________________
१०८] द्रव्यार्थिकाभासविचारः
६७१ सामान्यानि च समवायश्च तेषाम् आत्मादीनाम् वा (च) आदिशब्दात् अत्मव्यतिरिक्तसकलमूलद्रव्यपरिग्रहः । किम् ? इत्याह-नित्यता संदकारणत्वात् इति मन्यते । [त]त एव नित्यद्रव्येषु वर्तमानस्य संख्यादेः नित्यत्वं संख्यादिनित्यत्वम् । अत्र आदिशब्देन परिणामादि (परिमाणादि)परिग्रहः । एतेन नित्यव्यापिद्रव्यवृत्तयोऽन्त्यविशेषा व्याख्याताः । शेषं कथितादन्यथा अनित्यम् इति ।
___ कारिकां व्याख्यातुमाह-द्रव्यार्थिकनयम् इत्यादि [५२३क] । नित्यत्वे भावानां द्रव्यार्थिकस्यैव व्यापारो न नैगमस्य अन्यथाभूतत्वात् अतो द्रव्यार्थिकनयमाश्रित्य इत्युच्यते । द्रव्यस्य आत्मादेः तत्संख्यादेः सामान्यसमवायानां च नित्यत्वम् शेषाणाम् अनित्यत्वं च, 'च' इत्यवधारणे सामान्यादिषु केचन नैयायिकादयो निगच्छन्ति प्रतिपद्यन्ते । कुतः शेषाणा (णां) ने हा ह (न ? इत्याह-)कार्यद्रव्य इत्यादि । कार्यद्रव्यम् प्रागसत् सत्तासम- १० वायिकारण (णं) समवायि या द्रव्यम्, कर्म उत्क्षेपणादि गुणविशेषाः कार्यद्रव्यगताः सर्वे रूपादयः नित्यद्रव्यगताः संख्यादिभ्योऽन्ये बुद्ध्यादिरक्तादयः तेषाम् अनित्यत्वाभ्युपगमात् । किं सामान्यम् ? इत्याह-तत्र इत्यादि । तेषु सामान्यादिषु मध्ये समानानां सदृशानां भावः सामान्यम् तद् विशेषेभ्यो भिन्नमेव इति योगाः । तत्राह-न तत् सामान्यं वस्त्वन्तरमेव व्यक्तिभ्यो भिन्नमेव युक्त 'कथञ्चिद्भिन्नं तु युक्तम्' इति एवकारेण दर्शयति एकत्र प्रमाणाभावाद् १५ अन्यत्र विपर्ययात् । कथं तत्तर्हि इति सौगतः; तत्राह-संविदाम् इत्यादि । संविदां ज्ञानानामिव विषयसारूप्यं यथा ज्ञानानां विषयेण सारूप्यं तथा सामान्यमिति विचारित[म]सकृत् । कुतो न तद् वस्त्वन्तरमेव इति चेत् ? अत्राह-नहि इत्यादि । [हि] यस्मात् न वस्त्वन्तरेण भेदाः परस्परविलक्षणा भावाः समाना इतरथा चन्द्रमसैकेन सर्वेऽपि उडुविशेषाः समाना इति [न] तेषु तारोपति (तारा इति)प्रत्ययः ।
स्यान्मतम्-न तेषु विधुर्वर्तते, सामान्यं तु स्वपि (स्ववि)शेषवृत्ति, ततोऽयमदोष इति ; तत्राह-तद्वन्तः सामान्यवन्तो [५२३ख भेदा नाम स्युः । यथा अव्यवन्नगरं (?) तद्वन्त एव इति चेत् ; अत्राह-कथं च इत्यादि । केन च प्रकारेण न केनचिद् उपकार्योपकारकभावमन्तरेण वस्त्वन्तरेण तद्वत्त्वम् अतिप्रसङ्गात् विन्ध्यस्य साध्येन (सह्येन) तद्वत्ता स्यादित्यि]तिप्रसङ्गः।
२५ ___ ननु भवन्मते-रूपतद्विज्ञानयोः उपकार्योपकारकभावमन्तरेणापि भवति तद्वत्ता 'रूपस्य ज्ञानम्' । अथ तत्र अयमेव तद्भावो यो ग्राह्यग्राहकभावः ; जातिव्यक्त्योरपि प्रकाश्यप्रकाशकभाव एव तद्भावोऽस्तु । न हि योग्यतात्र राजदण्डवारिता । जात्या वा व्यक्तीनामुपकारः-तत्र विशिष्टबुद्धिजननमिति चेत् ; अत्राह-अपरिणामिनो नित्यैकरूपस्य सामान्यादेः तावद्वस्तुत्वमेव सत्त्वमेव न संभाव्यं प्रमाणाभावात् । नहि खण्डादिभ्यो भिन्नस्य नित्यस्य निरंशस्य ३०
(१) सत्त्वे सति कारणरहितत्वात् इति । (२) विशेषा अपि नित्या इति । (३) सर्वथा भेदे । (४) कथञ्चिद्भेदे । (५) तारागणेषु । (६) उपकार्योपकारकभावः । (७) इति चेत् ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org