________________
नयदुर्णयविचारः
६६७
५
स्यान्मतम्-प्रमाणपरिच्छिन्नार्थैकदेशे नयेः, तस्य च प्रमाणत एव सिद्ध:, नहि समुदायाः तदेकदेशसिद्धिमन्तरेण सिध्यन्ति । वृक्षः प्रचलन सहावयवैः प्रचलति ततः किं इति ? तत्राह - स्वयम् इत्यादि । स्वयं [ ५२०ख ] प्रतिपत्रा साक्षात्कृतेऽपि उपलक्षण [मेर्तत, तेनाऽ]भिहितेऽपि अनुमितेऽपि विवाददर्शनाद् वस्तुनि पुनः पश्चात् ऊहापोहाभिप्रायमन्तरेण नु (न) [तत्रं त]त्त्वाभिप्राय [याभि] निवेशः तत्त्वरुचिर्यतः तदनुष्ठानं सर्वत्र बहिरन्तश्च इति । तदभिप्रायमन्तरेणाऽ [पि तत्त्वेऽ] तिप्रसङ्गात्, अभिमतवदनभिमतेऽपि तदभिनिवेशप्रसङ्गात् । प्रत्यक्षमेव अतिप्रसङ्गं निवारयतीति चेत्; अत्राह - प्रत्यक्षोपलम्भस्य प्रत्यक्षेण दर्शनस्य परीक्षेतरयोरविशेषात् कारणात् ताव [ ता] तदुपलम्भमात्रेत्यै (त्रेणै) वार्थसिद्धौ अङ्गीक्रियमाणायां तत्त्वज्ञानं न कस्यचित् परीक्षकस्य इतरस्य वा स्यात् इतरस्मात् परीक्षको न भिद्येति परीक्षाऽनर्थिका भवेत् इति यावत् । परः पृच्छति - कुतः कारणात् पुनः तत्त्वज्ञा- १० नमन्यद्वाऽतत्त्वज्ञानं वा इत्येवं चेत् ? अत्रोत्तरमाह - सुनयदुर्णयाभ्याम् इति । सुनयेन तत्त्वज्ञानं दुर्णयेन अतत्त्वज्ञानम् । सौगतादिवदेतदिति चेत्; अत्राह - समानेऽपि जैनैकान्तवादिनोः साक्षात्करणे अभिप्रायभेदात् अभिप्रायस्य ज्ञावभिसत्त्वेः (ज्ञात्रभिरुचेः) अर्थानुसारित्वेतरत्वकृतविशेषात् तत्त्वेतराभिनिवेशोपपत्तेः । तदपि कुतः ? इत्याह- तन्निष्ठत्वात् नयस्वरूपत्वात् परीक्षायाः ।
तद्भेदं सुनयदुर्णयत्वं च दर्शयन्नाह - तत्र इत्यादि ।
१०२४ ]
[ तत्र मूलनयौ द्रव्यपर्यायार्थगोचरौ ।
मिथ्यात्वं निरपेक्षत्वे सम्यक्त्वं तद्विपर्यये ॥४॥
"
परीक्षा भेदाभेदप्रतिष्ठा द्रव्यपर्याय विषयद्वैविध्यात् नयद्वैविध्यमाह । तत्र अन्योऽन्याविनाभावप्रतिपत्तिः प्रमाणम् । इतरथा न प्रमाणपरीक्षा । सत्येव असत्त्वप्रतिपत्ते - २० दुर्णता । ]
तत्र नयसामान्यलक्षणे, मूलनयौ नैगमादिप्रकृतिभूतनयौ द्रव्यपर्यायार्थी द्रव्यं पर्यायश्च अर्थो गोचरो ययोः तौ तथोक्तौ - द्रव्यार्थोद्रव्यार्थिकः [ ५२१क] पर्यायार्थि (यार्थः) पर्यायार्थिक इत्यर्थः । मिथ्यात्वं तयोः निरपेक्षत्वे परस्परापेक्षाभावो (वे) सम्यक्त्वं तद्विपर्यये निरपेक्षत्वविषये सापेक्षत्वविषये (निरपेक्षत्वविपर्यये ) सापेक्षत्व इत्यर्थः । तथा २५ चोक्तम्
(१) प्रवर्तते । (२) अत्र प्रतिस्त्रुटिता । (३) तुलना - "निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् । " - आप्तमी० श्लो० १०८ । " तम्हा सव्वे वि गया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोष्णणिसिआ उण हवंति सम्मत्तसब्भावा ॥" - सन्मति ०१।२१ ( ४ ) तुलना - "धर्मान्तरादानोपेक्षाहानिलक्षणत्वात् प्रमाणनयदुर्णयानां प्रकारान्तरासंभवाञ्च । प्रमाणात् तदतत्स्वभावप्रतिपत्तेः नयात् तत्प्रतिपत्त ेः दुर्णयात्तदन्यनिराकृतेश्च ।" - अष्टश०, अष्टस० पृ० २७९ । लघी० इलो० ३० । “सदेव सत्स्यात् सदिति त्रिधार्थी मत दुर्नीतिनयप्रमाणैः । " - अन्ययोगव्य० इलो० ८ ।
Jain Education International
१५
For Personal & Private Use Only
www.jainelibrary.org