________________
९/२ ]
शब्दस्य पौद्गलिकत्वम्
५९३
ननु सामान्यवदने भेदवेदनम्, अन्यथा सामान्यस्यापि कुतोऽतादात्म्येनं, उभयात्मकं तत्त्वमिति, न तत्रै काङ्क्षणम् । तादात्म्योऽपि प्रथमं सामान्यस्यैव कुत इव (एव) शब्दात् स्यात् इति चेत् ; अत्राह - अक्षादिव । क ? स्वार्थे रूपादौ । यथैत्र हि दूरे अक्षात् मनुष्यत्वादिसामान्यप्रतीतिः, पुनः तद्भिदा काङ्क्षणम्, पुनरपि देशनैकट्यादिसामग्रीवशात् तद्भेदावाय: । तदुक्तमत्रैव *"समदृष्टेर्विशेषेहा” [ सिद्धिवि० २।९] इत्यादिना । तथा शब्दातु (तू) प्रथमं सामान्यप्र- ५ तीतिः पुनः तद्भेदाकाङ्क्षणम् ततोऽपि सङ्केतसामग्रीतो भेदनिश्चयौ (यो) नैतावता शब्दः स्वतोऽशक्तः; अक्षेऽपि प्रसङ्गात् । यथा च शब्दात् स्वार्थसन्देहः तथा अक्षादपि । कारणस्य रूपवत् सामर्थ्यप्रतिपत्तावपि तत्र सन्देहदर्शनात् । अथ तत्र ज्ञानान्तरं सन्देहरूपम्, अन्यत्रापि तदेव । नहि घटाभिधानादेव चटो (घटोऽस्ति ) नास्तीति वा सन्देहो जायमानो जनेन विभाव्यते, ततोऽप्रवृत्तिप्रसङ्गात् । अथ शब्दादर्थप्रतीता वत् सुतोपि (तीतौ तत एव ) कुतः सन्देहः ? स्वसंवेदनात् १० दानादिचेतसां स्वर्गप्रापणसामर्थ्यप्रतीतौ ततोऽपि [ ४६२ख ] स कुतः । अथ तद्भावाभावयोः तत्प्रतीते [:] साधारणत्वात् स इति मतिरि तत्र (तिः ; इतरत्र ) समानम् । तथा सति कथं शब्दो - sर्थविषय:' इर्ति अनेन निरस्तम् । निर्विकल्पिका तत्प्रतीतिस्ततोऽयमदोष:'; चेतनत्वादपि (त्वादावपि) स्यात् । " तत्र निर्णयोत्पत्तेर्नेति चेत्; "यस्य रूपसुखादौ निर्णयरूपं मानसमध्यक्षं तस्य तत्सामर्थ्येऽपि दुर्लभः संशयः । इतरथा शब्दार्थेऽपि स तथा न भवेत् । " यस्यापि मानसो [s] १५ विकल्पो[s]निश्चयः, तेन तस्य स्वलक्षणग्रहणात्, अविकल्पेन गृहीतस्य अगृहीतकल्पत्वात्
I
9
" तथा । यथा शब्दा (ब्दोऽ) वस्तुविषयः सन्देहहेतुत्वात् तथा प्रत्यक्षमपि परस्य । क्षत् सामान्यग्रहणात् विशेषाकाङ्क्षणे विशेषाऽवायकारणाभावे यथा संशीतिः तथा शब्दादपि इति स्थितम् ।
-
स्यादेतत्-भाषान्तरे संकीर्त्तित (सङ्केतितत") एव शब्दात् सामान्यं प्रतिपद्यते [न] अकृतसङ्केतात्, ततः सङ्केत एव पारम्पर्येण तद्धेतुरिति ; तर्हि इन्द्रियादपि पूर्वं प्रतिपन्नसामान्य एव' – २० ततः पुनः सामान्यं प्रत्येति इति । तदेवेन्द्रियमन्यदापि तद्ग्रहणकारणम् । अत्य (अन्य ) त्वमन्यत्रापि इति यत्किञ्चिदेतत् ।
नमु ( ननु ) निःप्रयोजनशब्दस्वरूपपरीक्षणेन किम् ? लोकत एक (एव) तत्स्वरूपसिद्धेः : ; इत्यत्राह - निःश्रेयसाधिगतेः इत्यादि ।
किमाह इति चेत् ? अत्राह - शब्द [ ४६३क] इत्यादि ।
["शब्दः पुद्गलपर्यायः स्कन्धः छायातपादिवत् । बुद्धिकार्यो विशेषात्माभिलापः स्वार्थगोचरे ॥२॥
(१) वेदनमिति । (२) विशेषे । (३) वेदनम् । (४) भित् भिदा भेद इति यावत् । (५) सामर्थ्य ज्ञापकं ज्ञानम् । (६) शब्दान्तरं यत् सन्देहं करोति । (७) सन्देहः । (८) मतम् । ( ९ ) सन्देहाभावलक्षणो न दोषः । (१०) चेतनत्वादौ । ( ११ ) मीमांसकस्य । ( १२ ) बौद्धस्य । (१३) सन्देहाभावः स्यात् । ( १४ ) बौद्धस्य । (१५) सङ्केतितात् इत्यर्थः । (१६) पुरुषः । ( १७ ) " तथा चाहुर कलङ्कदेवाः-शब्दः पुङ्गलपर्यायः स्कन्धः छायातपादिवत् । " - त० इलो० पृ० ४२४ ।
७५
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org