________________
६७०
सिद्धिधिनिश्चयटीकायाम् [१० अर्थनयसिद्धिः शुद्धं पर्यायमलकलकविकलं द्रव्यमेव अर्थोऽस्यास्तीति शुद्धद्रव्यार्थिकः तस्यास्ति । किम् ? इत्याह-सन्मानं परमार्थतो न संवृत्या,नाकारभेदोऽस्ति न ग्राह्यादिविशेषः स्थूलादिविशेषो वा न रूपादिः न क्रमो हेतुफलभावो न सुखादयः परमार्थतः, अपि तु संवृत्या इति । ५ कारिकां विवृण्वन्नाह-न खलु विज्ञानं सद्भावं सत्त्वं व्यभिचरति। कुतः ? इत्याहविशेषेषु इत्यादि । सत्त्वव्यभिचारे दूषणमाह-सन्मात्र इत्यादि । तर्हि विज्ञानं विशेषमपि न व्यभिचरति इति चेत; अत्राह-न चैवम् इत्यादि । एवं सन्मात्र[स्य] तद्विशेषाविनाभावात] भेदाव्यभिचारि ना (न)ज्ञानमस्ति तत्र व्यभिचारप्रतिपादनात् इत्येवं शद्धद्रव्यप्ररूपणात ।
कुतः 'दुर्णयः' इति घटना । कुतः ? इत्याह-पर्याय इत्यादि । निदर्शनमाह-[५२२ ख] १० यथेत्यागम (यथेत्यादि । आराम)माटोपं तस्य सत्तामात्रद्रव्यस्य पश्यन्ति जनाः न तं : सद्भावं कश्चन पश्यतीति तदाश्रयं [स]न्मात्राश्रय (य)दर्शनान्तरम् । . पर्यायार्थिकदुर्णयाभिप्रायं दर्शयन्नाह-शुद्धपर्यायनयः पुनः इत्यादि । स्वभावभेदेऽपि स्वरूपनानात्वेऽपि यदि भावैकत्वं न क्वचित पटादौ कथंचिद् देशादिभेदप्रकारेण नानात्वम,
कुतः ? इत्याह-सर्वथा सर्वेण घटादिप्रकारेण अद्वतप्रसङ्गात् । लब्धं फलं दर्शयन्नाह-सर्वथा १५ इत्यादि । इति एवं पर्यायप्ररूपणक्रमोऽयं दुर्णयः। कस्मिन् सति ? इत्याह-द्रव्यप्रतिक्षेपे सति ।
नैगमाभासं दर्शयन्नाह-सर्वथा इत्यादि । सर्वेण देशादिप्रकारेण अनयोः द्रव्यपर्याययोः अतादात्म्यात् नैगमः तमाश्रित्य दर्शनान्तरं वैशेषिकमतम् । कुतः ? इत्याह- [अ]विवक्षित
इत्यादि । द्रव्यपर्याययोरविवक्षितं सदपि नार्पितं यत् तादात्म्यं तल्लक्षणत्वात् नैगमनयस्य । २० तद्दर्शनान्तरस्वरूपं दर्शयन्नाह-सामान्य इत्यादि ।
[सामान्यसमवायानामात्मादीनां च नित्यता।
तत एव तत्संख्यादेर्नित्यत्वं शेषमन्यथा ॥८॥ द्रव्यार्थिकनयमाश्रित्य द्रव्यस्य तत्संख्यादेः सामान्यसमवायानां च नित्यत्वं शेषाणामनित्यत्वं च केचिन्निगच्छन्ति कार्यद्रव्यकर्मगुणविशेषाणामनित्यत्वाभ्युपगमात् । २५ न तत् सामान्यं वस्त्वन्तरमेव युक्तम्, संविदां विषयसारूप्यमिव । न हि वस्वन्तरभेदा
भावाः तद्वन्तः नाम स्युः । कथमुपकार्योपकारकभावमन्तरेण तद्वत्त्वमतिप्रसङ्गात् । अपरिणामिनस्तावद् वस्तुबमेव न संभाव्यम् । न तादृशस्य क्वचिद् वृत्तिः क्वचिदवृत्तिः वा । सदादिप्रत्ययक त्वमक त्वं च क्वचित् कदाचित् कथंचिन्न संभाव्यम् । इति दुर्णयः ।
सत्तावत् जात्यन्तराणां सर्वगतत्वे वृत्तिप्रत्ययसङ्करः । खविषयसर्वगतत्वे निष्क्रियस्य ३० प्राक् तत्रासतां अर्थोत्पित्सुदेशप्राप्तिनं स्यात् ।।
(१) सन्तीति सन्बन्धः । (२) भेदेषु । (३) आटोपो विस्तारः तम् । (४) "आरामं तस्य पश्यन्ति . न तत् पश्यति कश्चन ।"-बृहदा० ४।३।१४।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org