________________
सिद्धिविनिश्चयटीकायाम्
[ १० अर्थनयसिद्धिः
*" एव नित्यक्षणिकादयो नयाः मिथोऽनपेक्षाः स्वपरप्रणाशिनः । त एव तत्त्वं विमलस्य ते मुनेः परस्परेक्षाः स्वपरोपकारिणः || ” [ बृहत्स्व० श्लो० ६१] कारिकां विवृण्वन्नाह-परीक्षा इत्यादि । परीक्ष (क्षा) सामान्यनयस्वरूपम् इत्यर्थः । ५ केषामिति किं विषया सा ? इत्याह- भेदाभेदप्रतिष्ठा [ भेदो] भेदयोः विशेषसामान्ययोः प्रतिष्ठा स्थितिर्यस्याः, द्रव्यपर्यायविषयद्वैविध्यात् नयाँ विध्यमाह । 'सम्यक्त्वम्' इत्यादि व्याचष्टे । तत्र तस्मिन् नयस्वरूपतद्भेदे सति अन्योऽन्यं परस्परं द्रव्ययय (पर्याययो) रविनाभावस्य प्रतिपत्तिर्यस्यां परीक्षायां सा अन्योऽन्या [विना ] भावप्रतिपत्तिः । सा किम् ? इत्याह-प्रमाणं मुनय (सुनय) इति यावत् । मिथ्यात्व मित्याद्य यदि सति तेरथा (त्वमि - १० त्यादि व्याचष्टे - इतरथा अन्योऽन्याविनाभाव (नाभावाभाव) प्रतिपत्तिप्रकारेण इतरथा न प्रमाणपरीक्षा इति । कुतः ? इत्याह - " सत्येव इत्याह ' - सत्येव इत्यादि । सत्येव विद्यमान एव पर्यायार्थिकस्य [द्रव्ये] द्रव्यार्थिकस्य पर्याये असत्त्वप्रतिपत्तेः न प्रमाणम् । अत एव अस्मादेव कारणात् दुर्णयता । सत्येव असत्त्वप्रतिपत्तिं दर्शयन्नाह - द्रव्यार्थिकस्य इत्यादि । [व्यार्थिकस्य पर्यायाः सन्त्येवात्राविवक्षिताः । पर्यायार्थिकस्यापि सद् द्रव्यं परमार्थतः || ५ ॥ ]
१५
६६८
[द्रव्यार्थिकस्य द्रव्यवि]षयप्रधानाभिप्रायस्य पर्यायाः स्थासशिविकादिभेदाः सत्येव ( सन्त्येव) अत्र विद्यन्त एव तदभावे द्रव्यस्याप्यभावः इत्युक्तम् । ततो दुर्णयता । नयप्रमाणयोरविशेषः स्यादिति चेत्; अत्राह - अविवक्षिता गुणीभूतास्ते [५२१ख ] तस्य सन्ति, प्रमाणे तूभयं प्रधानमिति विभागः । तत्किम् ? इत्याह- सद् विद्यमानं परमार्थतः । २० कस्य ? इत्याह-पर्यायार्थिकस्य पर्या [य] प्रधानाभिप्रायस्य । अपिः अभिप्रायसमुच्चये । अत्राप्यविवक्षितमिति द्रष्टव्यम् । तदाभा [तदभावे पर्यायस्यापि ] विलोपः ।
२५
कारिकायाः सुगमत्वाद् व्याख्यानं न कृतम् ।
यदि द्रव्यार्थिकस्य पर्यायाः सन्ति पर्यायार्थिकस्य द्रव्यम्, कथं सत्प्र ( तत्प्र ) तिक्षेप इति चेत् ? अत्राह - संविदाम् इत्यादि ।
[ संविदामाकार भेदेषु विभ्रमप्रतिभासिषु । विसंवादोपलब्धिर्वा प्रसिद्ध वितथात्मसु ॥ ६॥
अविशेषेण गुणपर्यायेषु मिथ्यात्वप्रतिपत्या द्रव्यार्थावधारणं क्वचित् केचित् वा प्रत्यभिज्ञाविसंवादात् सर्वेण तद्विसंवादात् पर्यायावधारणं च दुर्णयः तत्त्वप्रतिक्षेपात् ॥] संविदां ज्ञानानां विसंवादोपलब्धिः । क ? इत्याह- आकारभेदेषु ग्राहक३० संवेदनाकारविशेषेषु, संविदामिति सम्बन्धः । नहि एकस्य अनेकं रूपं परमार्थसत् युक्तम्, (१) 'सत्येव इत्याह' इति पुनर्लिखितमत्र व्यर्थम् । (२) पर्यायाभावे । (३) अस्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org