________________
सिद्धिविनिश्चयटीकायाम्
[९ शब्दसिद्धिः तच्छब्देन येभ्यो व्यावृत्तः ते गृह्यन्ते, तेषामेकत्वं समानरूपता तस्य प्रसङ्गात् । तथाहि-यथा ज्ञानाजडतामादाय व्यावृत्त इति [४७९खम(न)ज्ञाने जडता तथा अन्यतोऽपि इति, ततः तस्यापि जडता न स्यात् , एकत्रैव सा भवेत् । अथ जडता यथा एकत्र[त]था अन्यत्रापि इति मतिः ; हनर्हि (न तर्हि) यथैकस्मात् व्यावृत्तः तथाऽन्यस्मादपि ।] ५ किंच, नीलज्ञानार्थयोः यैवाऽतन्नीलात् स्वभावभूता व्यावृत्तिः सैव चेत् परस्परम् ; तदा [अ]नीलाद् व्यावर्त्तमानस्य ज्ञानस्य ततो यथा नीलव्यपदेशः तथा बहिरादपि व्यावर्त्तमानस्य स एव स्यात् ] न व्यपदेशान्तरं तन्निमित्ताभावात् । अथ तयोरनीलान्नीलतया व्यावृत्तिः न तया ज्ञानस्य नीलार्थात् ; कुत (कुतः अ) विकल्पप्रत्यक्षस्य अन्यस्य च अनुमानादेः प्रवृत्ती
सत्याम् एकदा पुनः पश्चात् प्रवृत्तेः(त्तिः)तत्रैव 'व्यवसायात्मकस्य' इति घटनात् । कुतः ? १० इत्याह-तस्य इत्यादि । तस्य प्रत्यक्षस्य अन्यस्य वा तद्ग्राह्यस्य चार्थस्य व्यवसायोपपत्तेः।
पुनरित्येतदत्रापि द्रष्टव्यम् । 'उपपत्तेः' इत्यनेन एतदर्शयति-यथैकचित्रज्ञानं स्वनिर्भासेषु युगपदावर्त्तते तथा क्रमेणापीति, [अत एव अनन्तरन्यायाद् अक्षशब्दज्ञानानां कथंचित् परमार्थंकविषयत्वं 'सिद्धम्' इत्याध्याहारः । कुतः ? इत्याह-प्रत्यक्ष इत्यादि । तदेव दर्शयन्नाह-प्रत्यक्षस्येत्यिादि।
[प्रत्यक्षस्य पूर्वापरकोट्योःशब्दादेस्तथा।
स्वहेतुफलसन्तानो यथा स्वापप्रबोधयोः॥१०॥ मध्यरूपं पूर्वापरकाव्योरपि कथञ्चित् उपलभ्यं स्वभावविरुद्धानुपलब्धेः । न हि दृश्यात्मकमेव एकं स्तम्भाद्यवयवरूपमुत्प्रेक्षामहे, संवित्तिमात्रस्याप्यभावप्रसङ्गात् । तदे
कान्ते यतोऽर्थक्रियानुपपत्तिः विरुद्ध कार्योपलब्धिरेव । तदेतत् द्रव्य दृश्यादृश्यान् सह२० भूतान् स्वान् स्वभावानसरेण स्वयं स्वव्यापकतया लक्षयेत् स्वलक्षणमाश्रित्य मिथ्या
सन्तानव्यवस्थापनात् । स्वापप्रबोधादिषु तदतिप्रसङ्गोपालम्भेन कुतः सन्तानैकत्वं प्रतिपद्येत ?]
[प्रत्यक्षस्य मध्यावस्थायाम् अक्षज्ञानस्य वैशद्यस्य (i) शब्दादेः तथा परोक्षता । क्षेत्याह (क ? इत्याह)-पूर्वापरकोट्योरिति । दृष्टान्तमाह-स्वहेतुफलसन्तानो यथा २५ स्वहेतुफले उपादानोपादेयक्षणे, तयोः[४८०क] सन्तानो येन यथा प्रतीत्यादिप्रकारेण प्रत्यक्षः
सन् परोक्षः तथा प्रकृतमपि । क स तथाभूतः ? इत्याह-स्वापप्रबोधयोरिति । स्वापेऽयं हि परोक्षः प्रबोधे प्रत्यक्षो भवति, पुनः तंत्र प्रत्यक्षः स्वापे परोक्ष इति ।
कारिकां व्याख्यातुमाह-उपलभ्य[म्] इत्यादि । उपलभ्य मध्यरूपं पूर्वापरकोट्योरपि न केवलं मध्य एवाऽस्तु । तर्हि पूर्वमेव परमेव वा स्यादिति चेत् ; अत्राह-कथञ्चिदिति । कुतः ? ३० इत्याह-स्वभाव इत्यादि । 'स्वभाव' इत्यनेन एकान्तस्वरूपं परामृश्यते तस्य विरुद्धो नित्याये
(१) नीलज्ञानस्य । (२) अनीलव्यावृत्तेः । (३) नीलज्ञानव्यपदेश एव स्यात् । (४) तदा । (५) प्रबोधे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org