________________
९।१]
पुद्गलस्कन्धरूपः शब्दः सहकारिकारणम् ? तदभावे च कार्य न दृष्टमिष्टं वा कस्यचित् । अदृष्टं सहकारिकारणं नोपादानमिति किंकृतो विभागः ?
किंच, ताल्वादीनां तदुपादानत्वे तदुपमर्दः तद्भावे,उपादेयाकारगमनलक्षणत्वाद् उपादानस्य । अथ तद्भागाः केचन अदृश्याः तद्र पतया परिणमन्ते, अपरे च तथाविधास्तत्र प्रविशन्ति, ततो न त्ततापितस्य(१)शब्दानां सर्वदिकं विसर्पणमिति मतिः ; सिद्धं तर्हि नः समीहितम् ५ तद्भागानामेव परमाणुपदे (णुव्यपदे) शात् । कथमेवं [य]वा यदि नाम[अ]दृष्टबीजाः शाल्यकुरः क्तिं त्यादि उ(रे किं स्यात् येन स तदु)पादानो न स्यात् ? अन्यत्र बीजादर्शनादिति चेत् ; पूर्वमदृष्टस्थूलकारणस्य तद्विपरीतहेतुपूर्वकत्वाऽदर्शनात् अन्यत्र समानम् ।
योऽपि मन्यन्ते (ते)-वायवीयः शब्दः इति ; सोऽनुकूलमाचरति, पुद्गलपर्यायाऽनतिक्रमात्, वायोस्तत्परिणामत्वात् । निर्वाते च भूमिगृहादौ करताडनात् कुतः शब्दः ? स्तिमितात्ततः इति १० चेत् ; एतदप्यनुकूलमेव । जातिमूकस्य च प्रमाण वाय (प्राणवायु) सद्भावेऽपि न शब्दः । तद्विशेषकल्पनायां चरं(वरं) परमाणुकल्पनमस्तु दृष्टकल्पनाऽविशेषात् इति ।
प्रत्येकं परिणताः प्रायेण स्युः इति चेत् ; अत्राह-संसर्गादिति । सन्तु ध्वनयः परस्परसंसृष्टपरमाणुपरिणामविशेषाः, [४६१क] वर्णादिस्फोटः तद्व्यङ्गयो नित्यो व्यापकोऽमूर्तः स्यादिति चेत् ; अत्राह-तद्भेद इत्यादि। तेषां श्रुतिगोचरत्वेन परिणतानामणूनां भेदो विशेषः । १५ किंभूतः ? इत्याह-[प्रतिलब्ध इत्यादि] प्रतिलब्धो वर्णपदवाक्यात्मा येन स तथोक्तः । एवं मन्यते न श्रवणेन्द्रियग्राह्याकारादिव्यतिरेकेण ध्वनिः तग्राह्यो वा वर्णस्फोटः प्रतीतिभाक् । एवं पदवाक्ययोर्वाच्यम् ।
ननु न श्रोत्रेन्द्रियाध्यक्षगम्योऽसौ ‘अपि तु अर्थप्रतिपत्त्यन्यथानुपपत्त्या अर्थापत्तिगम्यः इति चेत् ; अत्राह-अभिलाप इति । अभिलप्यते अनेन इत्यभिलापः वाचकः, तभेदो २० वर्णाद्यात्मा, तत एव अर्थप्रतीतिदर्शनात् । तथापि अन्यतः तत्कल्पने अनवस्था, ततोऽप्यन्यतः कल्पनासंभवात् ।
अथ एकपदार्थः बहुभिरयुगपद्भाविभिरस्थिरैर्घकारटकारविसर्जनीयैः प्रतियादयितुमसद्य ।
(१) अप्रत्यक्षीभूतम् । (२) ताल्वादिभागाः । (३)अदृश्याः । (४) "तथा च शिक्षाकाराः आहुः वायुरापद्यते शब्दतामिति"-शाबरभा० ॥१॥२२ । (५) वायोः । (६) जन्मजातमूकस्य । (७) “नानेकावयवं वाक्यं पदं वा स्फोटवादिनाम् । निरस्तभेदं पदतस्वमेतत्.."-स्फोटसि० श्लो. २९-३६ । स्फोटभा० पृ० १॥ स्फोट. न्या० पृ० १। “तत्त्वतस्तु वाक्यमेवाखण्डमयूराण्डकललवदविभागं भिन्नार्थप्रतीतिहेतुभूतं स्फोटाख्यमभ्युपगन्तव्यम् ।"-स्फोटप्र० । "इत्यनवयवः प्रत्यस्तमितवर्णपदविभागो वाक्यस्फोट एव श्रेयान् ।"-स्फोटत० । स्फोटच० । “वर्णाति रक्तो वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति । अत एव स्फुट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः स्फुटति स्फुटीभवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायकः इति स्फोटशब्दार्थ मुभयथा निराहुः ।"-सर्वद० पृ० ३००। वैयाकरणभू० पृ० २९४। परमलघु. पृ० २। (6) स्फोटः । “प्रत्येकमप्रत्यायकत्वात् साहित्याभावात् नियतक्रमभववर्तिनामयोगपद्येन संभूयकारित्वानुपपत्तेः नानावक्तप्रयुक्तेभ्यश्च प्रत्ययादर्शनात् क्रमविपर्यये योगपद्ये च । तस्माद् वर्णव्यतिरेकी वर्णेभ्योऽसंभवन्नर्थप्रत्ययः स्वनिमित्तमुपकल्पयति ।"-स्फोटसि पृ०२८।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org