________________
९॥३] न शब्दानं सामान्यमात्रविषयकम्
६०३ मात्रं पश्यति इति ; तत्राह-समानरूपासंभवादिति । समानस्य शुक्तिकारजतसशस्य रूपस्य स्वभावस्य सौगतमतेऽसंभवात् । तथा च दूरे केशप्रतीतिवत् शुक्तिकायामपि समानरूपप्रतीतिमानसी भ्रान्तिः स्यादिति मन्यते । तत्र तद्र पभावे दूषणमाह-तत्संभवे समानरूपसंभवे प्रत्यासन्नेन नरेण रूपद्वयोपलम्भप्रसङ्गात् [३७०ख] तद्र पासंभवादिति । पश्यत्येव तर्हि तस्या विशिष्टमेव रूपम् अन्यथा अनेकान्तः स्यादिति चेत् ; अत्राह-तदयम् इत्यादि । सोऽयं दूरस्थः ५. तदसाधारणं तस्याः शुक्तिकाया विशिष्टं रूपम् आसन्नवत आसन्न इव तद्वत् पश्यन्नपि न निश्चिनोति तद्र पम् । कुतः ? इत्याह-निश्चय इत्यादि । [निश्चयप्रत्ययवैकल्यात ] इति एवं परेणोच्यमानं न जाघटीति । कुतः ? इत्याह-नहि इत्यादि । हिर्यस्मात् न प्रत्यासन्नेतरविज्ञान[योः] स्पष्टास्पष्टप्रतिभासविशेषमन्तरेण प्रत्यासन्नस्य विज्ञानस्य स्पष्टप्रतिभासभेदम् इतरस्य दूरस्य विज्ञानस्य अस्पष्टप्रतिभासभेदं विनाशमान(विना समान) प्रतिभास इत्यर्थः । १० निश्चयस्य प्रत्ययो हेतुः तस्य साकल्यवैकल्यसंभवः । अनुभवो हि तत्प्रत्ययः, स च द्वयोरपि समानः, नैकत्र तस्य साकल्यम् अपरत्र वैकल्यम् इति भावः। दर्शनपाटवादिकमपि तत्कारणम्, तद् दूरस्थे नास्तीति चेत् ; अत्रेदं चिन्यते-किमिदं तत्र दर्शनस्य पाटवम् ? प्रवृत्त्यभाव इति चेत् ; कुतः तस्य शुक्तिकायां मानसो रजतविपर्ययः ? यत इदं स्यात्
*"नो चेद् भ्रान्तिनिमित्तेन संयु[यो]ज्येत गुणान्तरम् ।
शुक्तौ वा रजताकारः रूपसाधर्म्यदर्शनात् ॥" [प्र० वा० ३।४३] इति । । दर्शनाभावः रूपसाधर्म्यदर्शनं च इति विरुद्धम् । अथ सतोऽपि निश्चयजननासाम• [त् ] तदिष्यते शुक्लतामात्रेऽपि ततो निश्चयो न भवेदिति न तत्र दर्शनव्यवहारः । तत्र सामर्थ्यम् [४७१क] अन्यत्र विपर्ययश्चेत् ; न निरंशे तदप्ययोगात् । एकत्र सामर्थ्यमन्यत्र विपर्ययश्चेत् ; न ; नित्यानिषेधप्रसङ्गात् ।
किंच, स्वग्रहणशक्तिरेव परग्रहणशक्तिः इति न बहिरर्थग्रहणनिषेधोऽपि। यदि पुनः अवैशद्यम् अपाटवम् ; तर्हि इदमायातम्-'इतरविज्ञानाऽस्पष्टप्रतिभासविशेषे सति निश्चयप्रत्ययवैकल्यसंभवः' इति, स्वभ्यासादिमतोऽपि दूरस्थस्य तन्निश्चयः इति न तद्वैकल्यं तत्र तदभावहेतुः । अथ अदूरत्वमपि. निश्चयप्रत्ययः, ततो दूरस्थस्य तत्प्रत्ययवैकल्यसंभव इति चेत् ; अत्राहकथं च इत्या द्य (दि । अयम)भिप्रायः-यथा प्रत्यासन्नेतरयोः शुक्तिरूपानुभवाऽविशेषेऽपि निकट- २५ त्वाऽनिकटत्वप्रत्ययभेदा[त् ] निश्चयानिश्चयौं, तथा अर्थाविशेषेऽपि तयोः दूरेतरत्वादिसामग्रीभेदाद् दर्शनस्य स्वभावभेदः विशदेतररूपविशेषः कथन स्यात् ? स्यादेव, यतो दर्शनस्वभावभेदाभावात् प्रत्यासन्नवत् दूरस्थ[:] स्पष्टमेव पश्येत् । यतः इति वा आक्षेपे नैव पश्येत् । यदि च, यथा आसन्नः तथा दूरस्थोऽपि शुक्तौ विशिष्टं स्पष्टमेव रूपं पश्येत् ; तर्हि दूरस्थितविरलकेशानामपि तथाविधमेव रूपं पश्यति, निश्चयात्ययवैकल्यात् न निश्चिनोति ३०
(७) शुक्तिकायाः । (२) अत्र पाठस्त्रुटितः प्रतीयते । (३) रूपद्वयाभावात् । (४) भवतः। (५) प्रत्यासन्नेतरयोः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org