________________
६१२ सिद्धिविनिश्चयटीकायाम्
[९शब्दसिद्धिः निनां तदेवं । एतेन मानसमपि चिन्तितम् । तदपि स[वि]कल्पाध्यक्षात् ' तादृशमेव । यदि पुनः तन्मनस्काराच्चिद्र पानुकरणमेव नाभिलापसंसर्गयोग्यानुकरणं तथा दृष्टः, भावशक्तरचिन्त्यत्वात् ; तत एव तर्हि परमाणुभ्यो नीलाद्याकारानुकारितैव न परस्परविवेकानुकारितैति (रि
तेति) प्राप्तम् , तथा च परमाणूनां सावयवत्वम् , प्रत्यक्षं च सामान्यगोचरम् अनेकसाधारणा५ कारानुकरणात् । अथ तत्रासौ आकारो नास्ति, कथमभा(कथमवभा)ति ? असन्नेवेति चेत् ;
भ्रान्तमध्यक्षम् । तथेति चेत् ; [४७८क] लक्षणे अभ्रान्तग्रहणमनर्थकं विषयाभावात् । व्यवहारार्थं तदिति चेत् ; न ; अनुम (मान) शब्दज्ञानगोचरस्यापि स्वलक्षणत्वमिति *"प्रमेयद्वैविध्यात प्रमाणं द्विविधम्" इत्यसारम् , विचार्यमाणस्याऽयोगात् । नेति चेत् ; अत एव
चक्षुरादिगोचरस्यापि न स्यात् । व्यवहारादिति चेत् ; प्रकृतं न परिहृतम् । अथ अनुमानादि१. विषयो न स्वलक्षणम् , तस्य इन्द्रिये अन्यथा प्रतिभासनात् ; स्थूलाकारोऽपि न स्वलक्षणं
योगिज्ञाने अन्यथा प्रतिभासनात् । अन्यथा कुतः परमाणुसिद्धिः येनोच्यते-*"दूरविरलकेशवत् परमाणवः स्थूलप्रतिभासहेतवः” इति ? अनुमानात्तत्सिद्धिरिति चेत् ; असेः कोशस्य तीक्ष्णता-यद् योगिनाऽप्रतिपन्नम् अनुमानं प्रत्येति ।
किंच, इतरवद् योगिनो भ्रान्तत्वं सविकल्पकत्वं च, तदाकारो योगिन[:]स्वलक्षणं मा भूत् १५ अन्यस्य भविष्यतीति चेत् ; अभिलापसंसर्गयोग्याकारोऽपि व्याख्यातृणां मा भूत व्यवहारिणां
भविष्यति । अनर्थक्रियाकारित्वान्नेति चेत् ; तदाकारः किमर्थ[क्रिया कारी ? तथा चेत् ; परमाणुकल्पनाम (नम) नर्थकम् । व्यवहारिणां स तत्कारीति चेत् ; अभिलाप्याकारोऽपि । नहि ते शब्दाऽक्षज्ञानगोचरयोः भेदं मन्यन्ते । व्याख्यातारो मन्यन्ते इति चेत् ; तदनुसरणे शून्यतैव
शरणम् । तत्र२०
न विकल्पो नाम्य (नाप्य)विकल्प इति प्रवदन्ति] कोविदः । कोविदो अ(दोऽ)धीता येनाऽद्वैतादि[विकल्पना ॥
कोविदः स्यात् निषेधात्तन्निराशको विदोऽत्यये । ततः सिद्धं व्यवहारतः[४७८ख]शब्दाक्षज्ञानयोः सामान्यविषयत्वम् ।
विर्विकल्पकसिद्धौ परकीयां युक्तिं दर्शयन्नाह-यदर्थ इत्यादि । प्रत्यक्षं यस्यार्थस्य २५ सामर्थ्येन उत्पन्नं तस्याकारमेव न जात्यादेरनुकरोति । निदर्शनमत्र, तस्य प्रत्यक्ष
जनकस्य अर्थस्य अनन्तरम् उपादेयोऽर्थस्वलक्षणमिव तद्वदिति । दूषणमत्र-नायमेकान्त इति । कुतः ? इत्याह-चित्स्वभावाभावप्रसङ्गात् प्रत्यक्षस्य । तथाहि-यथा तत्" तथा "तत्तस्य नीलतां तथा जडतामनुकरोति" द्वितीयार्थक्षणवत्" [जडत्वापत्तिः] । अन्यथा
(१) सविकल्पत्वमेव । (२) जायते इति । (३) सविकल्पकमेव । (४) विकल्पात्मकात् । (५) प्रत्यक्षलक्षणे । (६) "मानं द्विविधं मेयद्वैविध्यात्"-प्र. वा० २॥१॥ (७) “यथैव केशा दवीयसि देशेऽसंसक्ता अपि घनसन्निवेशावभासिनः, परमाणवोऽपि तथेति न विरोधः।-प्र. वार्तिकाल पृ० २९६। (८) अर्थक्रियाकारी । (९) व्यवहारिणः । (१०) शून्यतायाम् । (११) 'तत् तथा' इति निरर्थकमत्र । (१२( प्रत्यक्षम् । (१३) स्वलक्षणार्थस्य । (१४) चेत् । (१५) जडमेव स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org