________________
६७२
सिद्धिविनिश्चयटीकायाम् [१० अर्थनयसिद्धिः अमूर्तस्य सामान्यस्य प्रतीतिरस्ति यतः तस्य ता व्यञ्जिकाः स्युः, सदृशात्मनां तासां स्वबुद्धौ प्रतिभासनात् । नापि सामान्य तथाविधं तासु प्रत्ययविशेषमुपजनयदुपलब्ध (ब्ध)येन तावता दुपक (तावता तदुपकारक) मुच्यते, परिणामिनो भावस्य स्वयं चक्षुरादिप्रत्यये प्रथनात् ।
अथ मतं रो(नो) पकार्योपकारकभावाद् भेदानां तद्वत्त (त्त्व)मपि तु सामान्यस्य तत्र ५ समवायादिति; तत्राह-तादृशस्य इत्यादि । तादृशस्य असंभावितवस्तुत्वस्य कचित् शाव
लेयादौ वृत्तिः समवायः सम्बन्धः क्वचित् कर्कादाववृत्तिः न 'संभाव्या' इति सम्बन्धः । यदि हि तादृशं तदुपलब्धं भवेत् तदा तत् कचिद्वर्त्तते न वा इति [५२४ क] कल्पनमर्हति, नान्यथा वन्ध्यासुतवत् । अनेन तत्र तत्समवायसाधनं निरस्तम् । यदा हि तद्वर्त्तमानं तत्रोपलब्धं भवति
तदा 'इह जातिवर्त्तते' इति प्रत्ययात् तद्युक्तं न वा। एवं कदाचित् पिण्डोत्पत्तिसमये वृत्तिः तद्विनाश१० समये अवृत्तिः न संभाव्या । न परिणाममन्तरेण सम्बन्धेतररूपद्वयम् एकस्य ।।
ननु पिण्ड एव उत्पद्यते विनश्यति वा न सामान्यं समवायो वा, न वाऽन्यस्य उत्पत्त्यादेरन्य[त्] तद्वत्'; अतिप्रसङ्गात् । अतो यथा कर्तृत्वाकर्तृत्वभावेऽपि न तद्भेदः तथा वृत्त्यवृत्तिभावेऽपि इति चेत् ; न सदेतत् ; यतः पूर्वरूपापरित्यागे इदमिह वर्त्तते न वर्त्तते चेति ततः
प्रत्ययायोगात्, सर्वदा वा तत्प्रत्ययप्रसवः, नित्यस्य अपेक्षायोगात् । कथंचिन (कथंचन) १५ सर्वात्मना वृत्तिरवृत्तिर्न संभाव्या ।
नन्वेकस्य सदादिप्रत्ययकर्तृत्वाकर्तृत्ववत् वृत्त्यवृत्ती स्यातामिति चेत् ; अत्राहसदादि इत्यादि । सदादिर्यस्य द्रव्यगुणादेः तस्य प्रत्ययः तस्य कर्तृत्वं [अकर्तृत्व] च क्वचित् कदाचित् कथंचिन्न संभाव्यम् इत्येवं दुर्णयः।
किंच, सामान्यं सर्वगतम् , स्वव्यक्तिसर्वगतं वा भवेत् ? प्रथमपक्षे दूषणमाह-सत्तावत् २० महासामान्यवत् जात्यन्तराण्यं(राणां) गोत्वादीनां सर्वगतत्वे अङ्गीक्रियमाणे वृत्तिप्रत्ययसङ्करः।
यथा गोत्वस्य खण्डादौ वृत्तिः सयवायथाददित्त्वादेरिति (समवायात् तथा दधित्वादेरिति) वृत्तिसंकरः, तत एव तत्रं गोप्रत्ययवत् दध्यादि[प्र]त्ययोऽपि स्यादिति प्रत्ययसङ्करः। द्वितीयपक्षे स्वविषय इत्यादि । स्वविषयसर्व गतत्वे स्वगोचरे व्यक्तिव्यापित्वे क्रियावत्त्वमन्तरेण निष्क्रियस्य इत्यर्थः ।
अर्थो द्रव्यादिः [५२४ ख] उपित्सुर्यस्मिन् देशे स तथोक्तः , कामचारेण विशेषणविशेष्य२५ भावः इति उत्पित्सुपदस्य विशेष्यत्वं स चासौ देशश्च तत्प्रप्तिः(तत्प्राप्तिः) प्रागुत्पत्तेः पूर्व तत्र देशेऽसतां जात्यन्तराणां न स्यात् । तदुक्तं स म न्त भद्र स्वा मि मिः- .
*"सामान्यं समवायश्च एकत्र समवाप्तितः। अन्तरेणाश्रयं न स्यात् नाशोत्पादिषु को विधिः ॥"
[आप्तमी० श्लो० ६५] इति । अतश्च न तद् वस्त्वन्तरमेव युक्तमिति दर्शयन्नाह-सत्स्वभावोपलब्धौ इत्यादि ।
(१) व्यक्तयः । (२) नित्यम् । (३) वक्तुं शक्येत । (४) अन्यो भावः तद्वान् भवितुमर्हति । (५) खण्डादौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org