________________
६०० सिद्धिविनिश्चयटीकायाम्
[९ शब्दसिद्धिः गुणत्वादेव द्रव्याश्रितत्वम् । तदाधारो द्रव्यं विभु नित्यत्वे सति अस्मदादिप्रत्यक्षगुणत्वात् आत्मवत् । यश्च तथाविधः तदाधारः तदाकाशमिति चेत् ; अत्राह-तथा शब्दप्रकारेण परिणामो यस्य तस्यैव तद्गुणत्वस्य शब्दगुणत्वस्य संभवात् । न चैवम् आकाशं नित्यत्वेनोपगतं रूपादिरूपम् ; [रूप] परिणामस्यैव [४६८क] [परेणापि रूपादिगुणत्वोपवर्णनात् ।
दूषणान्तरमाह-कथं च इत्यादि । कथं च न । कथञ्चिद् अत्यन्तपरोक्षस्य [गगनस्य] गुणः शब्दः प्रत्यक्षः अस्मदादीन्द्रियग्राह्यः ? तथाहि -योऽत्यन्तपरोक्षगुणः नासौ अस्मदादि प्रत्यक्षः यथा परमाणुरूपादिः, अत्यन्तपरोक्षगुणश्च परस्य शब्द इति ।
ननु च अत्यन्तपरोक्षगुणत्वं स्यात् प्रत्यक्षश्च इति सन्दिग्धविपक्षव्यावृत्तिको हेतुः इति चेत् ; अत्राह-परिमण्डलानां परमाणूनां स शब्द आत्मा स्वभावभूतो गुणो येषां तेषां भावः १० तादात्म्यं स एव परिणामः तस्य उपपत्तेः । यथा [अ]दृश्यस्याकाशस्य तथा वि (तद्वि)धानां
परमाणूनां न स्यादिति भावः । अथ तस्य परमाणुगुणत्वे तद्रूपादिवदप्रत्यक्षता स्यादिति चेत् ; आकाशगुणत्वेऽपि तद्विभुत्ववत् सो भवेदिति समानम् । अत्र गुणवैचित्र्यसंभवे अन्यत्र कोऽपरितोषः ? तन्न युक्तम् ‘परमाणु[गुण]त्वे शब्दस्य तद्रूपादिवत् अप्रत्यक्षत्वप्रसङ्गः' इति ।
यत्पुनरुक्तम् -'शब्दाधारो द्रव्यं विभु नित्यत्वे सति अस्मदादिप्रत्यक्षगुणत्वात् आत्म१५ वत्' तदनेन निरस्तम् ; परमाणूनामपि विभुत्वप्राप्तेः । न चात्मनि तत् इत्युक्तम् ।
अथ अत्यन्तपरोक्षगुणस्य परोक्षत्वम् ; वायुगुणस्य स्पर्शविशेषस्य समानं तदिति चेत् ; अत्राह-असमानम् । कुतः ? इत्याह-वायोरपि इत्यादि । स्पर्शात्मना इति । अनेन स्पर्शविशेषस्वभावतां वायोः दर्शयति अन्यथा [न] गुणगुणिभावः । कथं च वायुः प्रत्यक्षः ?
[४६८ख] अक्षेणाऽसन्निकर्षात् ; स्पर्शेऽपि भवेत् , तँस्य तत्सन्निकर्षद्वारेण तेने सन्निकर्षात् संयु२० क्तसमवायोपगमात् । अथ वायोः तेन सम्बन्धोऽस्ति, स तु तत्र ज्ञानं नोपजनयति ; येन इन्द्रियं
साक्षात्सम्बद्धं तत्र न ज्ञानं संपादयति येन तद्द्वारेण तत्सम्पादयति, तदिदमायातम्-'यस्य भोजनं खण्डशराव इव । स्पर्शे उत्पादयद् दृष्टं तेन तत्र उत्पादयति, नान्यत्र विपर्ययात् । कुत एतत् ? स्पर्शप्रतीतिः (तेः) इति चेत् ; किं पुनः इयं प्रतीतिर्नास्ति-'मृदुः खरः अन्यथा वा वायुः मे लगति'
इति ? भ्रान्तेरियमिति चेत् ; कुत एतत् ? अप्रत्यक्षेऽपि तस्मिन् प्रत्यक्षत्वारोपात् । तदपि २५ कुतः ? तत्प्रतीतेः विभ्रमात् ; अन्योऽन्यसंश्रया-सिद्धे तद्विभ्रमे तदप्रत्यक्षत्वम्, अतः तद्विभ्रम इति ।
(१) शब्दाधारः । (२) प्रतौ अक्षरचतुष्टयं त्रुटितम् अतिवृष्टं च 'परेणापि' इत्येव पठितुं शक्यते । (३) तुलना-"अमूर्तगुणस्य आत्मगुणवद् इन्द्रियविषयत्वादर्शनात् ।"-त. वा० पृ० ६९। त. श्लो० पृ० ४२१। पञ्चास्ति० टी० पृ० १८५/ "आकाशगुणत्वे च अस्मदादिप्रत्यक्षतानुपपत्तिः ।"-न्यायकुमु० पृ. २४७ । (४) शब्दस्य । (५) अप्रत्यक्षता । (६) तुना-"यद्याकाशं व्यापकं न भवति तदा सर्वत्र शब्दोत्पत्तिर्न स्यात् , समवायिकारणाभावे कार्योत्पत्त्यभावात् । दिवि भुव्यन्तरिक्षे चोपजाताः शब्दा एकार्थसमवेताः शब्दत्वात् श्रयमाणाद्यशब्दवत् । श्रूयमाणाद्यशब्दयोश्च एकार्थसमवायः कार्यकारणभावेन प्रत्येतव्यः।"-प्रश० कन्द० पृ० ६२ । (७) स्पर्शस्य । (८) वायुसन्निकर्ष । (९) इन्द्रियेण । (१०) सम्बद्धम् । (११) अयमर्थः-यस्य भोजनं कृतं तस्य शरावः भाण्डः खण्डितः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org