________________
६०८
सिद्धिविनिश्चयटीकायाम्
[९ शब्दसिद्धिः यदि वा, तथा 'सर्वं विकल्पज्ञानं मिथ्या' इत्यनेन प्रकारेण अविकल्पसंवित्तेः सकाशात् निर्णयविरोधात । विचारितमेतत् *"अभेदात सशस्मृत्या" [सिद्धिवि० १।६] इत्यादिना।
___ ननु तस्य दर्शने न कश्चिद् विकल्पो नाम, स्वरूपमात्रवेदने तदयोगादिति चेत् ; उक्तमत्रस्थूलैकाकारप्रतिभासादिति । तथाप्यविकल्पकत्वे विकल्पे नामान्तरम्' । अथायमाकारो न ५ ज्ञाने नाप्यर्थे, वनादिवद्विचार्यमाणस्यायोगात् , केवलमविद्याबलादाभातीति ; तत्राह-स्वग्राह्याकारं विकल्प(कारवैकल्य)मित्यादि ।
[स्वग्राह्याकारवैकल्यं संवित् संवृण्वती स्वतः ।
भेदेऽप्यभेदग्रहणात् स्वभावानपि स्वार्थयोः ॥५॥
चित्तस्वलक्षणं कथञ्चित् प्रतिभासनं स्वार्थयोः प्रतिभासेत ग्राह्या[द्याकारत्वात् ] १० यतः, ततो न युक्तम् अनंश[विषय]प्रत्यक्षादि, विकल्पकं निर्विषयम् इति । ]
ग्राह्याकारस्य स्थूलाकारस्य वैकल्यम् अभावः तच्च ज्ञानस्य स्वरूपमेव । स्वं च तद् ग्राह्याकारवैकल्यं च इति तत् । संव(संवि)द बुद्धिः संवृण्वती स्वत आत्मनैव सदपि स्वयं विषयतामनयन्ती, इतरथा न स्थूलाकारावभासः स्यात् । नहि नीलविविक्तयाते
वद्य (क्त पीते वेद्य)माने नीलस्य विभ्रमतोऽपि प्रतिभासः। अथ तदाकाराद्भिन्नमात्मानमसौ वेत्ति १५ *"नीलादिशरीरव्यतिरेकेण संवेदनस्यान्यस्याप्रतिभासनात्" इत्यस्य विरोधात् ।
किंच, अयमाकारः [४७४क] संवेदना[त्] चेद्भिन्नः; कथमाभाति ? स्वतश्चेत् ; संवेदनान्तरम् , तत्र चोक्तो दोषः-विरुद्धधर्माध्यासैकवस्तुसिद्धिरिति, *"मायामरीचिप्रभृतिप्रतिभासवदसत्वेऽप्यदोषः" [प्र० वार्तिकाल ० ३।२११] इत्यस्य विरोधश्च । संवेदनत्वेऽप्यसत्त्वमिति चेत् ;
न ; *"अज्ञातार्थप्रकाशः इति परमार्थलक्षणम्” [प्र. वार्तिकाल० १।५] इत्यस्य विरोधात् । २० विभ्रमाच्चेत् ; न विभ्रमसिद्धिः । पुनरपि संवेदनाद्भेदे अनवस्था । अविद्यावभासे एकस्य विभ्रमेतररूपता । अथ विकल्पेन आरोप्यते स तत्राकारः ; न ; स्पष्टताप्रसङ्गात् ।।
किंच, संवेदनात्तस्य भेदेनावभासे साकारभ्रान्तिर्न स्यात् । नहि नीलाद्भेदेन पीते प्रतिभासमाने तत्र नीलाकारेण साकारत्वभ्रमः कस्यचित् । अथ अभेदाध्यारोपादभेदभ्रमः ; स कुतो
मतः ? उत्तरविकल्पात् ; संहृताशेषविफल्पदशायां न स्यात् , अभ्यासात् प्रवर्त्तमानस्य च । २५ तत एव संवेदनाच्चेत् ; न[नु] च तेन तत्र तव्यापारो (तदध्यारोपो) ऽभेदग्रहणान्नापरः । एव
मिति चेत् ; तर्हि भेदेऽपि अभेदग्रहणात् तत्संवृण्वती इति सूक्तं भवत्वेवन्वेव(भवतु, एव) मिति चेत् ; अत्राह-स्वभाव इत्यादि । स्वभावान् क्षणिकत्वादीनपि संवृणोति । कयोः ? इत्याह-स्वार्थयोः इति ।
कारिकां विवृण्वन्नाह-चित्तस्वलक्षणम् इत्यादि । चेतसो निरंशत्वप्रतिपादनार्थ स्वलक्षण
(१) कृतं स्यात् । (२) "नीलादिसुखादिकमन्तरेणापरस्य ज्ञानाकारस्यानुपलक्षणात् । (पृ० ३४५) सुखादिनीलादिव्यतिरिक्तमपरमिह जगति संवेदनं नास्तीति सुखादिवत् स्वसंवेदनं नीलादिकमपीति युक्त एव निर्णयः।"-प्र. वार्तिकाल. पृ० ४५४। (३) निर्विकल्पावस्थायाम् । (४) 'न स्यात्' इति सम्बन्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org