Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 320
________________ ६७३ १०१९] द्रव्यार्थिकाभासविचारः [ सत्स्वभावोपलब्धौ किं सत्तया समवायिनाम् ? असतां सत्ताभिसम्बन्धं नाभावः कस्यचित् कचित् ॥९॥ स्वतः सतो [न सत्तासमवायः] सामान्यसमवायवदिति । यदि पुनः [स्यात्] स्वपक्षघाती कथमनुन्मत्तः ? कश्च द्रव्यादीनां स्वतः परतो वा सद्भावे विशेषः यतः सत्तासम्बन्धेन अर्थो विशेष्येत । यदि पुनः तयोः नित्यत्वात् ; उत्सन्नेदानी- ५ मभाववार्ता । तन्नेयं परकीया वाचोयुक्तिः। सत्तावत् सामान्यान्तरेषु अयं समानचर्चः तन्नः परस्पर ] सत्स्वभावः स्वरूपं येषां ते सत्स्वभावाः घटादयः, अनेन सत्तातद्वतोयंतिरेकं प्रत्याचष्टे', तेषामुपलब्धौ दर्शने सति, अनेनापि *"खण्डादौ गौगौरिति ज्ञानं भिन्नविशेषणनिमित्तं स्वयम् अन्यथाभूते अन्यथा ज्ञानत्वात् पुरुषे दण्डीति ज्ञानवत्" इति १० हेतोः व्यभिचारं दर्शयति । 'सन्तो घटादयः' इति ज्ञानस्य भिन्नविशेषणमन्तरेणापि भावात् । तत्रापि भिन्नसत्ता दिप्यत (दिश्यत) इति चेत् ; अत्राह-किं न किंचित् सत्तया भिन्नसत्तासम्बन्धेन इत्यर्थः । केषाम् ? इत्याह-समवायिनाम् द्रव्यगुणकर्मणाम् । ननु स्वतः सतां तत्सम्बन्धे स्यादयं दोषो नाऽसतामिति चेत् ; अत्राह-असतां च सत्तयाऽभिसम्बन्धे अङ्गीक्रियमाणे नाभावः कस्यचित् शशविषाणादेः क्वचिद् देशादौ 'भवेत्' इत्युपस्कारः । १५ ___ कारिकां व्याख्यातुमाह-स्वतः सत इत्यादि । परप्रसिद्धं निदर्शनमत्र सामान्यसमवायवदिति । अन्त्यविशेषण ग्र(षय)हणं कुतो नेति चेत् ? केषाम् (तेषाम् )अत्यन्तपरोक्षत्वेन परैरभ्युपगमात् । [५२५क] अनुमानाभासस्यापि तंत्रासंभवादनिदर्शनात् । अथ योगिनां व्यापकद्रव्येषु भेदबुद्धिर्यन्निमित्ता तेऽन्त्या विशेषाः ; न ; तेषु स्वयमेव तद्बुद्धिभावात् , अन्यथा तंत्रापि तेषां तबुद्धिरपरतत्पूर्विका इत्यनवस्था । ननु सामान्यादयो न स्वतः, नापि [प]रतः सत्तासामान्ये तदन्तराभावात् तत्कथं ते निदर्शनमिति चेत् ? अत्राह-यदि पुनः इत्यादि । सुगममुत्तरमत्र स्वपक्षघाती वैशेषिकादिः कथमनुन्मत्तः उन्मत्त एव । सामान्यादेरभावप्रतिपादनेन सर्वाभावाभ्युपगमात् । ___ पुनरपि परस्य दुश्चेष्टितं चिन्तयन्नाह-कश्च इत्यादि । चेदि(च इति) दूषणसमुच्चये कः न कश्चिद्विशेषः । क ? सद्भावे द्रव्यादीनां सत्त्वे । कुतः ? इत्याह- स्वतः परतो वा २५ स्यात् यतो विशेषात् सत्तासम्बन्धेन अर्थो द्रव्यादिः विशिष्येत । तथाहि-गुणदोषदर्शनाभ्यां क्वचित् पक्षपातेतरौ सतां युक्तौ, नान्यथा । न च स्वतः सद्भावे अर्थस्य दोषम् लेश (दोषलेश)स्यापि दर्शनम् । तथाऽदर्शनमेव तदर्शनमिति चेत् ; किं पुनः स्वतोऽसतां शशशृङ्गादीनां दर्शनमस्ति ? विरोधात् । २० (१) निराकरोति । (२) सत्तासम्बन्धे । (३) वैशेषिकैः । (४) अन्त्यविशेषेषु । (५) निदर्शनरूपेण अकथनात् । (६) विशेषेष्वपि । (७) योगिनाम् । (6) अपरविशेषपूर्विका । (९) सामान्यान्तराभावात् । (१०) दोषलेशदर्शनम् । ८५ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456