________________
६०२
२५
[वागक्षसंविदेकार्थगोचरत्वेऽपि युज्यते । प्रतिभासभिदा दूरासन्नैकार्थोपलम्भवत् ॥३॥
सामग्रीभेदात् प्रतिभासभेदेऽपि नार्थभेदै कान्तः प्रत्यासन्ने [तरज्ञानवत् ] । कथमन्यथा अभ्रान्तज्ञानेन वस्तु पश्यन्नयं शुक्तिकाया विशिष्टमेव रूपं न पश्यति ? समानरूपासंभवात् । ५ तत्संभवे प्रत्यासन्नेन रूपद्वयोपलम्भप्रसङ्गात् । तदयमासन्नवत् तदसाधारणं रूपं पश्यन्नपि न निश्चिनोति निश्चयप्रत्ययवैकल्यादिति उच्यमानं न जाघटीति । न हि प्रत्यासन्नेतरविज्ञानयोः स्पष्टास्पष्टप्रतिभासविशेषमन्तरेण निश्चयप्रत्ययसाकल्यवैकल्यसंभवः । कथं च तयोः दूरेतरत्वादिसामग्रीभेदात् दर्शनस्वभावभेदो न स्यात् ? यतः प्रत्यासन्नवत् दूरस्थः स्पष्टमेव पश्येत् ? तन्न]
१०
वाचाम् अक्षाणां स्वकार्यभूताः संविदः तासाम् एकार्थगोचरत्वेऽपि यो (यु) - ज्यते । का ? इत्याह-प्रतिभासभिदा स्पष्टतरप्रतिभासभेदः, निदर्शनमाह - दूर इत्यादि । दूरासन्नौ यौ पुरुषौ तयोः एकः साधारणो योऽर्थः वृक्षादिः तस्य उपलम्भयोरिव तद्वत् । यथा दूरस्य तत्रैवार्थो (र्थे ) Sस्पष्ट उपलम्भ: आसन्नस्य इतर । तथा क्षणस्य अस्पष्ठैकत्रार्थे संविदिति न दोषः ।
१५
३०
सिद्धिविनिश्चयटीकायाम्
दूरस्थस्य अविशदं ज्ञानम् अनर्थविषयमेव, तदवभासिनो घनाऽविशदाकारस्य अर्थेभावात् । भावे वा आसन्नस्यापि 'तत्प्रतीतिप्रसङ्गः । विशदेतररूपद्वयसद्भावे उभयत्र उभयप्रतीतिः, न चैवम् । तन्नाविशदार्थगोचरम विसंवादः, प्रमाणान्तरात् (?) तथा चोक्तम् । २० * ' ममेव (ममैवं ) प्रतिभासो न स संस्थान [४७० क] वर्जितः ।" [प्र० वार्तिकाल ०
२१] इत्यादि । वस्तुविषयं तु शुक्तिकादिज्ञानं दूरेऽपि विशदमेव, तत्र रजतादिप्रतीति: अन्या मानसी भ्रान्तिः तत्कथमुक्तम् सामग्रीत्यादि इति चेत् ? अत्राह - कथमन्यथा इत्यादि । अन्यथा सामग्रीभेदाद् बुद्धिप्रतिभासभेदे अर्थभेदैकान्ते (न्त) प्रकारेण दूरस्थः पश्यन् अभ्रान्तज्ञानेन अविकल्पेन वस्तु प्रतिपद्यमानोऽयं जनः ।
[ ९ शब्दसिद्धिः
कारिकां व्याख्यातुमाह-सामग्री इत्यादि । शब्दाऽक्षादिसामग्र्याः भेदात् नानात्वादेः (त्वाद्धेतोः) प्रतिभासभेदेऽपि नार्थभेदेकान्तः । निदर्शनमत्र प्रत्यासन्न इत्यादि ।
"
तेन 'दूरस्थस्यापि शुक्तिकादिज्ञानं परस्य प्रत्यक्षम् ततः परं रजतादिभ्रान्तिः मानसी, अन्यथा तद्भान्तेः न किञ्चिदुदाहरणम्' इति मतं दर्शयति- शुक्तिकायाः, उपलक्षणमेतत् तेन 'मरीचिकाचक्ररज्वादेः' इत्यपि गृह्यते, विशिष्टमेव सर्वतो व्यावृत्तमेव रूपं स्वभावं न पश्यति कथमिति सम्बन्धः पश्यत्येवे [त्य ]र्थः । तथा च आसन्नवद् दूरेऽपि रजतादिभ्रान्तिः । नहि नीले अन्यतो व्यावृत्ते दृश्यमाने सोऽस्ति इति भावः ।
Jain Education International
स्यान्मतम् - यथा दूरेऽपि विरलकेशेषु परस्परविवेकाप्रतिभा [से] सर्वसाधारणी कृष्णता प्रतिभाति ; तथा शुक्तिकायाः विशिष्टरूपादर्शनेऽपि शुक्तिकारजतसाधारणं चैकविद्य (चाकचिक्य) -
(१) घनैकाकारप्रतीति । (२) भ्रान्तिः ।
For Personal & Private Use Only
www.jainelibrary.org