________________
५९२
सिद्धिविनिश्चयटीकायाम् [९ शब्दसिद्धिः इत्येवेत (मशक्य इति एकन)भाव्यमिति' ; तदपि न सूक्तम् ; यतस्तदपि एकमनभिव्यक्तं चेदत्र प्रतीतिहेतुः ; सर्वदा स्यात् इति घकारााच्चारणमनर्थकम् । अभिव्यक्तं चेत् ; यद्यन्येनं स; एव दोषः धकारादिवैफल्यमिति । घकारादिभिरिति चेत् ; तर्हि यया प्रत्यासत्त्या एकंप्रका (एक) प्रकाशयन्ति वाचकम् , तया अर्थम् इति किमपरेण ? न च नित्यस्य कस्यचिद्वस्तुत्वमिति निरूप५ यिष्यतेऽनन्तरम् ।
किंच, एवं परम्परापरिश्रमश्च धकारादिभ्यो वाचकस्याभिव्यक्तिः, ततोऽर्थप्रतिपत्तिः 'तेभ्योऽर्थगतौ न स्यात् । अनेकप्रतीतिप्रसङ्गश्च-पूर्वं व्यञ्जकस्य पुनर्व्यङ्ग यस्य॑ [४६१ख] पुनरर्थस्य । न चैवं व्यवहारः, तथापि तत्कल्पने धूमादेरन्यः प्रतीयते ततोऽग्निरिति स्यात् । एवं प्रत्यक्षेऽपि वाच्यम् । ततः तद्भेदोऽभिलापः स्वतः । तदाह-स्वतः अव्यवधानेन । १. ननु तद्भेदेन किञ्चिदभिलप्यते ? न तावत् सामान्यम् ; तदभावात् , प्रयोजनाभावाच्च ।
नहि सामान्यं वाद (ह) दोहादावुपयुज्यते, विशेषाणामेव तत्रोपयोगात् 'लक्षितलक्षणया प्रवृत्तिः' इति न युक्तम् ; तया (तथा) सामान्यप्रतीतौ स एव प्रसङ्गः" । विशेषगतो, सात्तद्भवतिरस्तु (सा तैरस्तु), न चैवम् , अक्षसंहतेर्वैफल्यप्रसङ्गात् । ततः तद्भेदोऽनर्थक इति चेत् ; अत्राह-सिद्धार्थ
मति (इति)। सिद्धोऽर्थो यस्य स तथोक्तः तदभेदः। तथाहि-यथा चक्षुरादिव्यापारात् १५ अथ (थ) प्रतिपत्तिः प्रवृत्तिः प्राप्तिश्च, तथा शब्दादपि इति, निरूपयिष्यते शेषमत्रैव ।
__ अथ मतम्-प्रतिबन्धाऽभावात् कथमसौ अभिलापः२ ? तथाहि-न शब्दार्थयोः देशभेदात तादात्म्यरूपः प्रतिबन्धः। अर्थाभावेऽपि भावात् न तदुत्पत्तिः । न च तदन्तरमस्ति इति; तत्राह-स्वतः सिद्धार्थ इति । स्वतः स्वयोग्यतातः सिद्धार्थो नान्यतः । कुतः ? इत्यत्राह
यमुपेत्य इत्यादि । यं तद्भेदमुपेत्य श्रवणविषयतां नीत्वा वक्ति ब्रूते । कः ? इत्याह२० जनकभूता(जनः । किम्भूतः ?) असङ्कीर्तितः सङ्केतरहितः । पुनरपि किंभूतः ? सामान्य
वेदी 'यमुपेत्य' इत्येतदत्राप्यपेक्ष्यम् , शब्दं श्रुत्वा तद्वेदी इत्यर्थः । सामान्याभावात् नैव (व) चेत् ; न ; वस्तुपु[४६२क]समानपरिणामव्यवस्थापनात् । किं वक्ति ? इत्याह । किमयमाह इति.। अयं वक्ता 'किमाह' इत्येवम् । यदि प्रथमं शब्दश्रवणात् सामान्यं तेन विदितं किमर्थमेवं
ब्रूते ? नहि नीले स्वरूपेण ज्ञाते 'किमेतत्' इति तद्र पे प्रश्नो युक्तः इति चेत् ; अत्राह-भेद २५ इत्यादि । तस्य सामान्यस्य भेदोऽवान्तरविशेषः तस्य काणम् ग्रहीतुमीहा तत्र मनो
यस्य इति ।
(१) स्फोटेन । (२)"वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसङ्गात् । आनर्थक्ये तु प्रत्येकमुत्पत्तिपक्षे योगपद्येनात्पत्यभावात् । अभिव्यक्तिपक्षे तु क्रमेणैवाभिव्यक्त्या समुदायाभावात् । एकस्मृत्युपारूढानां वाचकवे सरो रस इत्यादौ अर्थप्रतिपत्यविशेषप्रसङ्गात्, तद्व्यतिरिक्तः स्फोटो नादाभिव्यङ्ग्यो वाचकः ।"-पा० महाभा० प्र० पृ० १६ । स्फोट० न्या० पृ० २। सर्वद० पृ. २९९। (३) अभिव्यक्तं भवति तथा । (४) स्फोटम् । (५) स्फोटस्य । (६) घकारादिभ्यः । (७) ध्वनेः ।(6) स्फोटस्य । (९) कश्चित् अग्निस्फोटः ।(१०) शब्देन लक्षितं सामान्यम् , तेन लक्ष्यते विशेष इति लक्षितलक्षणा । (११) प्रयोजनाभावादिरूपः । (१२) वाचकः । (१३) सम्बन्धान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org