________________
१०
१०७] द्रव्यार्थिकनयस्वरूपम्
६६९ विरोधात् । एतत् शुद्धविज्ञानवादिमतापेक्षया उक्तम् । बाह्यार्थनयापेक्षया आह-विभ्रम इत्यादि । विभ्राम्यतीति विभ्रमः पा(का)चादिलक्षणोऽत (णोऽन्तः)प्रतिभासो येषां मन्त्राद्युपप्लुतोपलब्धमृच्छकलादीनां तेषु । वा इति समुच्चये । किंभूतेषु ? प्रसिद्धवितथात्मसु । प्रसिद्धः परीक्षकेतरलोकविख्यातो वितथोऽसत्यः आत्मा येषां तेषु इति ।
तदुपलब्धिः किम् ? इत्याह-अविशेषेण इत्यादि । अविशेषेण साकल्येन मिथ्यात्वप्रतिपत्तिः। क्व ? इत्याह-गुणपर्यायेषु। तथाहि-अन्तः संवित्सुखादिभेदः बहिश्च घटपटादिभेदः मिथ्या भिन्नप्रतिभासवेद्यत्वात् ग्राह्याद्याकारद्विचन्द्रादिभेदवदिति । तया[कि]म् ? इत्याह-[तया]मिथ्यात्वप्रतिपत्त्या द्रव्यार्थावधारणं द्रव्यमेव अर्थः तस्य अवधारणम्-तदेव अस्तीति ।
एवम्मन्यते-यथा[५२२ क] ग्राह्याद्याकारभ्रमेऽपि न स्वसंवेदनभ्रमः स्वप्नादिभ्रान्तावपि न जाग्रद्भ्रान्तिः तथा सकलभेदविभ्रमेऽपि न सत्तामात्रभ्रान्तिः । ततो यदुक्तं प्रज्ञा क रे ण*"प्रतिभासनेऽपि सुखादिनीलादेः वितथत्वे द्रव्ये कः समाश्वासः ?" इति; तन्निरस्तम् ; क्वचिद् बहिरन्तर्वा केषुचित् वा अर्थान्तरेषु लूनपुनर्जातनखादिषु प्रत्यभिज्ञाविसंवादात् सर्वेण देशान्तरादिप्रकारेण तद्विसंवादात् पर्यायावधारणं च । किम् ? इत्याह-दुर्णयः । १५ पूर्वो द्रव्यार्थिकनयाभासः परः पर्यायार्थिकनयाभास इति भावः । कुतः ? इत्याह-तत्त्वस्य जीवादेः प्रतिक्षेपान्निरासात् । द्रव्यार्थावधारणं दर्शयन्नाह-शुद्धत्यादि] ।
[शुद्धद्रव्यार्थिकस्यास्ति सन्मानं परमार्थतः।
नाकारभेदो न रूपादिः न क्रमो न सुखादयः ॥७॥ २० न खलु विज्ञानं सद्भावं व्यभिचरति विशेषेषु व्यभिचारात् । सन्मात्रस्य तद्विशेषाविनाभावात् । न चैवं भेदाव्यभिचारि ज्ञानमस्ति इति शुद्धद्रव्यप्ररूपणात् । पर्याय[निराकरणात् दुर्णयः] यथा *"आरामं तस्य पश्यन्ति न तं पश्यति कश्चन" [बृहदा० ४।३।१४] इति तदाश्रयं दर्शनान्तरम् । शुद्धपर्यायनयः पुनः यदि स्वभावभेदेऽपि भावैकत्वं न क्वचित् कथञ्चिन्नानात्वं सर्वथा अद्वतप्रसङ्गात् इति सर्वथा २५ द्रव्यप्रतिक्षेपे पर्याय प्ररूपणक्रमोऽयं दुर्णयः। सर्वथा अनयोरतादात्म्यनैगममाश्रित्य दर्शनान्तरम् अविवक्षिततादात्म्यलक्षत्वात् नैगमस्य ।]
(1) तुलना-"अन्योऽन्यगुणभूतकभेदाभेदप्ररूपणात् । नैगमोऽर्थान्तरत्वोक्तौ नैगमाभास इष्यते ॥" -लघी० श्लो० ३९ । "तत्र संकल्पमात्रस्य ग्राहको नैगमो नयः । यद्वा नैकं गमो योऽत्र स सतां नैगमो मतः ॥ धर्मयोः धर्मिणोऽपि विवक्षा धर्मधर्मिणोः।"-त. श्लो. पृ० २६९ । नयवि० श्लो० ३३-३७ । सन्मति० टी० पृ० ३१० । नयचक्र० गा० ३३ । तत्वार्थसा० पृ० १०७ । प्रमाणनय० ७७ । स्या० म. पृ० ३११ । जैनतर्कभा० पृ० २१ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org