________________
१०
९।९]
न प्रत्यक्षमेव असाधारणविषयम् विषयसांशत्वम्' इदं निराकुर्यात् ॐशब्दादर्थप्रतीतौ अक्षसंहतेवैफल्यम्" इति । ननु पित्रोराकारमनुकुर्वदपि अपत्यं न सर्वथा यथानुकरोति तथा इदमर्थस्य इति चेत् ; अत्राहतदे(तदने)कान्त इत्यादि । तस्य अर्थस्य अनेकान्ते अङ्गीक्रियमाणे। किम् ? इत्याह-सविकल्प इत्यादि । [अयम् ]अभिप्रायः-अनेकान्तेऽपि तत उत्पत्तेः तदाकारानुकरणेऽयं दोषो नान्यथा इति, .. सविकल्पे त्याद्यनेन व्याख्यातम् ।।
___ स्यान्मतम्-यथा[तत् ]अर्थस्य नीलत्वमनुकरोति न जडत्वं तथा तन्मनस्कारात् चिद्र पतामात्र नाभिलाप्यमाकारम् ; इत्यत्राह-सामग्रीभेदात इत्यादि । तात्पर्यमिदमत्र-यथा कुतश्चित् प्रत्त्यासत्तेः प्रत्यक्षम् अर्थस्य नीलतामात्रमनुकरोति नाचेतनां तथा शाब्दं ज्ञानं तन्मात्रं तस्य गृह्णाति न वैशद्यमिति । ततो यदुक्तम्-* "यदि विशदोऽन्यथा वाऽर्थः तथैव उभयत्रापि प्रतिभासेत"; [४७९क] तन्निरस्तम् ; अन्यत्र दोषात् ।
यथा अर्थस्य चेतनाद् व्यावृत्तिरन्या अन्या वा (चाs) नीलव्यावृत्तिः नीलस्य, अन्यथा नीलानुकरणे जडतानुकरणमवश्यंभावि, तथा एकस्य यतो व्यावृत्तिः तद्र पापेक्षया परमार्थभूतास्तावत्यो वावृन्तयः (व्यावृत्तयः) प्राप्नुवन्तीति दर्शयन्नाह-एकस्य इत्यादि ।
[एकस्य सर्वतोऽन्यस्मात् व्यावृत्त्याऽनन्तरूपता।
तन्न दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ॥९॥ कस्यचित् 'नहि कश्चिदेकस्माद् व्यावृत्तः तदेकत्वप्रसङ्गात् । अविकल्पप्रत्यक्षस्य अन्यस्य च एकदा प्रवृत्तौ कुतः पुनः प्रवृत्तिः, तस्य तद्ग्राह्यस्य चार्थस्य व्यवसायोपपत्तेः । अत एव अक्षशब्दज्ञानानां कथञ्चित् परमार्थं कविषयत्वम् प्रत्यक्ष.]
एकस्य भावस्य अनन्तररूप(नन्तरूप)ता। कया ? इत्याह-व्यावृत्या, जात्यपेक्षया एकवचनम् व्यावृत्तिभिः इत्यर्थः । कुतस्तया ? इत्याह-सर्वतः साजा[तीयाद् विजा- २० तीया]च्च अन्यस्मात् परस्मात् । ततः किं जातम् ? इत्याह-तन्न इत्यादि । यत एव तत् तस्मात् दृष्टस्य [भावस्य] उपलक्षणमेतत् अनुमितस्य शब्दप्रतिपादितस्य च न दृष्ट एव इदमप्युपलक्षणम् अनुमित एव अखिलो गुणः जडतावद् अन्यस्यापि अदृष्टस्य विरोधात् ।
कारिकां व्याख्यातुमाह-कस्यचित इत्यादि । तदनभ्युपगमे दूषणमाह-नहि एकस्मात इत्यादि । येन स्वभावेन कश्चिद् एकस्माद् व्यावर्त्तते तेन परस्मादपि इति सौत्रान्तिकस्य । १६ योगाचारस्य दर्शनम् अन्यस्यात्रातविकारात् (अन्यस्मात् )। तत्र प्रथमपक्षे हिर्यस्मात् न कश्चिद् भाव एकस्मात् चेतनाभिमतात् व्यावृत्तः । कुतः ? इत्याह-तदेकत्वप्रसङ्गात् ।
(१) आपाद्यमानं कर्तृ । (२) उच्यमानम् । (३) तुलना-"न तद् वस्तु अभिधेयत्वात् साफल्यादक्षसंहतेः।"-प्र० घा० २।११। “यदि समस्ताः सामान्यज्ञानेन प्रतीयन्ते तदा शब्दादुत्पद्यते यत्सामान्यज्ञानं तेन सकलव्यक्तिस्वरूपप्रतिपत्तेरक्षसंहतेवैफल्यप्रसङ्गः।"-प्र. वार्तिकाल० ५० १९२। (४) सविकल्पचित्तात् । (५) अनुकुर्यात् प्रत्यक्षम् । (६) अनार्य पूर्वपक्ष:-"तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः।"-प्र. वा. ३/४४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org