________________
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
अणवः पुद्गलपरिणामविशेषात् भेदसंसर्गप्रतीतेः । कथम् ? कथं च न स्यात् ? सर्वथा निरंशानां दिग्भागभेदेन प्रत्येकं षडंशतापत्तेः कथं संसर्गः ९ किं पुनरसंसर्गिण एव पृथक् स्युः ? कथं तेषां व्यवधानम् प्रकृत विकल्पानतिवृत्तः ? स्वकार्यकारणक्षणाभ्यां स्वत एव नैरन्तर्यमनुभवतः कालप्रचयभेदोपलक्षणात् न वै क्षणवत् कस्यचित् कैश्चिन्नैर५ न्तर्येऽपि सांशत्वम्, व्यवधानाभावस्यैव तत्संयोगात्मकत्वात् । अन्यथा कार्यकारणव्यवथैव मा भूत् । वस्तुस्वभावतः तद्व्यवस्थायां कुतः संयोगप्रबन्धः ? तत्संयुक्तानामविशेषप्रसङ्गात् । स्वत एव प्रदेशमात्रस्य व्यवधायक तोपपत्तेः ; अनंशस्यापि स्वभावभेदात् ग्राह्या[द्याकारसं वेदनवत्] तदिमे नहि प्रतिषिद्धं च । तथापरिणामस्यैव तद्गुणत्वसंभवात् । कथञ्च अत्यन्तपरोक्षस्य गुणः प्रत्यक्षः १ परिमण्डलानां तादा१० त्म्यपरिणामोपपत्तेः । वायोरपि [ प्रत्यक्षत्वात् ] असमानम् । तदिमे चैतन्यविशेष [ कार्याः ] वर्ण[पदादिरूपाः] कथञ्चित् अर्थसंसर्गयोग्यतां प्रतिपद्य व्यवहारपदवीमुपनीयन्ते नान्यथा शब्दान्तरवत् । ]
शब्दः श्रवणेन्द्रियगोचरो भावः । सत्तापि स्यादिति चेत्; किं पुनः स ततो भिन्ना येन एवं न स्यात् ? तथा चेत् ; असन् शब्दः । तत्सम्बन्धात् सन् इति चेत्; उक्तमत्रं । तस्य ततोऽभेदे १५ स एव सद्भ (सन् भवेत् इति चेत्; अत्राप्युक्तम् । कथञ्चित् तत्समानपरिणामस्यन्
भावात् । एतेन गुणत्व (त्वं) चिन्तितम् । न च गुणः शब्द: । स किम् ? इत्याह- पुद्गलपर्यायः । रूपादिमन्तः पुनः पुद्गलाः, तेषां पर्यायो विकारः, न तत्पर्यायाः पुद्गलाः इतरथा शब्दानुगतस्य चक्षुरादिना घटादेर्ग्रहणं भवेत्, सद्रूपानुगतस्य इव ।
ननु यदि परमाणुरूपपुद्गलपर्याय: ; तद्गतश्यामत्वादिवत् तर्हि तस्यै अस्मदादीन्द्रियेण २० अग्रहणं स्यादिति चेत्; अत्राह - स्कन्ध इति । स्कन्धः अवयविद्रव्यम् । स्कन्धः शब्दः मूर्त्तत्वे अस्मदादिप्रत्यक्षत्वे सति सावयवत्वात् पटादिवत् । सः मूर्त्तः स्पर्शवत्त्वात् तद्वत् । स्पर्शवत्त्वं चा मृदुखरादिप्रत्ययप्राह्यत्वात्तद्वदेव । न चैतदसिद्धम् ; सर्वलोकप्रसिद्धः । तथाहि - वीणादिशब्दात् जयघण्टादिशब्दं खरं निगदन्ति जनाः । तथापि तदसिद्धौ न किञ्चत् सिद्धं स्यात् । कर्णाभिघातदृष्टेश्च " तत्सिद्धिः ।
५९४
(१) सत्ता । (२) शब्दात् । (३) समवायस्य सर्वत्राविशेषात् इत्यादि । (४) शब्दस्य पर्यायाः पुद्गलाः । (५) शब्दब्रह्मवादिवत् पुद्गलस्य शब्दपर्यायत्वे । (६) शब्दस्य । (७) तुलना - " सद्दो खंदप्पभवो खंदो परमाणु संघसंघादो । पुट्ठेसु तेसु जायदि सद्दो उप्पादगो णिअदो ||" - पञ्चास्ति० गा० ७९ । “पुद्गलस्कन्धस्यैकद्रव्यस्य शब्दाश्रयत्वोपपपत्तेः सिद्धसाधनत्वात् ।" - त० इलो० पृ० ४२२ । न्यायकुमु० पृ० २४२ । सम्मति० टी० पृ० ६७० । “पौगलिकः शब्दः अस्मदादिप्रत्यक्षत्वे अचेतनत्वे च सति क्रियावत्त्वात् बाणादिवत् । " - प्रमेयक० पृ० ५६३ । (८) तुलना - " द्रव्यं शब्दः स्पर्शाल्पत्व महत्वपरिमाणसंख्यासंयोगगुणाश्रयत्वात् ।”–प्रमेयक० पृ० ५५० । न्यायकुमु० पृ० २४३ । (९) शब्दस्य । तुलना - "कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोर्भवनाद्युपघातिनः शब्दस्य प्रसिद्धिरस्पर्शत्वकल्पनामस्तं गमयति । " - अष्टश० - अष्टस० पृ० १०७ । " स्पर्शवान् शब्दः स्वसम्बद्धार्थान्तराभिघातहेतुत्वात् मुद्गरादिवत् । सुप्रतीतो हि कं सपाप्यादिध्वानाभिसम्बन्धेन श्रोत्राद्यभिघातः । " - प्रमेयक० पृ० ५५० । न्यायकुमु० पृ० २४३ । (१०) स्पर्शवत्त्व सिद्धिः ।
Jain Education International
.
For Personal & Private Use Only
www.jainelibrary.org