________________
सिद्धिविनिश्चयटीकायाम्
[९ शब्दसिद्धिः विशेषे(षो)वर्णादिभेद आत्मा यस्य स तथोक्तः । अनेन तद्व्यतिरिक्तः स्फोटात्मा निरस्तः । कुतः ? इत्याह-अभिलापः स एव यतोऽभिलप्यतेऽनेन इति । क ? इत्याह-स्वार्थगोचरे सामान्यविशेषात्मके वस्तुनि व्यञ्जनपर्याये वा ।
_ 'शब्दः पुद्गलपर्यायः' इत्यत्र साध्य (ध्ये) सूरेमनसि 'मूर्त्तित्त्वात्' इति हेतुर्वर्त्तते । निदर्शन५ मुक्त मेव । तस्य परमाणुभिर्व्यभिचारः, न हि ते मूर्त्तित्वेऽपि तत्पर्यायाः ततः परस्य सूक्ष्मस्य तस्यै अभावादिति । तं परिहरन्नाह-अणवः इत्यादि । कुतः ? इत्यत्राह-[पुद्गल]परिणामविशेषात् । पुद्गलस्य परिणामोऽन्यथाभावः, स एव विशेषः स्थूलैकस्य सूक्ष्मनानारूपभेदः, सूक्ष्मनानारूपस्य वा स्थूलैकरूपभेदश्च तस्मात् । तदपि कुतः ? इत्याह-भेद इत्यादि । भेदो
नानात्वम् संसर्गः एकत्वपरिणामः तयोः प्रतीतेः । एतदुक्तं भवति-यथा अनेकस्मात् अल्प१० परिमाणात् संसृष्टाद् एक(क) महत्त्वोपेतं जायमानं प्रागस[त् ] दृष्टमिति तत्कार्यम् , तथा
एकस्मात् महत्त्वोपेतात् तद्विपरीतं प्रागसत् कपालादि दृष्टम् तत्कार्यमस्तु अविशेषात् । अथ कपालादीनां प्रागपि भावात् न तत्कार्यता'; साङ्ख्यदर्शनमायातम् , घटादेरपि तथा भावप्रसङ्गात्। अदर्शनान्नैवं चेत् ; तदन्यत्र समानम् । तन्तवः [४६४ख] पटे दृश्यन्ते इति चेत् ; न ; तदा
पटस्यैव (वाs)भावात् , अन्यथा (थाऽसौ गतः) सौगतशासनम् । ततोऽन्य इति चेत् ; न ; १५ अस्य पक्षस्य निषेधात् ।
किंच, यदि घटकाले ततो भिन्नानि कपालानि सन्ति, तेषां तेन सह उत्पत्तेर्न समवायिकारणत्वम् अन्योऽन्यमिव । तेषां प्रागपि भावान्नेति चेत् ; तथा घटस्यापि प्राग(ग्)भावोऽस्तु । प्रमाणबाधकमु (नम् उ) भयत्र । अनुमानात् तत्साधनान्न तद्बाधनम् ; पटोऽपि महाकारणपूर्वकः
घटवत्किन्नेष्यते ? तंत्र स्थूलस्य अत्रे सूक्ष्मस्यादर्शनम् । तन्तूनां वैयर्थ्यं स्यादिति चेत् ; अत्र २० मृत्पिण्डस्य इति समानम् ।
ननु मृत्पिण्डस्य घटकारणत्वे तत्र स्थितस्य घटस्य उपलब्धिः तन्तुस्थितपटवत्" इति चेत् ; न ; कार्याकारण (कारण) परिणतस्य उपादानत्वोपगमात् । तन्तवोऽपि पटीभवन्ति । ततो यथा बहूनां संसर्गादेकं" तथा तस्य विश्लेषादनेकमिति कथन्न परमाणवः तत्पर्यायाः ?
__ अत्राह सौगतः-कथमित्यादि ? तमाचार्यः पृच्छति-क (कथं) च न स्यात् इति । स २५ उत्तरमाह-सर्वथा इत्यादि । अन्य न (अन्येन) कथञ्चित् सम्बन्धस्य प्रकारेण निरंशांनां परमा
णूनां दिग्भागभेदेन प्रत्येकं षडंशतापत्तेः कथं संसर्गः१ परिहारोऽत्र-किं पुनः असंसर्गिण एव इत्यभिप्रायः । एवं संसर्ग दूषयताऽपि तेन बहिरर्थमभ्युपगच्छता बहीरूपादिपरमाणवोऽभ्युपगता एव
(१) तद्विशेषात्मा । (२) परमाणवः। (३) पुद्गलस्याभावात् यस्य ते पर्यायाः स्युः। (४) अनेकमल्पपरिमाणोपेतञ्च । (५) इति चेत्।। (६) वादी । (७) अवयवावयविभेदपक्षस्य । (6) पटे । (९) घटे । (१०) स्यात् । (११) जायते । (१२) "षटकेन युगपद्योगात् परमाणोः षडंशता । षण्णां समान. देशत्वात् पिण्डः स्यादणुमात्रकः ॥"-विज्ञविशिका पृ०७। चतुःशत० पृ० ४८ तत्त्वसं० पृ. २०३।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org