________________
६१०
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
इति कुतः चित्रं नाम ? पूर्वमत्र यथासंभवं योज्यम् । विज्ञानपरमाणुसमुच्चयदर्शने अर्थपरमा
णुसमुच्चयवद् वक्तव्यम् ।
ननु यदुक्तम्-*" तत्र दृष्टस्य भावस्य दृष्ट एवाऽखिलो गुणः " [प्र० वा० ३ | ४४ ] इति ; तदसारम् ; दृष्टस्य अदृष्टस्वरूपायोगात् अतिप्रसङ्गात् तस्येति सम्बन्धाभावात् शशवि५ षाणवत् । [४७६ख ] न हि दृष्टस्य घटस्य अदृश्यं शशविषाणमिति भ[व]ति व्यपदेशः । पश्चातत्रैव प्रतीयमाने []ति चेत् ; न ; अत्र प्रमाणाभावात् इति ; अत्राह - दृश्यादृश्यात्मभेदेऽपि इत्यादि ।
१०
१५
[दृश्यादृश्यात्मभेदेऽपि तादात्म्यं रसादिषु । स्वसंविद्ग्राह्यनिर्भासविवेकादिवदञ्जसा ||७||
एकद्रव्यस्वसंवेदनवत् ॥]
उपलभ्यानुपलभ्यस्वभावनानात्वेऽपि तादात्म्यम् एकत्वं स्यात् । क ? इत्याहरसादिषु । निदर्शनमाहात्र – स्वेत्यादि । स्वश्चासौ संविग्राह्यनिर्भासविवेकश्च स आदिर्यस्य चित्रज्ञाननीलाद्याकाराणां ते तथोक्ताः तेष्विव तद्वत् । अञ्जसा परमार्थेन । कारिकार्थमाह - एक द्रव्य इत्यादिना । अत्र निदर्शनम् - स्वसंवेदन इत्यादि ।
लब्धं फलं दर्शयन्नाह - [ तत एव इत्यादि ]
1
यच्चेदम् - उपाधितद्वतोर्भेदेकान्ते सम्बन्धो न सिध्येत् । तदुपकारेऽपि तदेकोपाधिद्वारेण सर्वोपाध्युपकाराङ्गकात्मनो धर्मिणो ग्रहणे प्रमाणान्तरावृत्तिः । तदुपकारि२० कशक्तीनां परस्परतो भेदकल्पनायामनवस्था । माभूदनवस्थेति तदभेदकल्पनायां कुत एतत् समस्तमनेकान्तसाधनम् उपाधि तदेकोपाधिविशिष्टस्य धर्मिणः प्रतिपत्तावपि प्रमाणान्तरम्, तदन्यविशिष्टस्य तस्याप्रतिपत्तेः । व्यवसायात्मकस्य [ प्रवर्तकत्वात् ] । यदर्थसामर्थ्योत्पन्नं तदाकारमेवानुकरोति प्रत्यक्षं तदनन्तरवत् ; नायमेकान्तः चित्स्वभावाभावप्रसङ्गात् । तदनेकान्ते सामग्रीभेदात् सविकल्पादिरूपता ।]
[तत एवोपाधितद्वद् भेदाभेदानुषङ्गिणः । अनवस्थादिदोषाः स्युस्तदनेकान्तहेतवः ||८||
२५
तत एव तेषां तादात्म्यादेव । किम् ? इत्याह- उपाधि इत्यादि । उपाधयः विशेषणानि तद्वन्तो विशेष्याः तेषाम् अन्योऽन्यम् एकान्तेन यौ भेदाभेदौ तदनुषङ्गिणो ये अनवस्थादिदोषाः आदिशब्देन विरोधादिपरिग्रहः स्युः भवेयुः । किंभूताः ? इत्याहतदनेकान्तहेतवः ।
कारिकां विवृण्वन्नाह–यच्चेदम् इत्यादि । पूर्वपक्षसमुच्चये चशब्दः । यत् 'परं
(१) अन्यत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org