________________
६७३
१०१९]
द्रव्यार्थिकाभासविचारः [ सत्स्वभावोपलब्धौ किं सत्तया समवायिनाम् ?
असतां सत्ताभिसम्बन्धं नाभावः कस्यचित् कचित् ॥९॥ स्वतः सतो [न सत्तासमवायः] सामान्यसमवायवदिति । यदि पुनः [स्यात्] स्वपक्षघाती कथमनुन्मत्तः ? कश्च द्रव्यादीनां स्वतः परतो वा सद्भावे विशेषः यतः सत्तासम्बन्धेन अर्थो विशेष्येत । यदि पुनः तयोः नित्यत्वात् ; उत्सन्नेदानी- ५ मभाववार्ता । तन्नेयं परकीया वाचोयुक्तिः। सत्तावत् सामान्यान्तरेषु अयं समानचर्चः तन्नः परस्पर ]
सत्स्वभावः स्वरूपं येषां ते सत्स्वभावाः घटादयः, अनेन सत्तातद्वतोयंतिरेकं प्रत्याचष्टे', तेषामुपलब्धौ दर्शने सति, अनेनापि *"खण्डादौ गौगौरिति ज्ञानं भिन्नविशेषणनिमित्तं स्वयम् अन्यथाभूते अन्यथा ज्ञानत्वात् पुरुषे दण्डीति ज्ञानवत्" इति १० हेतोः व्यभिचारं दर्शयति । 'सन्तो घटादयः' इति ज्ञानस्य भिन्नविशेषणमन्तरेणापि भावात् । तत्रापि भिन्नसत्ता दिप्यत (दिश्यत) इति चेत् ; अत्राह-किं न किंचित् सत्तया भिन्नसत्तासम्बन्धेन इत्यर्थः । केषाम् ? इत्याह-समवायिनाम् द्रव्यगुणकर्मणाम् । ननु स्वतः सतां तत्सम्बन्धे स्यादयं दोषो नाऽसतामिति चेत् ; अत्राह-असतां च सत्तयाऽभिसम्बन्धे अङ्गीक्रियमाणे नाभावः कस्यचित् शशविषाणादेः क्वचिद् देशादौ 'भवेत्' इत्युपस्कारः । १५
___ कारिकां व्याख्यातुमाह-स्वतः सत इत्यादि । परप्रसिद्धं निदर्शनमत्र सामान्यसमवायवदिति । अन्त्यविशेषण ग्र(षय)हणं कुतो नेति चेत् ? केषाम् (तेषाम् )अत्यन्तपरोक्षत्वेन परैरभ्युपगमात् । [५२५क] अनुमानाभासस्यापि तंत्रासंभवादनिदर्शनात् । अथ योगिनां व्यापकद्रव्येषु भेदबुद्धिर्यन्निमित्ता तेऽन्त्या विशेषाः ; न ; तेषु स्वयमेव तद्बुद्धिभावात् , अन्यथा तंत्रापि तेषां तबुद्धिरपरतत्पूर्विका इत्यनवस्था ।
ननु सामान्यादयो न स्वतः, नापि [प]रतः सत्तासामान्ये तदन्तराभावात् तत्कथं ते निदर्शनमिति चेत् ? अत्राह-यदि पुनः इत्यादि । सुगममुत्तरमत्र स्वपक्षघाती वैशेषिकादिः कथमनुन्मत्तः उन्मत्त एव । सामान्यादेरभावप्रतिपादनेन सर्वाभावाभ्युपगमात् ।
___ पुनरपि परस्य दुश्चेष्टितं चिन्तयन्नाह-कश्च इत्यादि । चेदि(च इति) दूषणसमुच्चये कः न कश्चिद्विशेषः । क ? सद्भावे द्रव्यादीनां सत्त्वे । कुतः ? इत्याह- स्वतः परतो वा २५ स्यात् यतो विशेषात् सत्तासम्बन्धेन अर्थो द्रव्यादिः विशिष्येत । तथाहि-गुणदोषदर्शनाभ्यां क्वचित् पक्षपातेतरौ सतां युक्तौ, नान्यथा । न च स्वतः सद्भावे अर्थस्य दोषम् लेश (दोषलेश)स्यापि दर्शनम् । तथाऽदर्शनमेव तदर्शनमिति चेत् ; किं पुनः स्वतोऽसतां शशशृङ्गादीनां दर्शनमस्ति ? विरोधात् ।
२०
(१) निराकरोति । (२) सत्तासम्बन्धे । (३) वैशेषिकैः । (४) अन्त्यविशेषेषु । (५) निदर्शनरूपेण अकथनात् । (६) विशेषेष्वपि । (७) योगिनाम् । (6) अपरविशेषपूर्विका । (९) सामान्यान्तराभावात् । (१०) दोषलेशदर्शनम् ।
८५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org