________________
९४ ]
न शब्दज्ञानं सामान्यमात्रविषयकम्
६०५
एवेति चेत् ; आस्तां तावदेतत् । तस्येव तद्वत् । स्याद् भेदो बहिरर्थस्य ततः तत्त्वं द्वयात्मकम् सामान्यविशेषात्मकम् ।
कारिकां व्याख्यातुमाह-यथैव हि इत्यादि । निगमनमाह - तत इत्यादि । यत एवं ततः परमार्थसन् न संवृतिसन् शब्दबुद्धौ प्रतिभासेत ।
विकल्पस्वलक्षणस्य अभिलापसंसर्गयोग्यत्वेनाभिमत आकारः ततो न व्यतिरिच्यते ५ इति स्वलक्षणमेव, तन्न दृष्टान्तसिद्धिरिति चेत्; अत्राह - यदि पुनः इत्यादि । अयं परिदृश्यमानः स्थिरस्थूलाकारः शब्दवाच्यो यदि पुनः असन्नेव अविद्यमान एव विकल्पबुद्धि निरंशा सेति (निरंशेति) यावत् कथं प्रत्यक्षः स्वसंवेदनाध्यक्षग्राह्यः १ येन प्रज्ञा कर गुप्तस्य इदं व[च]नं शोभेत- *“प्रमेयद्वैविध्य' प्रमाद्वैविध्यसाधनं प्रत्यक्षतः प्रतीयते " " इति । रहयसऽछ स (नहि असत् शश) विषाणमध्यक्षगोचर: ; तथा च स्वलक्षणमेकमेव प्रमेव प्रमे १० यम् तत्र प्रत्यक्षमेव प्रमाणं न द्वितीयप्रमाणावकाश इति भावः ।
"
स्यान्मतम् स एव तदाकारो विशेषेषु समारोपितः सामान्यम्, ततोऽयमदोष: इति ; तत्राह - कथं च (वा) इत्यादि । शब्दवृत्तिः अनुमानप्रवृत्ति [श्च] स्वार्थक्रिया तत्कारी विकल्पबुद्धेरयमाकारोऽसन्नेव कथम् ? 'वा' इति दूषणसमुच्चये, यतः तत्का (तत्करणात ) लोकस्य व्यवहारः [४७२ ख] प्रवृत्त्यादिरूपः ।
१५
इदमत्र तात्पर्यम्-आकारोऽयं विशेषेषु किं तेनैव विकल्पेन आरोप्यते, विकल्पान्तरेवा ? येनोच्यते प्रज्ञा करे ण - " स एवाकारोऽस्पष्टः ततोऽव्यतिरिच्यमानतनुः स्वलक्षणमपि भिन्ने खण्डादौ चारोप्यमाणः सामान्यम्" इति । तत्राये पक्षे सिद्धा विकल्पस्य अभिलापसंसर्गयोग्यता, (?) अन्यत्र आरोप्यरूपस्य भ्रान्तस्यापि स्वीकारात् । न चैवं परस्य मतम् । एतेन द्वितीयोऽपि विकल्पश्चिन्तितः ; तथाहि - द्वितीयोऽपि विकल्पः २० प्रथमविकल्पस्य आकारमन्यत्र आरोपय रि[ यति ] स्वस्य नेति तस्यापि “भ्रान्ते [त]ररूपापरित्यागः । अथ तस्यापि तत्र तदारोपः (?) स्वाकारत्वात् स्वलक्षणम् ; अत्रापि स एव दोषः 'असन्नेव कथं स्वा -' इत्यादिकः । पुनरपि विकल्पान्तरेण तस्यं तत्र तदारोपे अनवस्था, पुनरपि तदन्तरकल्पनात् ।
किं च, आद्य एव अन्यत्र स्वाकारमारोपयतु किं द्वितीयेन ? तत्र सत्यपि एकत्र विभ्र - २५ तरत्वानिवृत्तेः । भवतु आद्य एव तथा विकल्पः तथापि न भवतोऽभिमतसिद्धिः, आरोपिताकारस्य असत्त्वात् ततोऽनेकान्तेऽपि तथा स्यात् परमार्थाकाराने कान्तोपगमादिति चेत् ; अत्राह—स्वलक्षणस्य इत्यादि । विकल्पस्वलक्षणस्य तदतदात्मकत्वम् आरोपितेतराकारात्मकत्वं तथा तेन अनन्तरोक्तप्रकारेण उप [प]धेत । किं भूतम् ? इत्याह- अनिष्टमपि सौग
2
(१) "विषय द्वैविध्यं प्रत्यक्षत एव सिद्धम् " - प्र० वार्तिकाल० ३।२। (२) 'प्रमेव ' इति व्यर्थम् । (३) अर्थक्रियाकरणात् । (४) " रूपादय एवाविशेषेण सामान्यमनुमानगोचरम् । व्यक्त्यन्तरापरित्यागे हि व्यक्तय एव सामान्यमुच्यन्ते ।" - प्र० वार्तिकाल० पृ० १९२ । (५) द्वयरूपतापत्तिरित्यर्थः । ( ६ ) विकल्पान्सर |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org