________________
५९८ सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः चेत् ; अत्राह-न वै कस्यचित् इत्यादि । [न वै] कस्यचित् मध्यवर्तिनः परमाणाः (णोः) कैश्चिद दिग्भागव्यवस्थितैः परमाणुभिः नैरन्तर्येऽपि सांशत्वम् । कुतः ? इत्याह-व्यवधानाभावस्यैव तत्संयोगात्मकत्वात् । तच्छब्देन परमाणु परामर्शः । एतदपि कुतः ? इत्याह-पारि
मण्डल्यम् इत्यादि।
५ ननु सर्वस्याभावस्य अंगुणात्मकत्वात् संयोगस्य च गुणात्मकत्वात् [४६६क] कथमुच्यते 'व्यवधानाभावस्यैव संयोगात्मकत्वात्' इति चेत् ; न; अव्यवहिताडगुलिद्वयव्यतिरेकेण तेदप्रतीतेः, व्यवधानाभावे एव संयोग इत्यभिधानप्रवर्त्तनात् ।
किंच, अवयवेभ्योऽवयविन इव संयोगिभ्योऽस्याऽभेदे एकाकर्षणे पादाद्याकर्षणवत् (णं स्यात् ) । एवं सति अवयविनो वैयर्थ्यम् , तत्प्रयोजनस्य अत एव सिद्धे रिति चेत् ; अयमपरोऽस्य १० दोषोऽस्तु । तेस्यापि प्रतिभासनात् नैवं चेत् ; न ; घटाद्यवयवेष्वभिन्नपदार्थद्वय[प्र]तिभासविरहात् । एको हि अवयवरूपाद्यात्मकः प्रतीयते, स संयोगः अवयवी वा भवतु । संयोगस्य अवयवित्वे अनेकमस्राणि (मणि) समूहोऽवयवी भवेत् इति, निरन्तरब्राह्मणचाण्डालसमूहो वा इति चेत् ; अयमपि तस्यैव दोषोऽस्तु येन तेभ्योऽभिन्न एकः संयोग इष्यते नाऽस्माकं तेषां
व्यवधानाभावं संयोगमिच्छताम् । तन्न एतेभ्योऽभिन्नः स इति चेत् ; उक्तमत्र समवायनिषे१५ धात् , सम्बन्धाऽसिद्धिरिति ।
तेभ्य उत्पत्तेः स तेषामिति चेत् ; अत्रेदं विचार्यते-निरन्तराः सन्तः ते तं जनयन्ति, अन्यथा वा ? प्रथमपक्षे अवयविनमेव ते जनयन्तु किं संयोगजननेन परम्परापरिश्रमकारणात् । तथा दृष्टेरदोषश्चेत् ; स्याददोषः यदि तथादर्शनं न भवेत् , न चैवम् , नहि ते पूर्व संयोग पुनः
अवयविनं जनयन्तः प्रतीयन्ते । आशुवृत्तेस्तथाप्रतीतिरिति चेत् ; युगपद् द्वयप्रतीतौ इदमुत्तरं २० स्यात् , न चास्ति, अन्यथा संयोगमपि परं तमुत्पाद्य जनयन्तीति प्राप्तम् । [४६६ख] द्वितीयेऽपि
दूरस्थिताः तमुपजनयन्तु तत्रापि तन्निमित्तक्रियाभावात् । तत[:]स्थितम्-व्यवधानस्यैव इत्यादि ।
अपरे आहुः-नास्माभिः ज्ञानस्य अन्यस्य वा परमाणवः कारणमिष्यन्ते स्वयं तन्निषेधात् , तन्नि (तन्न) युक्तम्-'किं पुनः' इत्यादि ; तत्राह-क्षणवदित्यादि । क्षणवत् इति सामान्ये२५ न वचनेऽपि ज्ञानक्षण [ए]व इह गृह्यते, तस्यैव परेण परमार्थेनाभ्युपगमात् क्षणस्य इव तद्वत्,
न वै कस्यचित् कैश्चित् नैरन्तर्येऽपि सांशत्वम् । किं कुर्वतः क्षणस्य ? इत्याह-अनुभवतः । किम् ? इत्याह-नैरन्तयम् । केन ? इत्याह-स्वकार्यकारणक्षणाभ्याम् । स्वशब्देन दृष्टान्तीकृतो मध्यक्षणो गृह्यते, तस्य कार्यक्षण उत्तर उपादेयक्षणः कारणक्षणः उपादानक्षणः, ताभ्याम् । कुतः
तदनुभवतः ? इत्याह-स्वत एव न संयोगादेः इत्यर्थः। एतदपि कुतः ? इत्यत्राह-काल ३० इत्यादि । कालप्रचयभेदः ज्ञानसन्ताननानात्वम् तस्य उपलक्षणात् । अस्यानभ्युपगमे दूषण
(१) गुणरहितत्वात् । (२) संयोगस्याप्रतीतेः । (३) संयोगस्य । (४) एकाङ्गुल्याकर्षणे । (५) अवयवविनोऽपि । (६) परमाणवः । (७) संयोगम् । (८) 'न' इति निरर्थकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org