________________
सिद्धिविनिश्चयटीकायाम्
[ ९ शब्दसिद्धिः
ननु परमाणु- गगनयोः अत्यन्तपरोक्षत्वाऽविशेषे कथं गगनपरिहारेण परमाणुकारणः शब्द (ब्दः) सिध्यतीति चेत्; उत्तरमत्र - 'नचाकारणगुणाः' इत्यादि भविष्यति । माभूदाकाशं तत्कारणम्, तथापि 'परमाणवः तत्कारणम्' इति कुतः सिध्यति ? न तावत् प्रत्यक्षतः ; तेन तदग्रहणात् । तेन गृहीतेषु प्रत्यक्षत इदं भवति - अस्मादिदं जातम्, अग्नेर्धूमवदिति । नाप्य५ नुमानत:; तल्लिङ्गाभावात् । अथ पटवत् स्थूलस्य शब्दस्य ततोऽल्पपरिमाणेन उपादानेन भाव्यमिति तत्सिद्धिरिष्यते ; साऽपि न युक्ता ; स्थूलादपि मृत्पिण्डात् तथाविधघटोत्पत्तिदर्शनात् । कदाचित् स्थूलादपि सूक्ष्मसंभव (वा) विरोधः, जीर्णहेमसूतकवत् ।
स्यान्मतम्—यथा यत्र यद्द्द्दश्यते तथा तत्र तद् भवति, यत्र स्थूलं दृश्यते तत्र तत् यत्रेतरः तत्र इतरदुपादानम् । न च शब्दस्य द्वयोरन्यतरदुपादानमीक्ष्यते । [४६०क] न चानु१० पादानं कार्यमिति अदृश्यकारणसिद्ध्या तत्सिद्धि: ; न ; अदृश्यस्यापि स्थूलत्वाऽविरोधात, तदुत्तरपरिणाम[रूपत्वेऽपि ] तत एव अल्पं कारणमिष्यते । तस्य तत्त्वेऽल्पे यावत् परमाणुरिति ; न; स्थूलादपि तत्प्रतिपादनात् । निरंशपरमाण्वस्थाप्राप्तौ तु किञ्चिद् भावस्य जंवितीति ( भवतीति न प्रमाणमस्ति ।
१५
किंच, सहतकारा (संहतकरा ) भ्यामेव शब्दोदयदर्शनात् तदुपादानः स इति युक्तम् । स्यादेतत्-उपादानोपमर्दने वो (नेन उ ) पादेयसिद्धिरिति शब्दोत्पाद [क] करादर्शनं घटोत्पात्रो (त्पत्तौ ) मृत्पिण्डादृष्टिवदिति ; तदपि न सारम् ; चन्द्रकान्तेन व्यभिचारा [त्] चन्द्रकरसंयोगात्तस्य जलपरिणामेऽपि तावत् (त) एव दर्शनात् ।
अन्ये पुनरेतद् इत्थं परिहरन्ति - न तत्संयोगा तु ( गात् चन्द्रकान्तच्युतिः अपि तु विधकरा (विधुकरी) द्रवन्तीति ; तेषां प्रतिक्षणं कर्पूरादिद्रव्यं स्वल ( न तत् ) परिमाणात् न्यून२० परिमाणं स्यात् । सर्वदिक्षु तद्र पादिगमनात् तत्राऽपरप्रवेशो (शे) अन्यत्रापि स एवाऽस्तु । तन्न
परमाणवः शब्दाः ।
यदि वा, वायवीयाः ते"; तथाहि - नाभिप्रदेशाद् ऊर्ध्वमाक्रामन् वायुः कण्ठादिभिरभिहतः शब्दः इति ।
अत्र प्रतिविधीयते । यत्तावदुक्तम् - नाप्यनुमानतस्तत्प्रतिपत्तिः लिङ्गाभावादिति; तन्न ; १५ चेतनाऽचेतनयोः परिमाणा [प] कर्षस्यातिशयाः क्वचिद् व्यवस्थितात् सा (स्थिताः) तैंत्वा [त् ] तदुत्कर्षस्य अतिशयवत् । यत्र अचेतने सँ व्यवस्थितात्मा स नः परमाणुरिति । न च तस्याऽदर्शनादभावः ; अनुमेये तँद्योगाद् अतिप्रसङ्गात् । न च साध्यविकलता निदर्शनस्य; [४६०ख ] प्रसाधनात् सर्वज्ञस्य । भवन्तु परमाणवः, ते तत्तत्कारणमिति कुतः ? किं तर्हि शब्दस्य उपादानकारणं मूर्त्तस्य ? न चानुपादानं कार्यम् ; अतिप्रसङ्गात् । दण्डभेर्यादिकमिति चेत् ; किं
(१) स्थूल । (२) सुवर्णात् पारदाच्च भस्म सूक्ष्मं भवति । (३) परस्परसंघट्टितहस्ताभ्याम् । (४) चन्द्रकिरणानि । (५) शब्दाः । इति शिक्षाकारा मीमांसकाः । ( ६ ) अतिशयत्वात् । (७) अपकर्षातिशयः । (८) अदर्शनमात्राद् अभावायोगात् । ( ९ ) ज्ञानोत्कर्षातिशयवतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org