________________
९।२ ]
शब्दस्य पौगलिकत्वम्
५९५
अपर आहे - तीव्रत्वमन्दत्वजातिसम्बन्धात् तत्प्रत्ययविषयत्वं ते (यते ) ति ; सर्वत्र तथा प्रसङ्गेन स्पर्शाभावप्रसङ्गात् ।
शब्दसहचरितस्य वायोः तद्विषयता' इत्येके ; तेषामपि वाद्य (वाय्व) सहचरितस्यै अन्यस्यै तद्विषयता इत्येवमनवस्था[४६३ख] ।
स्यान्मतम्-असर्वगतद्रव्यपरिमाणं मूर्त्तिः न स्पर्शवत्त्वम्, अन्यथा मनसोऽमूर्त्तत्वं स्यात् ५ तदभावादिति ; तन्न ; शब्देऽप्यस्य भावा [त् ] स्पर्शवत्त्वा [त् ] द्रव्यत्वमसर्वगतत्वं केचास्य (त्वं च केनास्य) वार्यते ? परिमाणं दीर्घादिप्रतीतिविषयत्वात् सुप्रसिद्धमेव ।
किंच, तल्लक्षणम् अतिप्रसङ्गि ; तस्य आत्मन्यपि भावात् सर्वगतत्व निषेधात्तत्र । ततः सिद्धम् मूर्त्तत्वम् । अस्मदादिप्रत्यक्षत्वम् अविप्रतिपत्तिविषयम् ।
नापि 'साव[यव]त्वात्' इत्यसिद्धम् ; सावयवो ध्वनिः अल्प महत्त्वग्रहणग्राह्यत्वात् १० स्तम्भादिवत् । अथ व्यङ्ग्ये व्यञ्जकधर्मारोपात् तद्ग्रहणग्राह्यता न स्वतः, मुखस्येव दर्पणादौ इति चेत् ; स्यादेतदेवम्-यदि एकरूपः सर्वदा शब्दः कुतश्चित् स्यात् । न च दृष्टान्तमात्रात् साध्यं सिध्यति, अतिप्रसङ्गात् । अतः स्कन्धः शब्दः ।
,
"
नन्वेवं लोष्टादिनेव शरीरावयवादिघातैः (घातः) तेनं, तद्वत्तस्यें नियतदेशगमनम् एकत्र कर्ण (र्णे) प्रविष्टस्य "तदन्तराऽगमनम् वायुनाभिहतस्य लोकान्तप्रसर्पणम्, इन्द्रियान्तरेण च १५ दर्शनम्' इति चेत् ; अत्राह - छाया इत्यादि । आदिशब्देन अन्धकारादिपरिग्रहः, न तुल्यं वर्त्तते इति तद्वत् इति । यथा अत्रे न ते दोषाः तथा शब्देऽपि इति दृष्टान्तार्थः । नहि अन्धकारस्य स्कन्धेऽपि स्पर्शादिना ग्रहणम् ।
geg
अपौरुषेयः शब्दो गकारादिः इत्येके । तत्राह - बुद्धि इत्यादि । बुद्धेः कार्यं तदन्वयव्यतिरेकानुविधानात् । न हि यद् यस्य अन्वयव्यतिरेकावनुविधत्ते [ ४६४ ] तद् अन्यहेतुक - २० महेतुकं वा युक्तमतिप्रसङ्गात् । तदभिव्यक्तिः तावनुविधत्ते इति चेत्; न; अनवस्थाप्रसङ्गात्, तत्रान्यस्य तदनुविधानकल्पनात् । कृतप्रतिक्रियश्चायं पक्षः अन्यत्र । स एव
8
1
(१) "अनित्यः शब्दः तीव्रमन्दविषयत्वात् सुखदुःखवदिति । " - न्यायवा० पृ० २९० । (२) तीव्रादिप्रत्ययविषयता । तुलना - "नादवृद्धिः परा । १७ । यच्चैवं बहुभिर्भेरीमाध्नद्भिः गोशब्दमुच्चारयद्भिः महान् शब्द उपलभ्यते, तेन प्रतिपुरुषं शब्दावयवप्रचय इति गम्यते; नैवम्; निरवयवो हि शब्दः अवयवभेदानवगमात् । निरवयवत्वाच्च महत्वानुपपत्तिः । अतो न वर्धते । तेन नादस्यैषा वृद्धिः न शब्दस्येति । " - जैमिनिसू० शाबरभा० १|१|१७ | ( ३ ) शब्दस्य । ( ४ ) कस्यचित् अदृष्टस्य । (५) " असर्वगतद्रव्यपरिमाणं मूर्तिरिति हि पदार्थविदः । " - तत्त्वबि० पृ० १५८ । (६) मूर्तत्वलक्षणम् । (७) अल्पत्वमहस्वग्रहण । ( ८ ) " न च स्थूलत्वसूक्ष्मत्वे लक्ष्येते शब्दवृत्तिनी । बुद्धितीब्रत्वमन्दत्वे महत्वाल्पत्वकल्पना । सा च पदवी भवत्येव महातेजःप्रकाशिते । मन्दप्रकाशिते मन्दा घटादावपि सर्वदा । एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम् ।" - मी० श्लो०, शब्दनि० पृ० ७८५ । (९) शब्देन । (१०) शब्दस्य । (११) कर्णान्तर । ( १२ ) स्यात् । (१३) तुलना - " पुद्गलस्वभावत्वे दर्शनविस्तारविक्षेपप्रतिघातकर्णपूरणैकश्रोत्रप्रवेशाद्युपालम्भो गन्धपरमाणुकृतप्रतिविधानतयोपेक्षामर्हति । " - अष्टश०, अष्टस० पृ० १०८ । (१४) छायायाः पुद्गलरूपत्वेऽपि । (१५) मीमांसकाः । (१६) शब्दाभिव्यक्तिवादपक्षः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org