________________
६०४
सिद्धिविनिश्चयटीकायाम् [ ९ शब्दसिद्धिः इति स्यात् । तथा च *"अणवो दूरविरलकेशवत् घनैकाभासमतिहेतवः" [प्र. वार्तिकाल० २।९२] इति' प्रज्ञा क र स्य वचनं प्लवते । ध म की तैः *"चन्द्रद्वयज्ञानम् इन्द्रियजम्" इति । [४७१ ख]शक्यं हि वक्तुम्-प्रथममेकं त (मेकेन्दु) दर्शनं तदनन्तरं तवयविकल्प इति । कथमस्य वैशद्यमिति चेत् ? कथं स्थूलैकघटादिविकल्प[स्य ?] । ५ ननु च उक्तमत्र *"मनसोयुगपद्वृत्तेः" [प्र० वा० २।१३३]इत्यादि । सत्यमुक्तम्तत्तु अन्यत्राप्युत्तरम् । 'अक्षभावाभावानुविधानं कथम् ?' इत्यपि न चोद्यम् ; अस्य तद्विकल्पेऽपि समत्वात् । न च तत्र तन्नास्ति ; लोकस्य तथैव व्यवहारात् तदुक्तम्-*"अक्षज्ञानमनेकान्तमसिद्धरपराकृतः।" [प्रमाणसं० १।४] इति ।
अक्षजदर्शनान्तरभावित्वात्तत्र तद्विभ्रमः इति चेत् ; तथा चोक्तम्*"प्रत्यक्षासन्नवृत्तित्वात् कदाचिद् भ्रान्तिकारणम्" इति ; तदपि तादृगेव। .
यत्पुनरेतत्-'अन्यत्र *दृष्टस्मृतिमपेक्षेत" [प्र०वा० २।२९८] इति ; तदप्येतेन निरस्तम् ; नहि तद्विकल्पः तामपेक्षते कचित्तदर्शनाऽनभ्युपगमात् । तद्वासनातः तद्विकल्पः इति चेत् ; न ; सर्वस्य सर्वदा तस्य भावात् । व्यवहिता सा ; तद्वयविकल्पेऽपि । कामाधु
पप्लववत् बहिरर्थाभावः स्यादिति चेत् ; अत एव संवेदनस्यापि स्थूलैकाकारवत् न द्विचन्द्रा१५ कारस्य विकल्पगोचरत्वेऽपि सन्तानान्तरे वाचकैः समर्पणम् । यदि पुनः तथापि तैमिरिकः
चन्द्रादेःविशिष्टं रूपं न पश्यति ; दूरस्थः शुक्तिकादेरपि तन्न पश्यति । तथाप्यस्य वस्तुविषयत्व (त्वे)शब्दस्याप्य त्वे (यस्तु । ए)तदेव दर्शयन्नाह-तन्न इत्यादि ।
ननु सामान्यं शाब्दे ज्ञाने प्रतिभाति । तच्च (न च)वस्तुनो भिन्ने (न्न)तद्रूपमस्ति विरोधात्, ततो निर्विषयं तदिति चेत् ; अत्राह-शब्द इत्यादि । [४७२ क] ।
[शब्दसंसर्गयोग्येतरनिर्भासैकविकल्पवत् ।
स्या दो बहिरर्थस्य ततस्तत्त्वं द्वयात्मकम् ॥४॥ यथैव हि ततः परमार्थसन् शब्दबुद्धौ प्रतिभासेत । यदि पुनरयं स्थिरस्थूलाकारः असन्नेव कथं प्रत्यक्षः कथं वा स्वार्थक्रियाकारी यतो लोकव्यवहारः ? तथा .
विकल्पस्वलक्षणस्य तदतदात्मकत्वमनिष्टमप्युपपद्यत । तथा च बहिरर्थस्य कस्यचित् २५ अक्षशब्दज्ञानविषयत्वं कथन्नाङ्गीक्रियते यतः शब्दानां विकल्पानां च मिथ्यैकान्तता:
वसीयते। न चैतद् युक्तम् , कस्यचित्सम्यक्त्वमन्तरेण तन्मिथ्यैकान्तप्रतिपत्तेरयोगात् । तत्तत्त्वविकल्पसंभवे कथं सर्वविकल्पमिथ्यात्वम् ? तथाऽविकल्पसंवित्तेः निर्णयविरोधात् ।]
शब्दस्य तेन वा संसर्गः सम्बन्धः तस्मै योग्यः इतरोऽयोग्यः तौ आकारौ निर्भासौ तयोरेकः साधारणो विकल्पः। ननु सोऽपि असाधारणरूपमग्नोऽविकल्प
(१) “यथा विरलदेशस्थिता अपि केशमशकमक्षिकादयः एकघनाकारं प्रत्ययमुपजनयन्ति..."-प्र० वार्तिकाल । (२) 'प्लवते' इति सम्बन्धः । “नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् ।"-प्र० वा० २। २९४ । (३) इन्द्रियान्वयव्यतिरेकानुविधानम् । (४)अन्यसन्ताने ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org