________________
६०६
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
तस्य अनभिमतम् । नहि निरंशैकान्तवादिनो [ ४७३ क] भ्रान्तोऽपि द्वितीयोंऽशः सुखाय । अपिशब्दः तथा इत्यस्यानन्तरं द्रष्टव्यः । तथा च तदनिष्टानुषङ्गप्रकारेण च बहिरर्थस्य घटादेः कस्यचित् जैनोपगतस्य नापरस्य अक्षशब्दज्ञानविषयत्वं कथं नाङ्गीक्रियते ? एकत्र भ्रान्तेतराकारद्वयाविरोधे अभ्रान्तसाधारणेतराकारद्वयाविरोधोऽपि दुर्निवार इति भावः । ५ यतो मंगी (यदङ्गी) करणात् शब्दानां विकल्पानां च मिथ्यैकान्तता अवसीयते । विकल्पाकारस्य शब्दसंसर्गयोगस्य (स्य) सत्त्वमम्भुपगम्य इदमुक्तम् ।
अधुना तत्रा (तन्ना)स्तीति दर्शयन्नाह - न चैतद् युक्तम् इत्यादि । न च नापि एतद् विकल्पस्वलक्षणस्य तदात्मकत्वम् आरोपिताकारात्मकत्वं युक्तम् उपपन्नम् । कुतः ? इत्याहकस्यचित् इत्यादि । कस्यचिद् विकल्पस्य सम्यक्त्वं यथार्थत्वमन्तरेण तेषां विकल्पानां यो १० मिथ्यात्वैकान्तः तस्य प्रतिपत्तेरयोगात् । अस्त्येव स विकल्पः सम्यकू, यतः तदेकान्तप्रतीतिरिति चेत् ; अत्राह - तत्तत्त्व इत्यादि । स तन्मिथ्यात्वैकान्तः तत्त्वं परमार्थो यस्य विकल्पस्य तस्य संभवे कथं सर्वविकल्पमिथ्यात्वम् ? 'विवाद्गोचरापन्ना विकल्पा मिथ्या 'तत्त्वात् ईश्वरादिविकल्पवत्' अतोऽनुमानात् तत्प्रतीतिः । तच्च अतत्त्वविषयमपि प्रमाणम् अविसंवादात्, सोऽपि पारम्पर्येण वस्तुनः उत्पत्तेः । तथा चोक्तम्
१५
* मणिप्रदीपप्रभयोर्मणिबुद्ध्याऽभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।। "
[प्र०वा० २।५७ ]
E
[४७३ ख] तत्कथमुच्यते तत्संभव (तत्तत्त्वसंभवे ) इति ? तदप्यसत्यम् ; यतः अनुमानस्य अतत्त्वविषयत्वे ततः तत्त्वाऽसिद्धेः, अन्यथा "प्रधानादिविकल्पादपि तत्प्रसङ्गात् । २० ँअस्य वस्तुन्यप्रतिबन्धात् नेति चेत्; मरीचिकाजलज्ञानादपि तत्त्वसिद्धेः तदपि प्रमाणं भवेत्, तस्यापि पारम्पर्येण 'तत्र प्रतिबन्धात् । तथाहि - मरीचिकाभ्यः तद्दर्शनम्, अतो जलविकल्पः इति । *" नो चेत्" [प्र०वा० ३।४३] इत्यादि वचनादस्तु प्रमाणमिति चेत्; प्रमाणान्तरं स्यात् । न प्रत्यक्षम् ; विकल्पत्वात् । नाप्यनुमानम् ; अलिङ्गजत्वात् । इतरथा "अनुमानानुमानिकम्" [प्र०समु० ११८ ] इत्यनेन पर्याप्तमिति * " भ्रान्ति संवृतिसंज्ञा २५ (सज्ज्ञा) नम्” [प्र०समु० १८] " इत्यनर्थकम् | जलस्यासतो ग्रहण ( णं) तु प्रमाणमनुमानम्, तस्मात् सात्मनो (स्वात्मनो ) ग्रहणात् । लोक एवं न मन्यते ; यो मन्यते तं प्रमाणे ति ( णमिति ) किं स्यादप्रमाणम् ? इतरथा शुक्लशङ्खादौ पीतादिज्ञानं विसंवादधियं प्रति प्रमाणं स्यादिति
(१) विकल्पत्वात् । (२) अनुमानम् । ( ३ ) सामान्यविषयमपि । ( ४ ) अविसंवादोऽपि । (५) साङख्याभिमत । (६) तत्त्वसिद्धिप्रसङ्गात् । ( ७ ) प्रधानादिविकल्पस्य । ( ८ ) वस्तुनि । (९) "नो भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारः रूपसाधर्म्य दर्शनात् । " - प्र० वा० । (१०) "भ्रान्तिसंवृतिसज्ज्ञानमनुमानानुमानिकम् । स्मार्ताभिलापिकं चेति प्रत्यक्षाभं सतैमिरम् । " - प्र० समु० । भ्रान्तिज्ञानं मृगतृष्णिकायां जलावसायि, संवृतिसतो द्रव्यादेर्ज्ञानम्, अनुमानं लिङ्गज्ञानम्, आनुमानिकं लिङ्गिज्ञानम्, स्मार्तं स्मृतिः, अभिलापिकं चेति विकल्पप्रभेद आचार्यदिग्नागेन उक्तः ।" - प्र० वा० मनोरथ० २। २८८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org