________________
९१८ ]
न प्रत्यक्षमेव असाधारणविषयम्
परेणोक्तम्' उपाधितद्वतोर्भेदैकान्ते अङ्गीक्रियमाणे सम्बन्धो न सिध्येत् । समवायादेरन्यस्य सम्बन्धस्य निषेधात् ।
६११
नन्वेवम् अग्निधूमयोरपि स न सिध्येत्; इत्यत्राह - यद्यनुपकारः इति । तयोर्यद्युपकाराभावः तदा न सिध्येत्, उपकारे तु सिध्येदेव । उपकारोऽस्ति चेत्; अत्राह - तदुपकारेऽपि इत्यादि । तयोः परस्परम् एकस्मादेकस्य [ ४७६ क ] चोपकारेऽपि प्रमाणान्तरावृत्तिः । ५ कस्मिन् सति ? आह-धर्मिणो ग्रहणे सति । केन ? इत्याह - तदेकोपाधिद्वारेण, तस्य धर्मिणो य एक उपाधिः विशेषणं तद्द्वारेण । किंभूतस्य तस्य ? इत्याह- सर्वोपाध्युपकाराङ्गैकात्मनः । सर्वस्य उपाधेः य उपकारः तस्य अङ्गं निमित्तम् एकोऽभिन्नः आत्मा स्वभावो यस्य तस्य इति । एवं मन्यते परः - एकोपाधिद्वारेण सकलोपाध्युपकारशक्त्यात्मा तद्वान् प्रतीयमानः सकलोपाधी आह (धीग्रह) यति, तदग्रहे तदग्रहात् इति कुतः प्रमाणान्तरवृत्तिरिति । १० अथ तदुपकारशक्तयो भिन्नाः तेनायमदोषः ; तत्राह - तदुपकार इत्यादि । तेषामुपाधीनाम् उपकारिकाः ताश्च ताः शक्तयश्च तासाम् भेदकल्पनायाम् । कुतः ? इत्याहपरस्पर इत्यादि । तथाहि - शक्तिशक्तिमतोर्भेदैकान्ते सम्बन्धो न सिध्येत् यद्यनुपकारः । तदुपकारेऽपि पूर्ववद्वक्तव्यम् । पुनरपि तद्भेदकल्पनायां स एव दोषः इत्यनवस्था स्यात् ।
सांख्यस्य मतमाशङ्कते प॑रो दूषयितुम् मा भूत् इत्यादि । माभूदनवस्था इति हेतोः तयोः १५ उपाधितद्वतोरभेदकल्पनायां सांख्येन क्रियमाणायाम् ? किम् ? इत्याह- कुत इत्यादि । स्वयमेतन्निराकुर्वन्नाह-एतत् परेणोच्यमानं समस्तं निरवशेषम् अनेकान्तसाधनम् । कुतः ? इत्याहउपाधि इत्यादि । ततः किं जातम् ? इत्याह- तदेकोपाधि इत्यादि । तत् तस्मात् तयोः [४७७ख] कथञ्चित्तादात्म्यात् एकोपाधिविशिष्टस्य धर्मिणः प्रतिपत्तावपि प्रमाणान्तरं 'प्रवर्तते' इत्यध्याहारः । कुतः ? इत्याह- तद् इत्यादि । तस्मात् उक्तादुपाधि न्येरोपाविना ( धेर - २० न्येन उपाधिनाऽ) विशिष्टस्य तस्याप्रतिपत्तेरिति ।
स्यान्मतम्–'प्रतिपन्नस्य अप्रतिपन्नं रूपम्' इति कुतोऽवगम्यते ? इत्यत्राह - व्यवसायात्मकस्य इत्यादि । व्यवसायात्मकस्य सामान्यविशेषात्मकवस्तुविषयस्य [ प्रवर्तकत्वात् ] न प्रतिपरमाणुनिष्ठाजं (निष्ठम) भ्रान्तमविकल्पकम् इन्द्रियज्ञानं चाभ्यासे प्रवर्त्तकं केषाचित् ।
एतेन सुखादिसंवेदनं व्याख्यातम् । तदपि अभ्यासजं परस्य । अभ्यासश्च नाऽविकल्प - २५ कस्य ; चक्षुरादिज्ञानं च चिरप्रवृत्ति (त्त ) केवलविकल्पसन्तानान्तरभावि । नहि तस्याविकल्पकारणं पूर्वं सन्निहितमस्ति । 'चिरविनष्टं उपादानं च निरस्तम् । तेषां च सविकल्पकत्वेतत्सन्ता
(१) तुलना - " योऽपि मन्यते उपाधयः परस्परमाश्रयाच्च भिन्ना एव, तन्निबन्धनाः श्रुतयोऽपि तदाधारे तत्रैव वर्तन्ते, तदयमप्रसङ्ग इति; तस्यापि नानोपाधीनामुपकाराङ्गशक्तिभ्योऽभिन्नात्मनः सर्वात्मना ग्रहे कृते उपकार्यस्य को भेदः स्यादनिश्चितः । (स्ववृत्तिः ) तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः । धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि । नोपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥ एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे । दृष्टे यस्मिन्नदृष्टास्ते तद्ग्रहे सकलग्रहः ॥ " - प्रमाणवा० स्ववृ० पृ० १३२-३८ । (२) बौद्धः । (३) प्रज्ञाकरादीनाम् । ( ४ ) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org