________________
६६६
सिद्धिविनिश्चयटीकायाम्
[ १० अर्थनयसिद्धिः
तदसंभवः, तथापि तस्य प्रामाण्यम् अज्ञातार्थप्रकाशनादिति चेत्; अत्राह - अनधिगत इत्यादि । ततः सूक्तम् ज्ञानं (नमेव ) प्रमाणमिति ।
"
'नयो [ ज्ञातु]र्मतं मतः' इति न व्याचष्टे सुगमत्वात् । केवलं तत्र चोद्यं परिहत्तुं कुर्वन्नाह–नयस्य इत्यादि । नयस्य प्रमाणात्मकत्वे पृथक् वचन [मन] र्थकम् 'ज्ञानं प्रमाणम्' ५ इत्येतावदेव वक्तव्यम् तथा च परैकवाक्यता । तस्य तदात्मकत्वं नास्ति, ततः पृथग्वचन चेत्; अत्राह - अन्यथा प्रमाणात्मकत्वाभावप्रकारेण कथं तेन नयेनाधिगमो नाम स्वार्थव्यवसायो नाम यतस्तेन अधिगमा [त् * " प्रमा] णनयैरधिगमः " " [ तत्त्वार्थसू० १/६ ] प्रतिपाद्येत तत्त्वार्थ सूत्र कृता । नहि अप्रमाणेन कस्यचिदधिगमः, प्रमाणपरीक्षानर्थक्यप्राप्तः इति भावः । तत्रोत्तरम्-न इत्यादि । यदुक्तं परेण तन्न; कुतः ? इत्याह- ततो नयात् तत्त्वस्य १० जीवादेः अधिगमोपपत्तेः । एतदपि कुतः ? इत्याह-- तत्परीक्षा लक्षणत्वात् [ ५२० ] तस्य
3
जीवादेः परीक्षा विचारः सैव लक्षणं स्वरूपं यस्य तस्य भावात् तत्त्वात् नयस्य इति, ततः तदधिगमोपपत्तिः । कुत इति चेत् ? अत्राह - द्रव्य इत्यादि । द्रव्यार्थिक पर्यायार्थिकयोः नययोः द्वयेन द्वयस्य वा विचारे सति परमार्थप्रतिपत्तेः परमार्थस्य परमार्था वा प्रतिपत्तिः तस्याः अविरोधात् । सुविचारितं तत्त्वं सुस्थिततरं भवतीति परीक्षकन्यायः ।
ननु यदि ततः तदधिगति:; तर्हि प्रमाण [ " त्वापत्ति ] स्तस्य तल्लक्षणत्वात् । तथा च अन्त्यचोद्यपरिहारो नान्यस्य (नाद्यस्य ) इति चेत्; अत्राह - स्यात् प्रमाणात्मकत्वेऽपि इत्यादि ।
१५
२०
[स्यात्प्रमाणात्मकत्वेऽपि प्रमाणप्रभवो नयः । विचारो निर्णयोपायः परीक्षेत्यवगम्यताम् ॥३॥
स्वयं साक्षात्कृतेऽपि विवाददर्शनात् पुनः ऊहापोहाभिप्रायमन्तरेण न तत्र तत्त्वाभिप्रायाभिनिवेशः यतः सर्वत्र तदनुष्ठानम् । प्रत्यक्षोपलम्भस्य परीक्षे तरयोरविशेषात्, तावतार्थसिद्धौ न कस्यचित्तत्त्वज्ञानं स्यात् । कुतः पुनस्तत्त्वज्ञानमन्यद्वेति चेत् ; सुनदुर्णयाभ्याम् । समानेऽपि साक्षात्करणे अभिप्रायभेदात् तच्चेतराभिनिवेशोपपत्तेः तन्निष्ठत्वात् परीक्षायाः]
२५
स्यात् भवेत् प्रमाणभावः प्रमाणात् अनेकान्तग्रहणरूपात् प्रभव उत्पादो यस्य स तथोक्तः ततो भिन्न इत्यर्थः, हेतुफलयोः कथंचिद्भेदात् । कोऽसौ ? इत्याह- नय इति । प्रमाणगृहीतैकदेशाव्य (शाध्य) वसायाभिप्रायः । कस्मिन् सत्यपि ? इत्याह- प्रमाणात्मकत्वेऽपि । नयस्य तदात्मकत्वं कुतः ? इत्याह-निर्णयोपायो नयो गतः ( यतः) । सोऽपि कुतः इत्याह- विवागे (विचारो ) यतः । ननु प्रत्यक्षादेरपि सविकल्पकवादिनो विचारो भवति, ३० ततोऽस्य को विशेष इति चेत् ? अत्राह - परीक्षति ( परीक्षा इति) नित्य: क्षणिको वा भाव: अनेन प्रकारेणेति या परीक्षा सा नये (नय) इत्येवमवगम्यताम् ।
(१) नयस्य । ( २ ) प्रमाणात्मकत्वम् । (३) इति । (४) नात् । (५) अत्र प्रतिः घृष्टा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org