________________
न शब्दज्ञानं सामान्यमात्रविषयकम्
६०७
तत्रानुमानोत्थापनमयुक्तमिति चेत्; उच्यते - व्याख्यातारः खल्वेवं विवेचयन्ति " [प्र०वा० स्ववृ० १।७२ ] ' इति वचनात् तेषां तत् प्रमाणं न स्यात् ।
९४]
अथ ते विवेचयन्तोऽपि गत्यन्तराभावात् दृश्यविकल्प्ययो रेकीकरणात् प्रवर्त्तते (न्ते) ; तर्हि दूरस्थोऽविशदप्रतिभासाद् विवेचनचतुरधीरपि प्रवर्त्तते इति तदवस्थम् अनुमानोत्थापनमनर्थकम् । प्रवर्त्ततां को विरोध इति चेत् ? अनुमानवत् प्रमाणम् । अस्तु इति चेत्; किं नाम ? प्रत्यक्ष - ५ मिति चेत् ; अनुमानमपि स्यात् । अवैशद्यान्नेति चेत्; अत्र (अन्यत्र ) समानम् । लिङ्गजत्वानेति चेत्; एवं तर्हि कारणभेदात् [४७४क] मानभेदो न प्रमेयभेदात् । तथा सति अक्षजन्मनो मानसादि प्रमाणान्तरं स्यादिति न प्रमाणसङ्ख्यानियमः ।
६
स्यान्मतम् - स्वलक्षणगोचरत्वात्तदपि प्रत्यक्षम्, दूरस्थानुमानज्ञानयोः साधारणाविशदविषयत्वादेकप्रमाणत्वमस्तु । अथ व्याख्यातृणां नानुमानं प्रमाणम् ; कुतः ते स्वयं तत्त्वमव- १० बुद्ध्यन्ते परं वा प्रबोधयन्ति, येन धर्म कीर्त्ति प्रज्ञा कर गुप्ता द यो व्याख्यातारः स्युः ? अथ मतम् - परप्रसिद्धानुमाने न तेषां वृत्तिरिति चेत् ; न ते चार्वाकेभ्यो विशिष्यन्ते । तन्न युक्तम् -"प्रमाणेतरसामान्य स्थितेः" इत्यादि । स्वयं चानुमानमनिच्छन्तो “निरालम्बना: सर्वे प्रत्ययाः इति कोऽर्थः ? स्वरूपालम्बना: " [प्र० वार्त्तिकाल० पृ० ३६५] इति कथं ब्रूयुः तत्र प्रत्यक्षावृत्तेः इत्युक्तम् | अद्वैतं च निराकृतम् । अथ अनुमानमर्थविषयमिति तेषा मपि प्रमाणं न मरीचिकातोयज्ञानम्; आगतास्तेऽपि तर्हि मदीयं पन्थानमिति साधूक्तम् - सवविकल्पमिथ्यात्वमिति ।
१५
अपरः प्राह-व्यवहारेण अनुमानं प्रमाणमिष्टम् " प्रामाण्यं व्यवहारेण " [प्र०वा० १।५] इति वचनात् । व्यवहारत्यागे तत्त्यागो भाण्डत्यागे शुक्ला (दुग्ध) त्यागवत्, तत्त्वं पुनरविकल्पाध्यक्षात् सिद्ध्यति ; इत्यत्राह - अविकल्प संवृत्ते : (संवित्तेः) इत्यादि । कुतः ? इत्यत्राह - २० तथा तेन मिथ्या सर्वे विकल्पा इति प्रकारेण निर्णयविरोधात् अविकल्प संवित्ते : इति । तथाहि
विकल्पानुकृतेस्तस्य अविकल्पकता कुतः ।
तेषां तया न निर्णीतिः [ ४७४ख ] ताद्रव्यत्ययमिच्छताम् ॥ सारूप्यमन्यथा वित्तौ निराधारं व्रजेदधः ।
स्वरूपेतरसंवित्तौ नाविकल्पकताप्यतः ||
तन्मिथ्यात्वस्य निर्णीतौ तया तस्या भवेत्कथम् । अविकल्पकता नाम क्षणभङ्गे यतोऽनुमा ||
ai (a) निर्णयज्ञानं प्रत्यक्षं कैश्चिदीक्ष्यते । निरस्ता ग्रन्थतोऽस्मात्ते समदोषानुषङ्गतः ॥
( १ ) " व्याख्यातार एवं विवेचयन्ति न व्यवहर्तारः, ते तु स्वालम्बनमेव अर्थक्रियायोग्यं मन्यमाना दृश्यविकल्पार्थावेकीकृत्य प्रवर्तन्ते ।" - प्र० वा० स्ववृ० १। ७२ । ( २ ) प्रमाणभेदः । (३) निर्विकल्पात् । (४) प्रबोधन व्यवहारः । (५) 'अन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ।' इति शेषः ।
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org