात् ? इत्याह-परोक्षम् इन्द्रिय (याs) ग्राह्यं क्षणिकानाम् अनन्तानामणूनां वर्णपरिमण्डलं यस्य स तथोक्तः । पुनरपि किंभूतः ? इत्याह[४८१क] प्रत्यक्षात्थ - प्रत्यक्षश्चासौं] स्थिरः कालान्तरस्थायी एकः साधारण आत्मा स्वभावो यस्य स चासौ स्थूलश्च । कुतः ? इत्याह-स्फुटदर्शनात् । स्थिरैकात्मनः स्थूल-३०
(१) अर्थक्रियानुपपत्तः । (२) 'तद्विशेषानिराकृतेः । चोदितो दघि खादेति किमुष्ट्रं नाभिधावति ॥' इति शेषः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org