________________
९।२] शब्दस्य पौगलिकत्वम्
५९९ माह-अन्यथा इत्यादि । नैरन्तर्याभावप्रकारेण अन्यथा कार्यकारणव्यवस्था उपादानोपादेययोः सङ्करादि'परिहारेण स्थितिरेव मा भूत् ।
भवेन्मतम्-'जाग्रत्प्रबोधज्ञानवत् वस्तुस्वभावत एव अन्यत्रापि नैरन्तर्याभावेऽपि तद्व्यवस्था' इति ; अत्रोक्तमुत्तरम् । तदन्तरं वक्तुमाह-वस्तुस्वभावतः इत्यादि । वस्तु कार्यकारणे तयोः स्वभावो योग्यता ततः तद्व्यवस्थायां कार्यकारण[४७७कव्यवस्थायाम् । कुतः ५ कारणात् संयोगप्रबन्धः । किमेकदेशेन सर्वात्मना वा संयोगः ? इत्याह-तत्संयुक्ता[:]स्वपरमाणवः तेषां पराभ्युपगमादेवमुक्तम् , परमाणवोऽपि क्षणवस्तुस्वभावत एव संसर्गरहिताः स्थूलमेकं परिणाम (म) विभ्रति इति मन्यते । सर्वेषां तत्प्रसङ्ग इति चेत् क्षणानामपि समानम् । शक्यं हि वक्तुम्-भिन्नकालं यावत् प्रबोधस्य जाग्रद्विज्ञानं कारणं तावत् अतीतजन्मान्तरज्ञानं कुतो न भवति ? अन्यत् ; उभयत्र समानम् । तन्तवस्तर्हि पृथगवस्थिताः कुतो न पटकारणम् १० इति चेत् ? जाग्रद्विज्ञानवत् कस्मान्न अग्निः धूमस्य कालव्यवहितः कारणम् ? तथा[s]दर्शनम् अन्यत्राप्युत्तरम् । एतदेवाह-अविशेषप्रसङ्गात तद्व्यवस्थायाः स्वपरपक्षयोरिति ।
इदमपरं व्याख्यानम्-यद्यपि ततः कचिद् व्यवधानेऽपि तद्व्यवस्था, तथापि तत्संयुक्तानां तेन मध्यक्षणेन संयुक्तानाम् अव्यवधानेन व्यवस्थितानां पूर्वापरक्षणानां धारावाहिनां कुतः संयोगः(ग)प्रबन्धः ? संयोगेन व्यवधानाभावे प्रबन्धः प्रवाहः कुतो न स्यात् ? इत्याह- १५ अविशेषप्रसङ्गात् अविशेषेण प्रसङ्गाहोषात् देशप्रचयवत् कालप्रचयेऽपि दोषादित्यर्थः ।
__ अथवा, यदुक्तं परेण-*"किं स्यात् सा चित्रतेकस्याम्" [प्र० वा० २।२१०] इत्यादि ; तत्राह-कुतः इत्यादि । तेन विवक्षिसनीलज्ञानपरमाणूनां संयुक्तानामपि न(मवि)निर्भागवृत्तिभाजाम् अन्येषां नीलज्ञानपरमाणूनां कुतः[४६७ख] संयोगेनाविनिर्भागेन प्रबन्धः प्रकृष्टो विच्छेदरहितो बन्धः सहवर्त्तनं कुतो न स्यात् ? इत्याह-अविशेष इत्यादि ।
___ स्यान्मतम् सौगतमते न कापि केनचित् किञ्चित्संयुक्तम् ; इत्यत्राह-स्वतः इत्याद्य (दि । अयम)भिप्रायः-नैरन्तर्याभावे सान्तरत्वं प्रसक्तम् , तच्च व्यवधायके सति नान्यथा, तस्य स्वत एव अन्यनिरपेक्षस्य प्रदेशमात्रस्य निरंशस्य व्यवधायकताया उपपत्तेः नवै कस्यचित् कैश्चिनैरन्तर्येऽपि सांशत्वमिति उपपत्तेः इति । अनेन तदनभ्युपगमे अनवस्था स्यादिति दर्शयति ।
___ मा भूत् कार्यकारणव्यवस्था तथापि न दोषः, प्रतिभासाद्वैतवादिना तदभ्युपगमादिति- २५ चेत् ; अत्राह-अनं संख्यादि (शस्यापि) इत्यादि । न केवलं सांशस्य अपि तु अनंशस्यापि स्वभावभेदात् 'नवै' इत्यादि सङ्गतिः । निदर्शनमत्र ग्राह्य इत्यादि ।
निगमनमाह-तदिमे इत्यादि । कुतः ? इत्याह-नहि इत्यादि । तदपि कुतः ? इत्यत्राह-प्रतिषिद्धच इत्यादि ।
वैशेषिकः प्राई-गुणः शब्दः निषिध्यमानद्रव्य कर्मत्वे सति सत्तासम्बन्धित्वात् रूपादिवत् । ३०
(१) आदिपदेन व्यतिकरः । (२) कार्यकारणव्यव्स्था। (३) परिहारान्तरम् । (४) अन्यत्वमित्यस्मिन्नर्थे अन्यत्' इति । (५) द्रष्टव्यम्-पृ० ६० टि० १० । (६) "शब्दः क्वचिदाश्रितः गुणत्वात्..."-प्रश० व्यो. पृ. ३२२। "न द्रव्यकर्मजातीयः शब्दः श्रोत्रग्रहणयोग्यत्वात् शब्दत्वादिवत् । गुणः शब्दः द्रव्यकर्मान्यत्वे सति सचासम्बन्धित्वात् रूपादिवत् ।" -प्रश. व्यो. पृ०६४९ |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org