________________
९।२] शब्दस्य पौद्गलिकत्वम्
६०१ स्यान्मतम् , स्पर्शमात्रे वायोरारोपात् ‘स लगति' इति प्रतीतिः न तद्ग्रहणात् इति ; हि रूपे घटारोपात् 'घटं पश्यामि' इति वित्तिः न तद्दर्शनात् इति सौगतमतम् । रूपोपाधिर्घटः प्रतीयते न स्पर्शोपाधिर्वायुः इति कुतोऽयं विभागः ? अथ द्वीन्द्रियग्राह्यं द्रव्यं प्रत्यक्षम् , न च वायुस्तथा; चन्द्रार्कादीनां प्रत्यक्षत्वं न स्यात् । पार्श्ववर्तिना तेषाम् इन्द्रियद्वयेन ग्रहणाददोषश्चेत् ; वायोरपि विशिष्टपुरुषेण तवयेन ग्रहणाददोषोऽस्तु । किमत्र प्रमाणम् ? 'अन्यत्र किम्' इति समानम् । ५ 'तस्य रूपादेरभावान्न विशिष्टेनापि तथाँ ग्रहणमिति चेत् ; चन्द्रादौ स्पर्शादिरस्ति इति कुतः ? रूपवत्त्वात् ; प्रकृते [४६९क] 'स्पर्शवत्त्वात्' इत्यभ्युपगमात् । शेषं चिन्तितमत्र ।
यदि चायमेकान्तः द्वीन्द्रियग्राह्यमेवं प्रत्यक्षम् ; आत्मा प्रत्यक्षो न स्यान्मतम (स्यात् , मनस) एव तद्ग्रहणे व्यापारो नान्येन्द्रियस्य । किं च,
एकैकस्य नचेच्छक्तिः इन्द्रियस्येह तद्ग्रहे ।
तवयस्यास्तु सा कस्मात् येनैवमभिधीयते ।। तन्न किश्चिदेतत् ।
अथवा, गगनवत् परमाणवोऽपि अत्यन्तपरोक्षा इति तत्परिणामोऽपि शब्दः प्रत्यक्षो न स्यादिति समानमिति चेत् ; अत्राह-परिमण्डलानाम् इत्यादि । तादात्म्यपरिणामोपपत्तेः प्रत्यक्षत्वपरिणामोपपत्तेरसमानं दूषणमिति । वायुना व्यभिचार इति चेत् ; अत्राह-वायोरपि १५ इत्यादि ।
उपसंहारमाह-तदिमे इत्यादिना । यत एवं तत् तस्मात् इमे शब्दाः। किंभूताः ? इत्याह-चैतन्येत्यादि । चैतन्यग्रहणेन अपौरुषेयशब्दव्युदासः, विशेषपदेन मिथ्याज्ञानप्रसृतध्वनिपरिहारः । किंभूताः पुनरपि ? इत्याह-वर्ण इत्यादि । ते किं क्रियन्ते ? इत्याह-व्यवहारपदवीमुपनीयन्ते । किं कृत्वा ? इत्याह-कथञ्चिद् इत्यादि । केनचित् उपपत्तिप्रकारेण प्रतिपद्य २० ज्ञात्वा । काम् ? इत्याह-[अर्थ इत्यादि] अर्थे घटादौ संसर्गः सम्बन्धो यस्याः शब्दानां योग्यतायाः ताम् । ननु नार्थे शब्दानां योग्यतयापि सम्बन्धः, तथापि पुरुषप्रकारेण ते व्यवहारपदवीमुपनीयन्ते इति चेत् ; अत्राह-नान्यथा इति । तदेव दर्शयन्नाह-कथञ्चित् इत्यादि । निदर्शनमाह- शब्दान्तरवत् इति । अवर्णाद्यात्मकसमुद्रघोषादिवदिति [४६९ख] ।
ननु योग्यता कार्यदर्शनादनुमीयते, न च शब्दानामर्थप्रतीतिरूपं कार्यमस्ति, तेभ्यः अस्पष्ट- २५ साधारणाकारस्यैव प्रतीति(स्तेत)निरासार्थ न्वस्ति (?) तेषामिन्द्रियेऽन्यथा प्रतिभासनात् । भिन्नावभासिनोस्व (श्च) ज्ञानयोः नैकविषयता रूपादिज्ञानेष्वपि तत्प्रसङ्गात्। अथ योग्यतातः तत्कार्यव्यवस्था ; अन्योऽन्यसंश्रयः-योग्यतायाः "तव्यवस्था, अतश्च योग्यतासिद्धिरिति चेत् ; अत्राह-वाग इत्यादि।
(१) वायुग्रहणात् । (२) चक्षुःस्पर्शनेति । (३) इति चेत् ; (४) तदधिष्ठायकदेवेन । (५) योगिना । (६) वायोः । (७) द्वीन्द्रियेण । (८) वायौ रूपादिः । (९) चक्षुस्पर्शनेन्द्रियाभ्याम् । (१०) द्रव्यम् । (११) तत्कार्यव्यवस्था ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org