________________
५९७
९।२]
शब्दस्य पौद्गलिकत्वम् *"अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे । उक्तास्ते सञ्चिताः ते हि निमित्तं ज्ञानजन्मनः ॥ अणूनां स विशेषत्वा (पश्च)नान्तरेण (णाऽ)परानणून् ।"
[प्र० वा० २।१९५-९६] इत्यभिधानात् । [४६५क] ते चासंसर्गिणः संसर्गरहिता एव । किं पुनर्नैव पृथक् ? पृथका(पृथग् व्य)वस्थिताः- ५ तद्रहिताः, सञ्चितास्तु संसर्गिणः ; अन्यथा स्तम्भादौ अधो मध्योर्ध्वतिर्यग्भागादिषु अविच्छिन्ना प्रतिपत्तिरिति नैयायिकं प्रति एतद् दूषणमसङ्गतम्-*"अविच्छिन्ना न भासेत ततस्तत्संवि(संवि)त्तिः क्रमग्रहे ।" [प्र० वा० २।२५६] इति तत्संवित्तिः ।
___ ननु च रूपादिग्रहणे सहैव सुखादिग्रहणमुपलभ्यते इति चेत् ; स्तम्भादौ भागप्रतिपत्तिरविच्छिन्ना तथैव उपलभ्यते इति समानम् ।
अपरः प्राह-नाविच्छेदप्रतिभासनात्तेषाम् अविच्छेद[स्य]सिद्धिः, तदभावेऽपि दूरस्थितविरलकेशादौ तत्प्रतिभासनादिति ; तस्यापि तेषां तथा]प्रतिभासने यदवभासते अविच्छिन्नं रूपं न तत्तेषाम् , यन्नावभासते विच्छिन्नं तत्तेषामिति प्राप्तम् । तथा च संवेदने प्रतिभासमानं स्ववेदनं तद्र पं न भवेत् । तदभावे तदभाव इति चेत् ; कुत एतत् ? तद्र पत्वात्तस्य इति चेत् ; तदपि कुतः ? तथावभासनात ; अन्यत्र समानम् , अबाधनं च । न चैकत्र तदभावेऽपि तत्प्रतिभास- १५ दर्शनात् सर्वत्र तथा कल्पनम् ; अतिप्रसङ्गात् । परमाणवो नावभासन्ते इति चेत् ; कुतो ग्राह्याः ? ज्ञानकारणत्वात् ; चक्षुरादौ प्रसङ्गः । स्वाकारसमर्पणात् ; ज्ञानात्मनि तदाकारोऽन्योऽन्यविच्छिन्नः, तस्यैव समर्पणमिति स एव दोषः । 'नीलतादिमात्रसमर्पणे ; सांशता इति न पूर्वपक्षाद्विशेषः ।
किंच, तेषामप्रतिभासने [४६५ख] किं कल्पनेन ? नीलादिज्ञानं तु अन्यत एव रूपादि- २० रूपाद्वाह्यतः स्यात् । ते स्वयमविच्छेदविकलाः अविच्छिन्नं ज्ञानं जनयन्ति नान्यद् अरू पादिस्वभावं रूपाद्याकारं ज्ञानमिति किं कृतमेतत् ? तस्मात् परमाणूनामभ्युपगमे तत्प्रतिभासोऽभ्युपगन्तव्यः । स च अविच्छिन्न इति तेऽपि तथेति साधूक्तम्-'किंपुनरसंसर्गिण एव' इति ।
दूषणान्तरमभिधातुं पूर्वपक्षमुत्थापयति-स्युरिति भवेयुः 'असंसर्गिणः' इत्यत्र वर्त्तते । उत्तरम्-कथम् इत्यादि । तेषां सञ्चितपरमाणूनां व्यवधानं विजातीयावस्थानम (याव्यवधानम् २५ अन्तराले तस्याऽभावात् । एतदपि कुतः ? इत्याह-प्रकृत इत्यादि । प्रकृतो विकल्पो व्यवधायकव्यवधीयमानयोः संसर्गोऽसंसर्गो वा तस्याऽनतिवृत्तिः(त्तेः) "एकत्र प्रतिज्ञाहानिः, "अन्यत्र अनवस्था-पुनरपि अपरापर व्यवधानकल्पनात् । यदि वा, प्रकृतो विकल्पः 'सर्वथा अन्यथा' इति तस्यानतिवृत्तः व्यवधानेऽपि । भवतु तेषां व्यवधानाभावः, ननु प्रसङ्गः षडंशतापत्तेरिति
(१) बौद्धेनोक्तम् । (२) अविच्छेदाभावेऽपि । (३) "यथा विरलदेशस्था अपि केशमशकमक्षिकादयः एकघनाकारं प्रत्ययमुपजनयन्ति ।"-प्र. वार्तिकाल. पृ० ९४ (४) परमाणूनाम् । (५) संवेदनाभावः। (६) इति चेत् । (७) इति चेत् ।। (८) यद्यपि नीलता जडता च स्तः, तथापि केवलं नीलताया ज्ञाने समर्पणम् । (९) परमाणवः । (१०) संसर्गस्वीकारे । (११) असंसर्गपक्षे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org