________________
९/६ ]
न प्रत्यक्षमेव असाधारणविषयम्
६०९
"
ग्रहणम्, परस्य तत्रैव स्वलक्षणत्वोपगमात् कथञ्चित् प्रतिभासेत न सर्वथा । किं कारणम् ? इत्याह-स्वार्थयोः इत्यादि । किं कुर्वाणम् ? इत्याह- कथञ्चित् [ ४७५ख] सच्चेतनादिप्रकारेण न धर्मान्तरे[ण]प्रतिभासमानम् । एतदपि कुतः ? इत्याह- ग्राह्य इत्यादि । यत इति यत एवं ततो न युक्तम् । किम् ? इत्याह- प्रत्यक्षादि । कुतः ? इत्याह- अनंश इत्यादि । विकल्पकं निर्विषयम् इति । तद्विकल्पकवदन्यस्यापि [ अ ] साधारणगोचरत्वादिति मन्यते । प्रत्यक्षस्य असाधारणविषयत्वसाधिकां परकीयां युक्तिमपनुदन्नाह - प्रत्यक्षम् इत्यादि । [प्रत्यक्षं स्वार्थशक्तेः स्वार्थाकारानुकारि चेत् । सविकल्पमनस्कार शक्तेः स्यात् सविकल्पकम् ||६||
५
ततश्चैकत्वप्रसङ्गात् कस्यचित् केनचित् क्रमाक्रमनैरन्तर्यविप्रकर्षादिव्यवस्थैव न स्यात् । ]
प्रत्यक्षं कल्पनापोढमभ्रान्तं ज्ञानम् । किंभूतं तत् ? इत्याह- स्वार्थी रूपादिपरमाणवः तद ( तदाकारा ) नुकारि चेत् यदि स्यात् । कुतः ? इत्यत्राह - स्वार्थस्य शक्तेः सामर्थ्यात् । अत्र दूषणमाह- सविकल्पमनस्कारशक्तेः सामर्थ्यात् स्यात् सविकल्पकं 'प्रत्यक्षम्' इत्यनुवर्त्तते । तथाहि - सौगतप्रत्यक्षम् अनुमानसविकल्पकमुपादाय उपजायते, तथा कामशोकाद्युपप्लवः, एतदुभयोरपि नाल (तुल्य) त्वात् कुतस्तयोः अन्योऽन्यतो व्यावृत्तिः येन १५ व्यपदेशभेदेः स्यात् । अथ ज्ञानस्य अर्थाज्ञा (अर्थाज्जा) तत्वेन, अर्थस्य ततो जडत्वेन ; कुत एतत् ? एकैकस्वभावस्यान्यासदृशस्यापि अन्यत्राभावादुच्यते ; तयोः सदृशेतरतां (ता) प्रसङ्गः । अपि च, येन स्वभावेन तयोः अकार्यकारणेभ्यो व्यावृत्तिः तेन चेत् परस्परमकारणता [तयोरैक्यम् ] ।
तदेतेन अनुपादानोपादेयव्यावृत्तिरपि [४७६क ] चिन्तिता । येन च स्वभावेन घटव्यपदेशभाजः परमाणवः मेरुपरमाणुभ्यो व्यतिरिच्यन्ते, तेन चेदन्योऽन्यम् ; समूहाभावः । सुगत- २० ज्ञानं स्वोपादानानुमानक्षणात् येन रूपेण व्यावर्त्तते तेन • यदि स्वोपादेयोत्तरक्षणात् ; तस्योपादे - यत्वमेवं न उपादानत्वम् । एतदेव दर्शयन्नाह - ततश्च तस्माच्च एकत्वप्रसङ्गात् कस्यचित् कारणक्षणस्य कार्यक्षणस्य वा केनचित् कार्यक्षणेन [कारणक्षणेन] वा यः क्रमः कस्यचिद् रसादेः केनचिद् रूपादिना यश्च अक्रमः कस्यचिज्जाग्रद्विज्ञानस्य केनचित् पूर्वज्ञानेन नैरन्तर्य (र्यं ) प्रत्यासत्तिः स्वाप - व्यवहितप्रबोधित (प्रबोधेन) विप्रकर्षः, आदिशब्देन जडतेतरत्वादिपरिग्रहः । यदि वा घटे कस्यचित् परमाणोः केनचित् परमाणुना नैरन्तर्यं प्रत्यासत्ति [ : ] द्रव्यान्तरपरमाणुना विप्रकर्षादिः तेषां व्यवस्थैव न स्यात् । एतेन द्वितीयोऽपि पक्षः चिन्तितः । तथाहि - चित्रज्ञानं येन स्वभावेन केवलनीलज्ञानाद् व्यावृत्तं पीतेन तेन चेत् तथा विज्ञानान्तरेभ्यः ; पीतमेव स्यात्
२५
(१) श्रुतमयी चिन्तामयी च भावने अनुमानरूपे, तत्प्रकर्षपरिप्राप्तौ सुगतज्ञानं भवति । (२) सुगतज्ञानं प्रमाणम्, कामाद्युपप्लवः तदाभासमिति । (३) अस्ति प्रतिभासभेदः । ( ४ ) व्यतिरेकस्तर्हि । (५) स्यात् किन्तु ।
७७
Jain Education International
१०
For Personal & Private Use Only
www.jainelibrary.org