________________
५८९
९।१]
पुद्गलस्कन्धरूपः शब्दः [प्रतीतेः इति चेत् ; एवं सति 'स्थूलोऽहम्' इति प्रतीतेः नात्मा शरीराद्भिन्नः स्यात् , कुन्तेभ्यो वा पुरुषाः' 'कुन्ताः प्रविशन्ति' इति प्रतीतेः । सहचरणाद् अत्राऽभेदोपचारश्चेत् ; अन्यत्र बाधकाभावादिति समानम् । हेतुफलयोस्तत्त्वादेव [४५९क] परस्परमभेदोपचारो भवति 'चक्षुषा पश्यति', 'अन्नं वै प्राणाः' इति, किमङ्ग पुनः वाच्यवाचकयोः न भवति ? .
किं च, भिन्नप्रवृत्तिनिमित्तानामेकस्मिन्नधिकरणे प्रवृत्तिः सामानाधिकरण्याच्चाथं (ण्यम्, ५ तच्च अय)गोशब्दयोरस्तीति तयोरेव ऐक्यं युक्तं न गोशब्दार्थयोः तदभावात् । न हि तयोरेकत्वार्थे (त्राथें) प्रवृत्तिः, तदपरस्याऽभावात् । एकविभक्तिकत्वं तदिति चेत् ; घटपटयोः स्यात् घटपटा (घटः पटः) इति प्रतीतेः । तादात्म्यं तदिति चेत् ; तदसिद्धं तयोः, तदेव च साध्यं साधनं च । तस्मादभेदोपचारेण अयं तत्र शब्द[:] प्रवर्तते-अयं मांसपिण्डो गोसंज्ञः, तथा भेदेन च अस्य मांसपिण्डस्य गौरिति संज्ञा । ____ अपरेषां तु परिहारः-'गौः शब्दो यस्य स गोशब्दः' इत्यस्य पदसमुदायस्य लुप्तो (प्ता)ऽन्तरावयवस्र्यं प्रयोगः 'गौः' इति, यथा भीमसेनं इति ; तेषां स न युक्तः । सर्वत्र संज्ञाशब्देषु तथा कल्पनेन 'भीमसेनः' इत्याद्यपि न स्यात् अपि तु 'भीमसेनशब्दः' इत्यादि स्यात् । न चैवम, तथा शाब्दिकानां व्यवहारादर्शनात् । केवलानां पदार्थानां संज्ञिए योजनप्रतीतेः, अन्यथा 'गौः शब्दो यस्य' इत्यन्यपदार्थोऽपि न स्यात् , पृथक् पृथक् केवलयोः सिद्धयोरेव"तद्दर्शनात् चित्रगुः १५ इत्यादिवत् । तन्न शब्दात्मका घटादय इति स्थितम् ।
____ भवतु (न्तु) श्रुतेः गोचरा भावाः शब्दाः, ते तु नित्याः स्युरिति मीमांसकाः"; तत्राहपरिणता इति । श्रुत्यगोचररूपपरिहारेण तद्गोचराकारेण गताः परिणता निरुच्यन्ते [४५९ख] - अन्यथा पूर्ववत् पश्चादपि कुतस्तेषां श्रवणम् ? तदगोचरस्वभावत्वे ताल्वादिव्यापारात् पूर्वमपि चा(पूर्वमिव पश्चादपि अ) श्रवणम् । तद्गोचरस्वभावत्वे सेन्द्रियस्य प्रणिहितमनसः"पूर्वम[पि]श्रव- २० णम् । व्यञ्जकाभावादिति चेत् ; आस्तां तावदेतत् , अन्यत्र विचारणात् , अत्रापि लेशतो विचारयिष्यमाणत्वात् 'तदिमे परमाणवः' इत्यादिना ।
[ग]गनगुणाः शब्दाः इत्यपरे । तत्राह-परमाणवः इति । रूपरसगन्धस्पर्शवन्तोऽतिसूक्ष्माः पुद्गलाः परमाणवः ते श्रुतिगोचरत्वेन परिणताः शब्दाः । .
(१) भिन्नाः स्युः । (२) शब्दे । (३) शब्दसामानाधिकरण्यम् । (४) अयं शब्द-गोशब्दयोः । (५) शब्दयोरेव । (६) गोशब्दगवार्थयोः । (७) स्यात् । (८) शब्दाख्यस्य । (९) भीमसेनः शब्दः संज्ञा यस्य स भीमसेन इत्यत्र 'शब्द' इति शब्दः लुप्यते तथा 'गौः' इत्यत्रापि 'गौः शब्दो यस्य' इति शब्दशब्दस्य लोपो द्रष्टव्यः । (१०) संज्ञावाचकेषु शब्देषु । (११) अन्यपदार्थप्रधानबहुव्रीहिदर्शनात् । (१२) "नित्यस्तु स्यादर्शनस्य परार्थत्वात् । नित्यः शब्दो भवितुमर्हति । कुतः दर्शनस्य परार्थत्वात् । दर्शनमुच्चारणं तत्परार्थं परमर्थं प्रत्याययितुम् । उच्चरितमात्रे हि विनष्टे शब्दे न चान्योऽन्यान् अर्थ प्रत्याययितुं शक्नुयात् , अतो न परार्थमुच्चार्येत । अथ न विनष्टस्ततो बहुश उपलब्धत्वात् अर्थावगम इति युक्तम् ।"-जैमिनिसू०, शाबरभा० १।१८। शास्त्रदी० पृ० ५४०, ५५९, ५६८ । नयवि० पृ० २४२। मी० श्लो० शब्दनि । भादृचि० पृ. २६ । तन्त्ररह० पृ० २६ । बृह० १११११८ (१३) ताल्वादिव्यापारात्पूर्वमपि । (१४) "शब्दोऽम्बरगुणः श्रोत्रग्राह्यः ।"-प्रश० भा० पृ० १४४॥ "आकाशश्च शब्दवानिति, स एव श्रोत्रं तद्गुणश्च शब्दः।"-प्रक० प० न्यायशु० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org