________________
[ नवमः प्रस्तावः ]
[९शब्दसिद्धिः] ननु यदीहानन्तरभावितां वाग्वृत्तिर्व्यभिचरति ; वाचः तर्हि का वार्ता इत्यत्राह-संसगादित्यादि ।
[संसर्गात् परमाणवः परिणता भावाः श्रुतेः गोचराः, तद्भेदः प्रतिलब्धवर्णपदवाक्यात्माऽभिलापः स्वतः। सिद्धार्थो यमुपेत्य वक्ति किमयमाहेत्येसङ्कीर्तितः,
स्वार्थेऽक्षादिव भेदकाङ्क्षणमना सामान्यवेदी जनः ॥१॥ निःश्रेयसाधिगतेः...]
श्रुतेः श्रवणेन्द्रियस्य गोचरा विषया भावाः शब्दा न सर्वे घटादयः । शब्दाः ते मा भूवन तत्परिणामाः स्युः । तदुक्तम्
*"अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥" [वाक्यप० १।१] इति चेत् ; न ; तेषां तदात्मकत्वेन प्रतीति[प्रसङ्गात् गृहात्म (मृदात्म) कत्वेन घटादिप्रतीतिवत् । नहि मृदः ने परिणामा घटादयोऽतदात्मकाः प्रतीयन्ते किन्तु तदात्माः । इत
रथा नालिकरद्वीपायातस्य दहन वित्तदभिधानाप्रतीतिः स्यादिति सर्वत्र सङ्केतानर्थक्यम् । २५ अथ मतम्-यथा भवतः शब्दे रूपादयो नहि (योऽनभि)व्यक्ताः सन्ति तथा ममापि
शब्दो घटादौ इति ; तदसारम् ; यतः तंत्र तेषामनभिव्यक्तानामनुमानतो व्यक्तिदर्शनादिति प्रतिपादयिष्यते अनन्तरकारिकया । न च तथा घटादौ शब्दास्तित्वे अनुमानाद्य (नमस्ति । अथ) सङ्केतात्तत्र तत्प्रतीतेः, पूर्वमपि.स तत्रेति मतिः ; सापि न युक्ता; "ततोऽपि तत्रं तदप्रतीतेः । वक्तरि शब्दस्य, भूमावर्ष (मौ अर्थ)स्य प्रतीतेः । नापि देशभेदेन प्रतीयमानयोः परिणामिभावः, सहचरघटपटयोरपि तत्प्रसङ्गात् । भ्रान्तेस्तत्प्रतिभासो द्विचन्द्रवत् जलेतरचन्द्रवद्वा इति चेत् ; तर्हि स्वप्नादिवत् शब्दघटप्रतिभासोऽपि भ्रान्त इति कः कस्य परिणामः ? बाधकाभावोऽन्यत्रापि ।
तत्त्व (ननु) तयोर्देशभेदे कथं घट[पट]वत् सामानाधिकरण्यम् ? अस्ति च, गौरयमिति
(१) विवक्षाप्रभवताम् । (२) ते घटादयः, शब्दाः शब्दस्वरूपाः। (३) शब्दब्रह्मपर्यायाः । (४) शब्दात्मकत्वेन । (५) 'न' इति निरर्थकमत्र । (६) मृदात्मकाः। (७) यदि शब्दात्मकाः स्युर्घटादयः । (८) यथा नालिकेरद्वीपायातस्य दहनं न प्रतीयते तद्वत् अभिधानस्य प्रतीतिः न स्यात् इति व्यतिरेक्युदाहरणमिदम् । (९) शब्दे । (१०) शब्दः । (११) सङ्केततोऽपि । (१२) अर्थे । (१३)शब्दाप्रतीतेः । (१४) शब्दार्थयोः । (१५) शब्दात्मकस्य घटस्य प्रतिभासोऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org